०५ सांख्यादिदर्शनशास्त्राणां परस्पराऽपेक्षा

भारतीयदर्शनप्रवाहो नानाधारासु प्रवहति । तत्र च सांख्ययोगवेदान्त- पञ्चरात्रशास्त्राणि विशेषेण प्रथमानानि सन्ति । भगवान् श्री-स्वामि-नारायणः सूक्ष्मेक्षिकयेदमललक्षत् यद्यपि दर्शनानामिमा विविधशाखाः परस्परं पूरयित्र्यः सन्ति तथापि स्वतन्त्रतया सरित इव विलसन्ति, अतस्तासां परस्पराऽपेक्षारूपः समन्वयस्त्वावश्यक एव ।

परमतत्त्वन्तु निस्सीमं नभ इवाऽत्यन्तं परिणाहि तथाऽतलस्पर्शः समुद्र इवाऽतिगभीरमस्ति । तत्तत्त्वं न हि कस्यचिदृषेरनुभूतिनयनयोर्वा प्रतिभाघटे समावेश्यम् । अनया च दृष्ट्या परिशीलयामश्चेदेकेनैव दर्शनशास्त्रेण परमात्मस्वरूपं साकल्येन याथातथ्येन च नाऽवगम्यमस्ति । तत्र यत्किञ्चिदप्यवबोधनपारिमित्यं तु भवत्येव तथा परमात्मप्राप्तावपि न्यूनत्वं लक्ष्यते ।

एतासां सांख्यादिनानादर्शनशास्त्रशाखानां पारस्परिकसहकारेणाऽन्योऽन्यन्यौन्यं निराकर्तुं शक्यते । अपि च परमात्मतत्त्वं सर्वतोमुखतयाऽवबोद्धुं प्राप्तुञ्च भूयिष्ठमानुकूल्यं भवेत् ।

गङ्गायमुनासरस्वतीनां सङ्गम इव भगवान् श्री-स्वामि-नारायणो वचनामृतग्रन्थे सांख्ययोगवेदान्तपञ्चरात्रादीनां दार्शनिकशास्त्राणां सुभगसमन्वयं ससर्ज । किञ्च तत्तद्दर्शनशास्त्राणां परस्परं पूरकत्वमपि सम्यङ् न्यरूपयत् ।

वेदान्तशास्त्रं बहुधा परमात्मा सर्वव्यापकः इति निरूपयति । सांख्यशास्त्रं तावत् क्षेत्रक्षेत्रज्ञसहितानि चतुर्विंशतितत्त्वानि तथा पञ्चविंशमात्मतत्त्वं मनुते ।

[[३७]]

योगशास्त्रं तु प्रकृतेश्चतुर्विंशतितत्त्वानि, पञ्चविंशमात्मतत्त्वं तथा षड्विंशतत्त्वरूपेण परमात्मा इत्येवम्प्रकारेण षड्विंशतितत्त्वानां निरूपणं करोति ।

योगशास्त्रं तु परमात्मानं पुरुषविशेषत्वेन मनुतेऽर्थात् परमात्मा निर्गुणो निराकारश्च नाऽस्ति, प्रत्युत सर्वथा सर्वकाले साकारो नाम पुरुषाकारो विद्यते ।

पञ्चरात्रशास्त्रे परमात्मनः पञ्चस्वरूपाणां वर्णनं प्राप्यते । तद्यथा परस्वरूपम्, व्यूहस्वरूपम्, विभवस्वरूपम्, अर्चास्वरूपम्, अन्तर्यामिस्वरूपञ्चेति ।

पञ्चरात्रशास्त्रमिदं निगदति यत् दिव्येऽक्षरधाम्नि भगवान् परवासुदेवस्वरूपेण विराजते । स च सदा द्विभुजो द्विचरणारविन्दयुतश्चाऽस्ति । स एव परवासुदेवः सृष्टेः सुचारुरूपेण संचालनाय चतुर्भुजात्मकोऽपरवासुदेवरूपो भवति । अयमपरवासुदेवस्तु निर्गुणः, निर्विकारः, व्यूहरूपश्च वर्तत इति ।

स एव परमात्मा यदा रामकृष्णाद्यवतारान् धरति तदा तद्भगवतो विभवस्वरूपमस्ति । स एव परमात्मा मन्दिरेष्वर्चास्वरूपेण विराजते । स एव परमात्माऽन्तर्यामिस्वरूपेण प्राणिमात्रस्य नियमनं करोति ।

यदि वेदान्तसांख्ययोगपञ्चरात्रदर्शनानां परस्परं साहित्यं परित्यज्यैतेष्वन्यतमं यत्किञ्चिदेकमेव प्रधानीकृत्य प्रवर्तेमहि, तर्हि परमतत्त्वाऽवगमने महती न्यूनता स्यात् ।

कथमिदं ज्ञायते ? इत्युच्यते - यदि केवलं वेदान्तदर्शनमेवाऽऽलम्ब्य परमतत्त्वमवगन्तुं प्रयतेमहि, तर्हि भगवान् निराकारः, निर्धर्मकश्चेतीयं भ्रान्तिरुद्भवेत् ।

यदि केवलं सांख्यदर्शनेनैव परमतत्त्वमवगच्छेम, तर्हि सांख्यदर्शने पञ्चविंशतितत्त्वेषु ‘आत्मपरमात्मानौ एकीभावेन वर्तेते, तयोर्भेदो नास्ति’ इतीयं भ्रान्तिर्विलसेत् ।

यदि योगशास्त्रमेवाऽऽधृत्य परमात्मतत्त्वं ज्ञातुं यतेमहि, तर्हि परमात्मनः पुरुषविशेषत्वात् ‘स एकदेशस्थः’ इतीयं भ्रान्तिर्भवेत् । किञ्च दिव्यदेशस्थः पुरुषविशेषः परमात्माऽस्मदीयेन्द्रियान्तःकरणाऽगोचरो भवति, अतः साधकानां कृते तद्ध्यानोपासनं प्रायेणाऽसम्भवम्भवति ।

यदि केवलं पञ्चरात्रशास्त्रमुररीकृत्य परमतत्त्वं ज्ञातुं यतेमहि, तर्हि परमात्मनोऽधिभुवं भवत्स्ववतारस्वरूपेषु अर्चास्वरूपेषु च मायिकभावस्य भ्रान्तिरुद्भवेत् ।

अत एवाऽमीषां दर्शनशास्त्राणां मिथोभावेनाऽन्योऽन्यापेक्षत्वमवगम्येत, तर्हि तत्तद्दर्शनेषूत्पद्यमानानां भ्रान्तीनां सारल्येन निराकरणं स्यात् ।

[[३८]]

भगवान् श्री-स्वामि-नारायणो नैकेषु वचनामृतेषु सकलदार्शनिकधाराणां संहितिमहिमानं प्राबोधयत् । तद्यथा यथा दुग्धं नेत्राभ्यां श्वेतम् , घ्राणेन सुरभि , अङ्गुलीभ्यां शीतमुष्णं वा , रसनया मधुरमिति ज्ञायते , किन्त्वेकेनेन्द्रियेण दुग्धस्वरूपं साकल्येन नाऽवगन्तुं शक्यम् । तस्य तु सर्वेन्द्रियैः परीक्षणेनैव सम्पूर्णज्ञप्तिर्भवति । एवमेव वेदान्तादिशास्त्रचतुष्टयेन भगवत्स्वरूपम् अवगमनाय यत्नः क्रियते , तदा सम्यग्रूपेण भगवत्स्वरूपं ज्ञायते । किञ्च तथाविधं ज्ञानमेव यथार्थज्ञानं कथ्यते इति । (वृत्ता.वच.२)

यथा केचिज्जन्मान्धा गोपुच्छं पस्पृशुः , केचित् गोमुखं पस्पृशुः , केचित् गोरुदरं पस्पृशुः , केचन गोस्तनं पस्पृशुः । यो यो यदङ्गं पस्पर्श , स स जनो गोस्तत्तदङ्गमनुबभूव , किन्तु वास्तविकरूपेण गौर्यथाऽस्ति तथा न कश्चिदन्वभवत् । किञ्चैकमङ्गन्तु स्पृष्टम् , अतो गौः स्पृष्टेत्यपि सुवचम् । तथैवात्मज्योतिर्दर्शनं यस्येन्द्रियेण वाऽन्तःकरणेन यावज्जातम् , तावत्स आत्मदर्श्युच्यते , किन्तु सम्यगात्मदर्शनं तु तन्नोच्यते इति । (लौह.वच.१५)

भारतीयदर्शनशास्त्राणां सम्प्रदायानाञ्चैतिह्ये भगवता श्री-स्वामि-नारायणेन प्रणीतोऽयं दर्शनानां सङ्गमोऽद्वितीयस्थानं बिभर्ति ।

इति श्री-स्वामि-नारायणदर्शनसारसङ्ग्रहग्रन्थस्य प्रमाणप्रकरणं समाप्तम् ॥

[[३९]]