दर्शनशास्त्रे प्रमाणप्रमेयसाधनाख्यानि त्रीण्यतितरां प्रसिद्धानि सन्ति । प्रमेयसाधकं प्रमाकरणं तु प्रमाणमुच्यते । प्रमाणसंख्याविषये वर्तते विवादो विदुषां मध्ये । विशिष्टाद्वैतसिद्धान्ते तु प्रत्यक्षाऽनुमानशब्दाऽऽख्यानि त्रीणि प्रमाणानि स्वीक्रियन्ते । तेषां प्रमाणानां विशेषतो लक्षणानि पूर्वाचार्यकृतेभ्यो यतीन्द्रमत- दीपिकादिग्रन्थेभ्यः अवगन्तव्यानि । अत्र तु विशेषतः सच्छास्त्रात्मकशब्दप्रमाणस्य विचारः क्रियते ।
अत्र शब्दो नामाऽऽप्तोक्तानि सच्छास्त्राणि प्रस्थानत्रयादीनि । अस्याऽऽप्तत्वस्य विचारस्तु पूर्वस्मिन् वचनामृतानि परावाग्रूपाणि इत्यस्मिन् प्रकरणे स्पष्टतया कृतः । प्रमाणसिद्धः पदार्थः प्रमेयपदवाच्यो भवति । यथा जीवेश्वरमायाब्रह्मपरब्रह्माणि प्रमेयान्युच्यन्ते । प्रमेयजातेषु सर्वश्रेष्ठं प्रमेयमस्तिपरमात्मा ।
तत् परमात्मनो ऽनुग्रह-प्राप्त्य्-उपायाः साधनानि इत्युच्यन्ते ।
तद् यथा धर्मः, ज्ञानम्, भक्तिः, वैराग्यम्, प्रपत्तिः, उपासना, सत्सङ्गादिकम् ।
भारतीयदर्शनेषु शास्त्रं वरेण्य-प्रमाणत्वेन परिगण्यते ।
भगवान् वेदव्यासो ब्रह्मसूत्रेषु उल्लिखति यत्
शास्त्रयोनित्वात् (ब्र.सू.१.१.३),
तर्काप्रतिष्ठानादपि (ब्र.सू.२.१.१३) इति ।
परमात्मनः सिद्धिस् तत्-प्राप्तिर् वा
नाऽनुमानेन, न बुद्धिवैभवेन, न वा तर्कशक्त्या भवति,
अपि तु शास्त्रैर् एव भवति ।
शास्त्राणि त्व् असंख्यानि, तथा च विरोधाऽऽभास-बहुलानि सन्ति ।
कश्चिद् अपि भवतु कामम् अत्यन्तं बुद्धिमान्,
तथाऽपि शास्त्र-समुद्र-पारं नाऽधिगन्तुं समर्थोऽस्ति,
तथैव सः शास्त्र-व्यूहान् समाधातुं न शक्नोति ।
जिज्ञासूनां सारल्याय
भगवान् श्री-स्वामि-नारायणः
शास्त्रोदधेर् अष्टौ सच्-छास्त्राणि प्रमाणत्वेन निरचैषीत् ।
शिक्षापत्र्यां भगवान् श्री-स्वामि-नारायणो लिखति यत्
वेदाश्च व्याससूत्राणि
श्रीमद्भागवताभिधम् ॥
पुराणं भारते तु श्री-
विष्णोर्नामसहस्रकम् ॥
तथा श्रीभगवद्गीता
नीतिश्च विदुरोदिता ॥
श्रीवासुदेव-माहात्म्यं
स्कान्द-वैष्णव-खण्ड-गम् ॥ धर्मशास्त्रान्तर्गता च
याज्ञवल्क्यऋषेः स्मृतिः ॥ एतान्यष्ट ममेष्टानि
सच्छास्त्राणि भवन्ति हि ॥
(शिक्षा.९३ तः ९५)
[[३२]]
चत्वारो वेदाः, व्याससूत्राणि, श्रीमद्भागवतमहापुराणम्, महाभारताऽन्तर्गतं श्रीविष्णुसहस्रनामस्तोत्रम्, श्रीमद्भगवद्गीता, विदुरनीतिः, स्कन्दपुराणाऽन्तर्गत- विष्णुखण्डस्थं श्रीवासुदेवमाहात्म्यं तथा याज्ञवल्क्यस्मृतिरित्येतान्यष्टौ सच्छास्त्राणि मम (भगवतः श्री-स्वामि-नारायणस्य) अभिमतानि सन्ति ।
प्रमाणभूतानाम् एतेषां सच्छास्त्राणां विशेषेण स्पष्टतां विदधानो भगवान् श्री-स्वामि-नारायणः शिक्षापत्र्यां लिखति यत् याज्ञवल्क्यस्मृतिरस्माभिः धर्मशास्त्रत्वेनाऽभिमता , भागवतमहापुराणस्य दशमस्कन्धोऽस्माकं भक्तिशास्त्रं तथा पञ्चमस्कन्धो योगशास्त्रमस्ति । भगवत्पादैः श्रीमद्रामानुजाचार्यैः प्रणीतं व्याससूत्रभाष्यं तथा श्रीमद्भगवद्गीताभाष्यञ्च अस्माकमध्यात्मशास्त्रमित्यवगन्तव्यम् इति ।