इमान्यष्ट सच्छास्त्राण्यतिरिच्य भगवान् श्री-स्वामि-नारायणो वचनामृतग्रन्थे पञ्चरात्रशास्त्रमपि प्रमाणत्वेन स्वीकरोति । भगवान् श्रीवासुदेवनारायणः पञ्चरात्रशास्त्रस्य ज्ञानं संकर्षणाय प्रादात् । आचार्याः पञ्चरात्रशब्दस्य नानाऽर्थान् व्यदधुः । रात्र्यात्मकमज्ञानान्धकारं यन्नाशयति, तज्ज्ञानं ‘रात्रम्’ इत्युच्यते ।
इदञ्च ज्ञानं पञ्चविधं स्मृतम् । यथा परमात्मस्वरूपज्ञानम्, अर्चास्वरूपज्ञानम्, मन्त्रविज्ञानम्, सदाचारविज्ञानम्, प्रायश्चित्तविज्ञानञ्चेति ।
पञ्चरात्रशब्दस्य द्वितीयोऽर्थोऽस्ति यत् परमात्मनः पञ्च स्वरूपाणि सन्ति । यथा परस्वरूपम्, व्यूहस्वरूपम्, विभवस्वरूपम्, अर्चास्वरूपम्, अन्तर्यामि- स्वरूपञ्चेति । एतेषां पञ्चानां रात्रं ज्ञानं यत्र वर्तते, तत्पञ्चरात्रमित्युच्यते ।
पञ्चरात्रशब्दस्य तृतीयोऽर्थो विद्यते यत् यत्र वेदः, वेदान्तः, पुराणम्, सांख्यः, योगश्चेति पञ्चशास्त्राणां रहस्यपूर्णं ज्ञानं भवति तत्पञ्चरात्रशास्त्रमिति ।
पञ्चरात्रशास्त्रस्याऽहिर्बुध्न्यसंहिता, पाद्मसंहिता, विश्वक्सेनसंहिता, विष्णुसंहिता, परमसंहिता, सात्त्वतसंहिता, लक्ष्मीतन्त्रसंहिता चेत्याद्यनेकसंहिताः सन्ति । तासु देशकालवशात् काश्चिदुपलभ्यन्ते काश्चिन्नोपलभ्यन्ते ।
देवर्षिर्नारद एतासां सकलानां संहितानां पुनरपि संकलनञ्चकार । तत्परिणामतः
[[३३]]
पञ्चरात्रशास्त्रं नारदीयपञ्चरात्रमिति नाम्ना जगति प्रसिद्धं जातम् ।
सच्छास्त्रेषु ऋषयः स्वां रुचिं स्वीयमभिज्ञानञ्चाऽनुसृत्य नानाविधानि विधानानि प्रोक्तवन्तः । कानिचिद्विधानानि तमोरजस्सत्त्वगुणिनो जीवानभिलक्ष्य कृतानि सन्ति । एषु विधानेषु नैकविधो विरोधाभासो दरीदृश्यते ।
इमानि विरोधाऽऽभासपरिपूर्णानि विधानानि जिज्ञासून् व्यामोहयन्ति । व्यामोहम् इममपाचिकीर्षुर्भगवान् श्री-स्वामि-नारायणः शिक्षापत्र्यां प्रमाणविवेकं प्रदर्शयति ।
एतेषु यानि वाक्यानि श्रीकृष्णस्य वृषस्य च ॥
अत्युत्कर्षपराणि स्युस्तथा भक्तिविरागयोः ॥
मन्तव्यानि प्रधानानि तान्येवेतरवाक्यतः ॥
धर्मेण सहिता कृष्णभक्तिः कार्येति तद्रहः ॥ (शिक्षा. १०१, १०२)
एतेषु सच्छास्त्रेषु भगवतः श्रीकृष्णस्य, धर्मस्य, भक्तेः, वैराग्यस्य चाऽत्युत्कर्षेण येषु वाक्येषु प्रतिपादनं लक्ष्यते, तानि वाक्यानीतरवाक्येभ्यो विशेषेण प्रामाणिकान्यभ्युपगन्तव्यानि । तथा च धर्माऽऽचरणेन सहिता भगवतो भक्तिः कार्येति सर्वशास्त्राणां रहस्यमस्ति ।
अष्टौ सच्छास्त्राणि, पञ्चरात्रशास्त्रञ्चाऽतिरिच्य शिक्षापत्री, वचनामृतम्, श्रीहरिवाक्यसुधासिन्धुः, सत्सङ्गिजीवनम्, श्रीहरिदिग्विजयः, भक्तचिन्तामणिश्च इत्यादयः संस्कृतप्राकृतग्रन्थाः श्री-स्वामि-नारायणसम्प्रदायस्य प्रामाण्यकोटिमध्यूढानि ग्रन्थरत्नानि सन्ति ।
श्री-स्वामि-नारायणसम्प्रदाये संस्कृतप्राकृतभाषायां विपुलसाहित्यसर्जनमभवत् । साहित्यमिदं प्रामाणिकमुत नेति परीक्षावसरे शिक्षापत्रीवचनामृताख्यौ ग्रन्थौ मध्यस्थमानदण्डत्वेन परिगण्येते । श्री-स्वामि-नारायणसम्प्रदायसाहित्यस्य प्रामाण्यं तु पूर्वोक्तग्रन्थद्वयमाधृत्यैव निर्धारणीयम् ।