भगवान् श्री-स्वामि-नारायणो वचनामृतग्रन्थे पञ्चाऽनादिभेदानभिमनुते, ये च श्री-स्वामि-नारायणसम्प्रदाये प्रमेयपञ्चकमिति परिगण्यते । पञ्चानामनादिभेदानां नामानि सन्ति जीवः, ईश्वरः, माया, ब्रह्म, परब्रह्म चेति । शिक्षापत्र्यामिमानेव पञ्चाऽनादीन् भेदान् समासेन जीवमायेश्वरेतितत्त्वत्रितये समावेशयद्भगवान् श्री-स्वामि-नारायणः ।
शिक्षापत्र्युक्तानां त्रयाणां तत्त्वानां व्यासकरणेन जीवः, ईश्वरः, माया, ब्रह्म, परब्रह्म इत्येते पञ्च भेदाः फलन्ति । एतेषां पञ्चभेदानामनादित्वात् पञ्चाऽनादिभेदाः इत्येवमसकृदामनन्ति सर्वत्र पूर्वाचार्याः ।
भगवतः श्री-स्वामि-नारायणस्य वचनामृतानां दार्शनिकत्वम् अनादिभेदपञ्चकं केन्द्रीकृत्य विद्यते । भेदो नाम मिथो विभाजको धर्मः । जीवादीनां परस्परं भेदोऽग्रे निरूपयिष्यते । क्वचिद्भेदव्यतिकरेण कोटिशब्दोऽपि प्रयुज्यते । जीवेश्वरब्रह्मणाम् अनन्तत्वात् जीवकोटिः, ईश्वरकोटिः, ब्रह्मकोटिः इत्येवम्प्रकारेण शब्दप्रयोगो भवति ।
ब्रह्मकोटौ महापुरुषमहाकालाऽक्षरात्मकमुक्ताऽक्षरब्रह्मेत्येतेषामवान्तरभेदानां समावेशो भवति । ईश्वरकोटौ वैराजनारायणप्रधानपुरुषाऽनिरुद्धप्रद्युम्न- सङ्कर्षणाद्यवान्तरभेदानां समावेशो भवति । जीवकोटौ तावदिन्द्रादिदेवादारभ्य कीटपतङ्गमनुष्यपशुपतत्त्रिवृक्षादीनां सर्वेषां समावेशो भवति ।
भगवता श्री-स्वामि-नारायणेन दुर्गपुरीयप्रथमप्रकरणस्थे सप्तमे वचनामृते, अन्येष्वप्यनेकेषु वचनामृतेष्विमे पञ्चाऽनादिभेदा निरूपिताः सन्ति । यथा
[[२]]
[[४०]]
जीववैराजपुरुषरूपेश्वरयोर्मध्ये भेदोऽस्ति , यथा च ईश्वराक्षरपुरुषयोर्मध्ये भेदोऽस्ति , तथैव अक्षरपुरुष-पुरुषोत्तमाख्यवासुदेवनारायणोर्मध्ये महान् भेदोऽस्ति । किञ्च पुरुषोत्तमः भगवान् वासुदेवस्तु जीवादीनां सर्वेषां स्वामी नियामकश्चाऽस्ति इति ।
इमे अक्षरात्मका ब्रह्मरूपा अनेके मुक्तपुरुषाः सन्ति , ये च स्वामिनो भगवतो वासुदेवस्य चरणयुगलमुपासते , स्तुवन्ति च । इत्थं पुरुषोत्तम- पुरुषेश्वरजीवमायाऽऽख्याः पञ्चभेदास्त्वन्योऽन्यभिन्ना अनादिनश्च सन्ति
इति । (दुर्ग.म.वच.३१)
तथा चोक्तं श्रीशतानन्दस्वामिविरचिते श्रीहरिवाक्यसुधासिन्धौ भगवता श्री-स्वामि-नारायणेन
जीवेशब्रह्मकृष्णानां मायायाश्चाऽपि वास्तवः ॥ अस्त्यनादिरयं भेद इति जानीहि निश्चितम् ॥ (श्रीहरि.त.७.१८) जीवमायेशपुरुषकृष्णा इति च पञ्चकम् ॥
अन्योन्यभिन्नं चाऽनादि वर्तते मत औद्धवे ॥ (श्रीहरि.त.१६४.४५)
जीवेश्वराऽक्षरब्रह्मपरब्रह्मणां स्वरूपं तु ज्ञानात्मकमस्ति । तदेव चिज्ज्ञानं चिदात्मकं संविद्रूपं धर्मिभूतज्ञानञ्च कथ्यते । जीवादीनां स्वभावस्तु धर्मभूतज्ञानमयोऽस्ति ।
ज्ञानत्वं नाम स्वयंप्रकाशत्वम् । स्वयंप्रकाशत्वं नाम ज्ञानान्तरनिरपेक्षेण दीपप्रभावत् स्वयमेव प्रकाशमानत्वम्, अन्येषां पदार्थानां साक्षात्करणे दीपस्य दीपप्रभायाश्चाऽपेक्षा वर्तते, परन्तु तदुभयं तु ज्ञानान्तरनैरपेक्ष्येण स्वयमेव प्रकाशते ।
स्वयंप्रकाशत्वमुभयोर्धर्मधर्मिणोः साधारणम् । धर्मिभूतं ज्ञानं प्रत्यक् भवति, धर्मभूतं ज्ञानं पराक् भवति इत्युभयोर्विशेषः । ‘आत्मानं प्रति अञ्चति’ इति प्रत्यक् अर्थात् स्वस्मै भासमानत्वे सति स्वयंप्रकाशमानत्वम् । ‘परस्मै प्रति अञ्चति’ इति पराक् अर्थात् परस्मै भासमानत्वे सति स्वयंप्रकाशमानत्वम् ।
धर्मिभूतज्ञानं तु ‘अहमेकः, अहं मदनुकूलः, अहमिदं जानामि’ इति सर्वदा स्वस्मै प्रकाशते । धर्मभूतज्ञानं तु विषयसम्बन्धे सत्येव प्रकाशते, न त्वन्यथा ।
मुक्तिदशायामहंकारस्य विनाशाे भवति, किन्त्वहमर्थस्य विनाशस्तु मुक्तिदशायामपि न भवति । अनहमि अहंकरोति इत्यत्राऽतद्भावे च्विप्रत्ययेन
[[४१]]
अहंकारशब्दः सिद्ध्यति । अनहमि अर्थात् अनात्मनि देहादिषु याऽहंबुद्धिः, स अहंकारः । परिशुद्धात्मनि स्वस्वरूपे अहमस्मीति भानम् अहंभावः । अयमहंभावः धर्मिज्ञानरूपः नित्योऽस्ति ।
धर्मभूतज्ञानं धर्मिभूतज्ञानस्य विशेषणं वर्तते । तयोर्मध्ये अपृथक्सिद्धविशेषण- विशेष्यभावसम्बन्धोऽस्ति । धर्मिभूतज्ञानस्य धर्मभूतज्ञानस्य च स्वरूपतो नित्यता । धर्मभूतज्ञानाद्धर्मिभूतज्ञानस्याऽयं विशेषो यन्न केवलं नित्यमुक्तानामपि तु बद्धानामपि धर्मिभूतज्ञानस्य कदापि संकोचविकासौ न स्तः । धर्मभूतज्ञानस्य संकोचविकासौ भवतः । संकोचविकासौ नाम आविर्भावतिरोभावौ ।
अत्राऽयं विवेको यत्परब्रह्माऽक्षरनित्यादीनां धर्मभूतज्ञानस्य कदापि आविर्भाव- तिरोभावौ न भवतस्तेषां कर्मबन्धनाऽभावात् । जीवेश्वरयोर्धर्मभूतज्ञानं तु संसारदशायां कर्माऽनुसारम् अहिकुण्डलवत्कदाचिदाविर्भवति कदाचित्तिरोभवति। मुक्तानां तु पूर्वं तिरोहितम् अनन्तरमार्विभूतम् ।
विज्ञानघन एव (बृ.उ.२.४.१२), अत्राऽयं पुरुषः स्वयंज्योतिः (बृ.उ.६.३.९), न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यतेऽविनाशित्वात् (बृ.उ.४.३.३०), नित्यो नित्यानां चेतनश्चेतनानाम् (श्वे.उ.६.१३, कठ.उ.२.१३) इत्यादयः श्रुतयः अत्र प्रमाणभूताः ।