०४ श्री स्वामिनारायणसम्प्रदायस्य धर्मशास्त्रं शिक्षापत्री

श्री-स्वामि-नारायणसम्प्रदाये यथा वचनामृतग्रन्थस्योत्कृष्टप्रामाण्यमस्ति तथैव भगवता श्री-स्वामि-नारायणेन विलिखिता शिक्षापत्र्यप्यस्मिन् सम्प्रदाये परमं प्रामाण्यमावहन्ती मन्यते । भगवान् श्री-स्वामि-नारायणोऽस्मिन् कलिकाले मनुष्याणामल्पबुद्धिमल्पाऽऽयुष्यञ्चाऽनुलक्ष्य सर्वशास्त्राणां साररूपामिमां शिक्षापत्रीं विलिलेख । भगवतः श्री-स्वामि-नारायणस्य जीवनस्येदं महत्त्वपूर्णं कृत्यमासीत् ।

शिक्षापत्रीयं न केवलं सदाचारप्रतिपादकश्रुतिस्मृत्यादिग्रन्थसारभूता, अपि तु दर्शनग्रन्थसारभूताऽप्यस्ति । भगवद्वेदव्यासादयो महापुरुषाः सौत्रग्रन्थान् प्राणैषुः । यत्र चाऽल्पाक्षरे सूत्रे विश्वतोमुखीनोऽर्थः कथ्यते । तथैव शिक्षापत्रीश्लोका अपि सूत्रसन्निभाः सन्ति । शिक्षापत्र्यां प्रमाणप्रमेयानि सौत्रशैल्या लिखितानि सन्ति । किञ्च चरमपुरुषार्थ- रूपपरमात्मकृपासम्पादकानि साधनान्यपि सौत्रशैल्या निदर्शितानि सन्ति ।

धर्मः, ज्ञानम्, वैराग्यम्, भक्तिः, जीवः, ईश्वरः, माया, मुक्तिश्चेत्यादिविषयान् अवलम्ब्याऽभियुक्तैः विशालकाया ग्रन्था निर्मिताः सन्ति, किन्तु शिक्षापत्र्यां पूर्वोक्ता विषया एकैकस्मिन् लघिष्ठ आनुष्टुभे वृत्ते सरलगीर्वाणगिरा व्याख्याताः सन्ति । वस्तुतः शिक्षापत्री इत्ययं ग्रन्थोऽद्भुतोऽस्ति ।

शिक्षापत्र्यां भगवतः श्री-स्वामि-नारायणस्य सर्वजीवहितावहमन्त्रो न केवलं मानवानां वा प्राणिनां कृते, परन्तु जडचेतनसृष्टेर्मङ्गलकृदस्ति । शिक्षापत्र्यां भगवान् श्री-स्वामि-नारायणोऽधिभुवं सद्विद्याप्रवर्तनस्याऽऽदेशमकरोत्

प्रवर्तनीया सद्विद्या भुवि यत्सुकृतं महत् (शिक्षा.१३२) इति ।

अर्थात्पृथिव्यां सद्विद्यायाः प्रवर्तनात्मकं कार्यं वरिष्ठपुण्यकार्यत्वेन वरीवर्ति । इयं सद्विद्योपनिषत्सु सम्यक्प्रथिताऽस्ति सदेव सोम्येदग्र आसीत् (छा.उ.६.२.१) इत्यादिमन्त्रेषु । भगवतः श्री-स्वामि-नारायणस्य अमुमेवाऽऽदेशम् अनुसृत्य सद्विद्याप्रवर्तनकेन्द्रस्थानीयानि नैकानि गुरुकुलानि संस्थापितानि सन्ति । भगवतः श्री-स्वामि-नारायणस्य सद्विद्याप्रवर्तनाऽऽदेशेन शिक्षाक्षेत्रेऽद्वितीया क्रान्तिरभवत् ।

[[३६]]

ऐदंयुगीनैरेकविंशशतख्रीष्टाब्दे वर्तमानैर्लोकैर्यदि योग्यदिशि प्रगतिश्चिकीर्ष्येत, तर्हि भगवता श्री-स्वामि-नारायणेन समुपदिष्टस्य सद्विद्याप्रवर्तनाऽऽदेशस्याधुनिक- शिक्षणपरिपाट्यां समन्वयनं विधेयमेव ।

एकविंशशतख्रीष्टाब्दस्य अनेकसमस्यानां समाधानं सद्विद्याप्रवर्तनद्वारा कर्तुं शक्यते । मानवजीवनस्य लक्ष्यं न केवलं भौतिकसुखसौविध्यमस्ति, परंतु धर्मार्थकाममोक्षाणां चतुर्विधानां पुरुषार्थानां प्राप्तिरप्यस्ति ।

शिक्षापत्र्या अन्ते भगवान् श्री-स्वामि-नारायणो लिखति यत् ये मनुजा इमां शिक्षापत्रीं पालयिष्यन्ति, ते धर्माऽर्थकाममोक्षाऽऽख्यानिमान् चतुरः पुरुषार्थानवश्यं प्राप्स्यन्ति ।