पाश्चात्त्यधर्मेषु केवलं विचार एव दृश्यते, भारतीयसंस्कृत्यां न केवलं विचार अपि तु दर्शनं वर्तते । केवलं विचारस्तु मनोबुद्धित उद्भवति, दर्शनं तु विशुद्धचेतसः अनुभूतिर्भवति अथवा ततोऽपि किञ्चिदधिकं दर्शनं तु विशुद्धात्मभावेनाऽनुभूयमानं ज्ञानं वर्तते । चार्वाकादिनास्तिकदर्शनार्थं दर्शनशब्दप्रयोगो गौणः, न तद्दर्शनमपि तु
[[३४]]
रजसा तमसा ईषितायाः बुद्धेरुत्थितो विचारो वा कुविचार एव । भारतीयसंस्कृतौ धर्ममीमांसा ज्ञानमीमांसेति शब्दावतिप्रसिद्धौ स्तः ।
धर्ममीमांसा नाम धर्मशास्त्रम् । ज्ञानमीमांसा नाम दर्शनशास्त्रम् । धर्ममीमांसा नाम श्रुतिस्मृतिप्रबोधितः सदाचारः । तस्य विस्तरो याज्ञवल्क्यादिमहापुरुषैर्विरचितेषु स्मृतिग्रन्थेषु जैमिनिमुनिविरचितमीमांसाग्रन्थेषु चोपलभ्यते । ज्ञानमीमांसाया विस्तरस्तु भारतीयषड्दर्शनेषूपलभ्यते ।
न्यायवैशेषिकसांख्ययोगपूर्वमीमांसोत्तरमीमांसेतिषड्दर्शनानि प्रसिद्धानि सन्ति ।
तत्र पूर्वमीमांसा तु यज्ञादिकर्मकाण्डविषया वर्तते । उत्तरमीमांसा ज्ञानोपासन- काण्डविषयाऽस्ति । सैवोत्तरमीमांसा वेदान्तदर्शनम् इति नाम्ना प्रसिद्धाऽस्ति । वेदान्तदर्शनेऽद्वैतविशिष्टाद्वैतादयो नैकाः शाखाः सन्ति । उपनिषद्ब्रह्मसूत्र- श्रीमद्भगवद्गीता इति त्रयोऽपि ग्रन्था वेदान्तदर्शनस्याऽऽधारभूता वर्तन्ते, त एव प्रस्थानत्रयी इत्यप्युच्यन्ते । भारतवर्षे प्रायः सर्वे सम्प्रदायाः षड्दर्शनान्यनुसृत्यैव प्रवृत्ताः सन्ति ।
भगवतः श्री-स्वामि-नारायणस्य मुखसरोजान्निःसृतः परावाग्रूपो वचनामृतग्रन्थः श्री-स्वामि-नारायणसम्प्रदायस्य दर्शनशास्त्रं वर्तते । भगवता श्री-स्वामि-नारायणेन लिखिता शिक्षापत्री श्री-स्वामि-नारायणसम्प्रदायस्य धर्मशास्त्रं वर्तते ।
भगवता श्री-स्वामि-नारायणस्य वचनामृतान्यपूर्वाणि सन्ति । वचनामृतग्रन्थे दर्शनशास्त्रप्रसिद्धानि प्रमाणप्रमेयसाधनानि सविस्तरं निरूपितानि सन्ति ।
भगवता श्री-स्वामि-नारायणेन परब्रह्मपुरुषोत्तमनारायणस्य यथार्थज्ञानाय सर्वदर्शनधाराणां समन्वयः कृतोऽस्ति वचनामृतग्रन्थे । एतत्तु परमं वैशिष्ट्यमस्य वचनामृतग्रन्थस्य । वचनामृतस्य विशिष्टविषया अस्मिन् ग्रन्थे स्थले स्थले निरूपिता वर्तन्ते ।
वचनामृतेषु पूर्वप्रसिद्धानां सर्वेषां दर्शनशाखानां तथा च वेदोपनिषद्ब्रह्मसूत्र- भगवद्गीताभागवतपुराणसांख्ययोगपञ्चरात्रादिसच्छास्त्राणां रहस्यं मनोज्ञतया निरूपितमस्ति । तदपि चाऽत्यन्तं प्राञ्जलगुर्जरभाषया ।
सद्गुरुश्रीशतानन्दस्वामी वचनामृतानां संस्कृतभाषयाऽनुवादं विधाय श्रीहरिवाक्यसुधासिन्धुरित्याख्यं ग्रन्थरत्नं विरचयामास । तथा चाऽस्मिन् ग्रन्थविषये भाष्यग्रन्था अपि विलिखिताः सन्ति ।
प्रायेण सर्वेष्वपि सम्प्रदायेषु प्रस्थानत्रयीमाधृत्य भाष्यग्रन्थाः प्राणायिषत ।
[[३५]]
श्री-स्वामि-नारायणसम्प्रदायेऽपि सद्गुरुः श्रीमुक्तानन्दस्वामी, सद्गुरुः श्रीगोपालानन्द- स्वामी च प्रस्थानत्रयीम् अधिकृत्य भाष्याणि प्रणिनिन्यतुः ।
वचनामृतग्रन्थविषयकं विशेषतो वर्णनमस्यैव ग्रन्थस्य प्रथमप्रकरणे विस्तरशः कृतमस्ति । तत्तु तत्रैव द्रष्टव्यम् ।