वचनामृतग्रन्थस्य प्रश्नोत्तरमञ्चे परिपूर्णतया निर्दम्भत्वं सम्भृतमस्ति । अत्रैकमुदाहरणं पश्यन्तु
सामान्यतो भगवतः श्री-स्वामि-नारायणस्य साधवः पूर्वाऽऽश्रमादेव विरक्ता भवन्ति । न हि तेषां लेशमात्रसम्बन्धः स्वपूर्वाऽऽश्रमेण सह । सन्दर्भेऽस्मिन्नेकदा भगवान् श्री-स्वामि-नारायणः सदसि प्रोक्तवान् यत्
अस्मद्बाल्यकाले वृक्षाऽऽघातव्रणोऽभूत् । तं वृक्षाऽऽघातव्रणचिह्नं यदा वयं पश्यामस्तदा स वृक्षः , सा सरसी , जन्मभूमिश्चाऽस्मत्स्मृतिपथमायान्ति , अतो जन्मभूमेर्देहसम्बन्धिवर्गस्य च विस्मरणं दुःशकमस्ति । यदि भवत्सु कश्चिदपि जन्मभूमिं स्वदैहिकसम्बन्धिवर्गं च न स्मरति , सोऽस्यां सदसि निर्दम्भः सन् वदतु । अपि च यदि कश्चित् लज्जावशात् स्वगृह- जन्मभूम्यादिपूर्वाऽऽश्रमस्मरणवृत्तान्तं सदसि न वदेत् , तर्हि तस्मै भगवतः श्रीनरनाराणस्य शपथोऽस्ति । एवं भगवतोक्ते सति सर्वैः साधुभिः स्वान्तःकरणस्य यादृशी स्थितिरासीत्तादृशी भगवतः श्री-स्वामि-नारायणस्य पुरतो निर्दम्भत्वेन निवेदिता इति । (दुर्ग.प्र.वच.३७) यदि स्वेष्टदेव एतावत् निश्छद्मोपेतः स्यात्, तर्हि तच्छिष्यैस्तु निष्कपटैर्भवितव्यमेव ।
भगवतः श्री-स्वामि-नारायणस्य सदसि सर्वदा सर्वविधान् प्रश्नान् प्रष्टुं पूर्णतया स्वतन्त्रताऽऽसीत् । एकदा भगवान् श्री-स्वामि-नारायणो दुर्गपुरे उत्तमनृपस्य दुर्गे विराजमान आसीत् । तस्मिन् समये श्रीपूर्णानन्दस्वामी तमप्राक्षीद्यत् हे भगवन् ! इन्द्रियाण्यन्तःकरणानि तु मायिकानि सन्ति । भगवाँस्तु मायातीतोऽस्ति । एवं सति विजातीयैर्मायिकैश्चक्षुरादिभिरिन्द्रियैर्भगवान् कथं वा ज्ञानविषयः स्यात् ?
पूर्णानन्दस्वामिनोऽयं प्रश्नः स्वसन्मुखं विराजमानस्य प्रत्यक्षस्य भगवतः श्री-स्वामि-नारायणस्य भगवत्तां साक्षात् स्पृशति स्म ।
सामान्यतो यद्यन्यः कश्चिच्छाशकतुल्यो गुरुरेतत्प्रश्नोत्तरदाता स्यात्, तर्हि तत्प्रतिक्रियाऽन्यथैव स्यात् । किन्त्वयं भगवान् श्री-स्वामि-नारायणोऽनुपमो भगवानासीत् । तेन मन्दं मन्दं हास्यं कृत्वाऽस्य प्रश्नस्य हार्दमुद्धाट्य पृष्टं यत् भोः साधुवर्य ! मायिकेन्द्रियाऽन्तःकरणैर्यदि भगवान् ज्ञानविषयः स्यात्, तर्हि सोऽपि मायिक एवोपपद्यते अर्थादहं त्वत्सन्मुखस्थः प्रत्यक्षो भगवानपि मायिक एव
[[३०]]
स्यामित्येव खलु भवतः प्रश्नस्याऽभिप्रायः ?
तदा पूर्णानन्दस्वामी, अन्ये च सन्तोऽपि मार्मिकं मन्दहसनं विधाय प्राहुर्यत् हे भगवन् ! सत्यमुदितं भवद्भिः । स एवाऽस्मत्प्रश्नस्याऽऽशयोऽस्ति, स चाऽऽशयो भवद्भिर्विस्तरेण समर्थितः ।
पूर्वोक्तप्रश्नस्य समाधानं विस्तरेण कुर्वता भगवता श्री-स्वामि-नारायणेन इदमुत्तरमकारि यत्
यः प्रधानपुरुषमहापुरुषमहामायाऽक्षरादिसर्वेभ्यः परतया स्थितः अक्षराऽतीतः , सर्वकारणकारणः , सर्वेश्वरेश्वरश्च , स एवाऽयं भगवान् निर्व्याजकरुणया जीवानां कल्याणाय पृथिव्यामवतीर्य सर्वलोकेभ्यः प्रत्यक्षं स्वदर्शनं ददाति । तस्मिन् काले यो जीवः साधुसङ्गमं कृत्वा तस्य भगवतः पुरुषोत्तमस्य पूर्वोक्तं यथार्थमहिमानं जानाति तदा भगवन्माहात्म्यज्ञानबलेन तस्य जीवस्येन्द्रियान्तःकरणानि अखिलान्यपि पुरुषोत्तमरूपाणि अर्थात् पुरुषोत्तमसजातीयानि भवन्ति । ततस्तैश्च स जीवो भगवन्मयैरिन्द्रियान्तःकरणैर्भगवन्तं साक्षात्कृत्य तस्य दृढनिश्चयं कुरुते इति । (दुर्ग.प्र.वच.५१)
अत्रैव वचनामृते दृष्टान्तमाह यथा वै हीरको हीरकेणैव विध्यते , न त्वन्येन साधनेन , तथैव भगवन्निश्चयो भगवतैव भवति इति । (दुर्ग.प्र.वच.५१)
अपि च भगवद्दर्शनमपि भगवद्द्वारैव भवति , किन्तु मायिकैः इन्द्रियान्तःकरणैर्न तत्सम्भवति इति । (दुर्ग.प्र.वच.५१)
प्रायेण धर्मसभायां कामदोषविषयिणी चर्चा निर्दम्भत्वेन न भवति, किन्तु भगवान् श्री-स्वामि-नारायणो दुर्गपत्तनीयप्रथमप्रकरणीये त्रिसप्ततितमे वचनामृते निर्दम्भत्वेन कामदोषविषयिणीं चर्चाञ्चकार । कामदोषस्य विस्तरेण वर्णनं कृत्वा सः कामदोषः कथं समूलमपाकर्तव्यः ? इत्यस्योपायानपि प्रादर्शयत् । किञ्च दुर्गपुरीयमध्यस्थप्रकरणीये त्रयस्त्रिंशे वचनामृतेऽपि निष्कामव्रतं कथं दार्ढ्यम् आप्नुयात् ? इत्यस्य सुस्पष्टोपायान् प्रादर्शयत् ।
[[३१]]