जीवादीनां धर्मिधर्मोभयविधज्ञानेन मायायामन्वयव्यतिरेकभावोऽप्यस्ति । स्थूलादिदेहत्रितये तादात्म्येनाऽवस्थितिः जीवस्याऽन्वयभावः । देहत्रयात्पृथक्त्वेन जन्मादिषड्विकाररहितत्वेन सत्तामात्रेणाऽवस्थितिः जीवस्य व्यतिरेकभावः ।
विराडादिदेहत्रितये तादात्म्येनाऽवस्थितिरीश्वरस्याऽन्वयभावः । विराडादिदेह- त्रयात् पृथक्त्वेन सत्तामात्रेण ब्रह्मभावेनाऽवस्थितिरीश्वरस्य व्यतिरेकभावः ।
मायायां तथा मायाकार्यभूतेष्वनन्तकोटिब्रह्माण्डेषु व्यापकत्वेनाऽवस्थितिरक्षर- ब्रह्मणोऽन्वयभावः । मायातः मायाकार्यतश्च पृथक्त्वेन सच्चिदानन्दभावेनाऽवस्थितिः अक्षरब्रह्मणो व्यतिरेकभावः ।
जीवेश्वराऽक्षरब्रह्ममायासु तथा मायाकार्यभूतेष्वनन्तेषु ब्रह्माण्डेष्वन्तर्यामित्वेन नियन्तृत्वेन चाऽवस्थितिः परब्रह्मणोऽन्वयभावः ।
परमतेजोमयेऽक्षरधाम्नि सदा दिव्यसाकाररूपेण विराजमानत्वं भगवतः
[[४२]]
परब्रह्मपुरुषोत्तमनारायणस्य व्यतिरेकभावः । एवं जीवेश्वरादीनामन्वयव्यतिरेकनिरूपणेन तेषां मध्ये विद्यमानो यः
परस्परभेदः सोऽपि सुस्पष्टो भवति ।
अत्राऽयं निगलितार्थो यज्जीवस्य धर्मभूतज्ञानद्वारा देहत्रयेऽन्वयभावः । ईश्वरस्य विराडादिदेहेष्वन्वयभावः । अक्षरब्रह्मणः परमात्मानं विहाय सर्वत्राऽन्वयभावः । परमात्मनस्त्वसंकोचेन सर्वत्र स्वरूपतः स्वभावतो विग्रहतश्चाऽन्वयभाव इति ।
सर्वत्र अन्वितत्वे सत्यपि न परमात्मानं जीवमायादीनां विकाराः स्पृशन्ति, स तु नित्यनिर्दोष एव । इयाँस्तु महान् विशेषो जीवादिभ्यः परमात्मनः । कथयति भगवान् श्री-स्वामि-नारायणः श्रीशतानन्दस्वामिविरचिते श्रीहरिवाक्यसुधासिन्धौ
कृष्णो दिव्याकृतिजीवेष्वन्तर्यामितया स्थितः ॥ मूर्तवत्कार्यकारित्वादप्यमूर्तोऽस्ति मूर्तिमान् ॥ (श्रीहरि.त.१२३.४२)
मायातदीयकार्येषु हरेरर्धस्य नाऽन्वयः ॥ नाऽर्धस्य व्यतिरेकश्च भवतीत्यवगम्यताम् ॥ किन्तु स्वयं स्वरूपेण पृथगेव स्थितः प्रभुः ॥
वर्ततेऽन्वीय सर्वत्र सामर्थ्यं तस्य हीदृशम् ॥ (श्रीहरि.त.२०७.११,१२)
उक्तञ्च श्रीमद्भागवते भगवता बादरायणेन धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि इति । (भा.पु.१.१.१)
श्रीहरिवाक्यसुधासिन्धाेः सप्तमतरङ्गे पञ्चस्वनादिभेदेष्वक्षरब्रह्मण उल्लेखो दृश्यते । सुधासिन्धोः शतोत्तरचतुष्षष्टितमे तरङ्गे पञ्चस्वनादिभेदेषु पुरुषात्मकस्य महापुरुषस्य विधानं विद्यते, नाऽक्षरब्रह्मणः । नाऽत्र विराेधाभासो ब्रह्मकोटौ महापुरुषस्याऽपि समावेशात् । कथयति भगवान् श्री-स्वामि-नारायणो वचनामृतग्रन्थे यत् सर्वकारणकारणाेऽक्षरात्परः पुरुषाेत्तमाे वासुदेवाे भगवान् महापुरुषात्मना महामायायां वीर्यमाधत्ते । स एव पुरुषोऽक्षरात्मा , मुक्तः , ब्रह्म चेति संकीर्त्यते इति । (दुर्ग.प्र.वच.३१)
किञ्चाऽस्त्यत्राऽन्यत् महद्रहस्यं यत्सृष्टेरसाधारणकारणरूपः सर्वतन्त्रस्वतन्त्रो भगवान् परब्रह्म पुरुषोत्तमो नारायणः । विनाप्यक्षरब्रह्म ब्रह्मात्मकमहापुरुषद्वारा चराचरसृष्टिकरणे समथा र्ेऽस्ति । तथा चाेक्तं श्रीशतानन्दस्वामिविरचिते श्रीहरिवाक्यसुधासिन्धौ भगवता श्री-स्वामि-नारायणेन
[[४३]]
कृष्णः सर्वनियन्ताऽस्ति सर्वकृत्सर्वकारणम् ॥ अतिरूपोऽतितेजाश्च भूरिसामर्थ्यवान्प्रभुः ॥ कर्तुं समर्थोऽकर्तुं चाऽन्यथाकर्तुमपि स्वयम् ॥ स्वतेजसि विलाप्यैतानेकः स्थातुं च स क्षमः ॥ स्वपदे चाऽक्षरे त्वेतैः कृतां नानोपचारकैः ॥ स्वसेवां स्वेच्छया सोऽङ्गीकुरुते पुरुषोत्तमः ॥ स्वाऽऽवासमक्षरमपि प्रत्याकृष्यात्मनि स्वयम् ॥ निजशक्त्यैव तान् धर्तुं स्वतन्त्रः क्षमतेऽखिलान् ॥ यथाऽह पृथुरूपोऽसौ पृथ्वीं त्वामन्तराऽप्यहम् ॥ धर्ताऽस्मि लोकानखिलान्स्वसामर्थ्येन निश्चितम् ॥
(श्रीहरि.त.१२१.३१ तः ३५)
इति पञ्चाऽनादिभेदनिरूपणं समाप्तम् ।