वचनामृतग्रन्थो न केवलं गभीरतत्त्वज्ञानविषयको ग्रन्थः, अपि तु ग्रामीणाः, बालाः, गोपाः, वृद्धाश्च सरला जना अपि तत्त्वज्ञानं प्राञ्जलतया यथा जानीयुस्तथा सरलभाषया वचनामृतग्रन्थेऽनेकेषां विषयाणां निरूपणं विदधे भगवान् श्री-स्वामि-नारायणः ।
ग्रन्थेऽस्मिन् गहनतत्त्वज्ञानविषयसम्बद्धानि वचोऽमृतान्यल्पीयांसि सन्ति । तान्यतिरिच्य इतराणि मोक्षमार्गोपयोगीनि नैकविषयसंग्राहकाणि सरलानि वचोऽमृतानि बहूनि सन्ति ।
उत्कृष्टं तत्त्वज्ञानमवबोद्धुं समर्था जनास्त्वत्यल्पा भवन्ति । सामान्यलोकस्य
[[२५]]
बुद्धिस्तत्प्राप्तुं न शक्नोति तथाऽपि ते जना आत्यन्तिकश्रेयसा वञ्चिता न स्युरित्येतदर्थं दुर्लभं श्रेयस्साधकं सरलं मार्गदर्शनं वचनामृतग्रन्थे विद्यते ।
एकदा भगवान् श्री-स्वामि-नारायणः कुण्डलाऽभिधग्रामात्प्रस्थानं कृत्वा ‘खाम्भडा’ इत्याख्यं ग्रामं समागमत् । खाम्भडाग्रामे केऽपि स्वामिनारायण- सम्प्रदायाऽऽश्रिता भक्ता नासन्, परन्तु ते सर्वे लोका भावपूर्णहृदया धार्मिका आसन् । ग्रामस्थास्ते सर्वेऽपि लोकाः समवेता बभूवुस्तथा भगवतः श्री-स्वामि-नारायणस्य सभक्तिश्रद्धं सोत्साहञ्च स्वागतं चक्रुः ।
इमे लोकास्तत्त्वज्ञानं लेशमात्रमपि ज्ञातुमसमर्था आसन्, अतो भगवान् श्री-स्वामि-नारायणस्ते साधारणजना यथाऽवगन्तुं शक्नुयुस्तथा प्राञ्जलभाषया पञ्चवर्तमानोपेतस्य धर्माऽऽचरणस्य वार्तां तेभ्यो बोधयन्नाह
भो जनाः ! संसारेऽस्मिन् द्विविधा मानवाः सन्ति । धार्मिका अधार्मिकाश्च । तत्र ये धर्ममार्गमाश्रित्य जीवन्तः सन्ति , ते चौर्यम् , पारदार्यम् , पैशुनम् , अभक्ष्यभक्षणादि च सर्वं पातकं परित्यज्य परमेश्वरस्य भिया धर्माऽध्वानमेवाऽनुसरन्ति । अपि च येऽधार्मिका लोकाः सन्ति , ते चौर्यम् , पारदार्यम् , मद्याऽऽमिषाऽभक्ष्यभक्षणम् , व्यभिचारादि च यदखिलं पातकजातं तत्रैव रंरम्यन्ते । ये स्वश्रेय इच्छन्ति तैरधर्ममार्गो नैवाऽनुसर्तव्यः तथा धर्ममार्गमाश्रित्यैव सत्पुरुषस्य सङ्गमो विधेयः । एतेन निश्चप्रचं जीवस्याऽऽत्यन्तिकं श्रेयः सिद्ध्यतितमामित्यत्र नास्ति संशीतिलेशोऽपि
इति । (सारंग.वच.१०) भगवतः श्री-स्वामि-नारायणस्येमां कथावार्तां निशम्य ग्रामस्था नैके जना भगवदाश्रिताः सम्बभूवुः ।
भगवतः श्री-स्वामि-नारायणस्योपदेशाः सर्वकालीनाः सर्वदेशीयाश्च सन्ति । वचनामृतग्रन्थे नैजैरनेकप्रश्नैर्मुमुक्षवः स्वजिज्ञासां तत्त्वबुभुत्साञ्चाऽभिव्यानञ्जुः ।
मानवस्य मृत्युर्वस्तुतो मृत्युर्नास्ति, किन्तु मानवस्य जिज्ञासाया मृतिरेव मरणमस्ति । जिज्ञासा ज्ञानस्याऽनन्तान् क्षितिवलयान् विस्तारयति । जिज्ञासाया उपशमनाय सन्ततं प्रश्नोत्तराणि भवेयुरेव ।
वचनामृतग्रन्थस्य प्रश्नोत्तराण्यद्भुतानि सन्ति । अध्यात्ममार्गे प्रचलन्तः अध्वनीनाः कोटिशो मुमुक्षवो मोक्षमार्गसम्बद्धप्रश्नानामत्र वचनामृतग्रन्थे सरलं समाधानं लभन्ते ।
मुमुक्षोर्व्यामोहक एकः प्रश्नो भवति यदध्यात्मसाधनायात्राया आरम्भः
[[२६]]
कुतः करणीयः ? इति । अस्य समाधानं कुर्वन् भगवान् श्री-स्वामि-नारायणः प्राह हे भक्ताः ! एकाग्रेण मनसा मया वक्ष्यमाणं श्रृणुत । एतां वार्तां सम्यग्ज्ञात्वा यस्तदनुसारं प्रवर्तते, स एव मुक्तो भवति । तां विना तु वेदषट्शास्त्राऽष्टादशपुराणभारतादीतिहासादिग्रन्थश्रवणपठनादिभिरपि मुक्तो न स्यात् ।
एतावद्भूमिकावचांस्युक्त्वाऽग्रे भगवान् श्री-स्वामि-नारायणो ब्रवीति यत् हृदि विक्षेपस्य मुख्यं कारणमन्तःकरणं नास्ति , किन्तु पञ्चज्ञानेन्द्रियाणि सन्ति । अतः पञ्चज्ञानेन्द्रियैर्गृह्यमाणस्य विषयपञ्चकस्य स्वरूपमज्ञात्वा साराऽसार- विवेकं विना यस्तं भोक्ष्यते , स तु नारदसनकादिकसन्निभो महान् सन्नपि बुद्धिभ्रष्टतां प्राप्स्यति । अतः पञ्चेन्द्रियाणामाहारशुद्ध्यैवान्तःकरणं शुद्धतां यास्यति , अन्तःकरणे शुद्धे जाते सत्येव भगवत्स्मृतिरजस्रं सेत्स्यति । किञ्चाऽस्य जीवस्य यादृक् सङ्गः , तादृशं हि तस्याऽन्तःकरणं भवति इति । (दुर्ग.प्र.वच.१८) भगवतः श्री-स्वामि-नारायणस्याऽस्या वार्ताया इदं मर्माऽस्ति यत् मोक्षाऽवाप्तियात्राया उपक्रमस्तु साधकेन बाह्येन्द्रियाहारशुद्ध्यैव कर्तव्य इति ।
मोक्षाऽध्वनि गच्छता नैकेषु विघ्नेष्वागतेषु सत्स्वपि धैर्येण यात्राऽनुवर्तनीया, न मध्यमार्गे त्यक्तव्येति कथनं कुर्वता भगवता श्री-स्वामि-नारायणेन वचनामृते इदमभ्यधायि यत्
ध्यायमाना भगवन्मूर्तिर्यद्यपि हृदि न दृश्येत , तथाऽपि ध्यानं कर्तव्यम् , परन्तु कातरो भूत्वा तद्ध्यानं सर्वथा न त्याज्यम् इति । (दुर्ग.प्र.वच.५)
भक्तो भगवन्मूर्तेर्हृदये धारणे शूरो भवेत् । धारणायामसमर्थोऽपि कदापि वैक्लव्यं नाऽऽप्नुयात् । मूर्तिधारणे नित्यं नवनवश्रद्धः स्यात् । मूर्तिध्याने क्रियमाणे सति हृदयोत्थितान् दुःसंकल्पान् व्यपनयन्नपि यदि ते संकल्पा नाऽपगच्छेयुस्तर्हि भगवतो माहात्म्यं विबुध्याऽऽत्मानञ्च पूर्णकामं मत्वा तान् दुःसंकल्पान् भगवन्माहात्म्यज्ञानविचारेणाऽसत्यान् कुर्वाणो भगवत्स्वरूपं हृदि धारं धारं वर्षदशकं वा वर्षविंशतिर्वा वर्षपञ्चविंशतिः उताहो वर्षशतं भवेत्तथापि कापुरुषो भूत्वा भगवद्ध्यानाऽभ्यासं नैव त्यजेत्
इति । (दुर्ग.प्र.वच.१५)
अद्यारभ्याऽस्मत्सत्सङ्गसमवाये न केनचिदपि निरुत्साहा वार्ता कर्तव्या । सदोत्साहयुग्वार्तैव विधेया । यस्तु निरुत्साहां वार्तां विदध्यात्तर्हि
[[२७]]
स तु नपुंसको ज्ञेयः । अपि च येन केनाऽपि निरुत्साहा वार्ता कृता स्यात्तर्हि तेन स्वशुद्ध्यर्थमेकदिनमुपवासः कर्तव्यः इति । (दुर्ग.प्र.वच.१७)
यः परमपदप्रेप्सुरस्ति तेन स्वस्मिन् पौरुषमवलम्ब्यम् , किन्तु परतन्त्रतां भजन् मतिदैन्येन नोपवेष्टव्यम् । तेनेदं विचारणीयं यद्यथा देहेऽस्मिन् अन्तःकरणचतुष्टयम् , इन्द्रियदशकम् , प्राणपञ्चकञ्च विद्यते तथैव देहेऽहमस्मि जीवात्मा । अहन्त्वन्तःकरणेन्द्रियादिभ्यः सामर्थ्येऽधिकोऽस्मि , सर्वनियन्ताऽस्मि । किन्तु कदाचिदप्येवं न मन्तव्यं यदहं तुच्छोऽस्मि , इमानीन्द्रियान्तःकरणानि च बलवन्ति सन्ति इति । (दुर्ग.म.वच.१२)
वचनामृतेऽस्मिनेतावत्पूर्वोक्तां वार्तां विधाय भगवान् श्री-स्वामि-नारायणोऽस्यां दैहिकनगर्यां राज्यं कर्तव्यञ्चेत् कीदृशी राजनीतिः शिक्ष्या ? इत्यस्य मनोज्ञं विवेचनञ्चकार । भगवतः श्री-स्वामि-नारायणस्याऽयमुपदेशो मोक्षमार्गे चलताम् अध्वन्यानां कृते सङ्कल्पशक्तिप्रवर्धनकृदस्ति ।
भगवन्मूर्तौ ध्यायमानायां सत्यां यदि दुःसङ्कल्पा हृदयात्समुत्तिष्ठन्ते, तर्हि ते कथमपाकरणीयाः ? इत्यस्य प्रश्नस्य सरलमुपयुक्तञ्चोत्तरं ददानः प्रवक्ति भगवान् श्री-स्वामि-नारायणो यत्
भगवतो ध्याने क्रियमाणे सति समुद्रे जायमानाः कल्लोला इव मनसि यद्यशुभाः सङ्कल्पा जायेरन् , तर्हि ध्यानं हित्वा निर्लज्जं तालीवादनपूर्वकं ‘स्वामिनारायण ! स्वामिनारायण !’ इत्थमुच्चैः स्वरैर्नामस्मरणं कर्तव्यम् । तथा च ‘हे दीनबन्धो ! हे दयासिन्धो !’ इत्येवं भगवान् प्रार्थनीयः । किञ्च भगवत ऐकान्तिका मुक्तानन्दस्वामिसन्निभा महान्तः साधवोऽपि नामसंकीर्तनेन प्रार्थनीयाः । तेन ते दुःसङ्कल्पाः सर्वे सद्य उपशाम्यन्ति , शान्तिश्चाऽनुभूयते । किन्तु पूर्वोक्तमुपायमतिरिच्य अशुभसंकल्पनिवारक- मुपायान्तरं नाऽस्त्येव इति । (लौह.वच.६)
मनोनिग्रहयुक्तिज्ञो भगवान् श्री-स्वामि-नारायणः स्वाश्रितेभ्यो मुमुक्षुभ्यः सारल्येन ध्यानयुक्तिं प्रशिक्षयन्नाह यदाऽन्तःकरणे तमोगुणरजोगुणयोरावेगः स्यात्तदा ध्यानं न कर्तव्यम् । तस्मिन् काले तु केवलं मन्त्रजपो वा आत्मविचार एव कर्तव्यः । अन्तःकरणे यदा सत्त्वगुणस्योद्रेकः स्यात्तदा भगवन्मूर्तर्ध्यानं कर्तव्यम् इति । (दुर्ग.प्र.वच.३२) ध्यानस्य विक्षेपनिवारकमेतादृशं सरलसाधनं वचनामृतग्रन्थमतिरिच्याऽन्यत्र सर्वथा दुर्लभमेव ।
[[२८]]
वचनामृतग्रन्थे नैके प्रश्नाः सन्ति । तेषु केषाञ्चन प्रश्नानां दिङ्मात्रेण निदर्शनम् अधोनिर्दिष्टप्रकारेणाऽस्ति ।
१. भगवत्स्वरूपेऽखण्डा चित्तवृत्तिः कथं तिष्ठेत् ?
२. भगवतः सगुणत्वं कीदृशमस्ति ? निर्गुणत्वञ्च कीदृशमस्ति ?
३. कः सविकल्पकसमाधिः ? कश्च निर्विकल्पकसमाधिः ?
४. का सविकल्पकस्थितिः ? का च निर्विकल्पकस्थितिः ?
५. कः सविकल्पकनिश्चयः ? कश्च निर्विकल्पकनिश्चयः ?
६. कदा ध्यानं करणीयम् ? कदा च न करणीयम् ?
७. को ध्यातुं योग्यः ? कश्च ध्यातुमनर्हः ?
८. का नामोपासना ? क उपास्यः ? कश्चाऽनुपास्यः ?
१०. धर्मज्ञानवैराग्यभक्तीनां किं स्वरूपम् ? कथञ्चैतेषामुदयः स्यात् ?
११. वासनास्वरूपं किम् ? कथं वा वयं निर्वासनिका भवेम ?
१२. स्वभावः कः ? कथं स्वभावस्य निवृत्तिर्भवेत् ?
१३. कामक्रोधलोभमोहमानमदमत्सरादयो दोषाः कथं निवर्तेरन् ?
१४. संन्यासी वरीयानुत गृही ?
१५. सत्यशौचादयः कल्याणकृतो गुणा मुमुक्षौ कथमाविर्भवन्ति ?
१६. सदा सुखिनः कथं स्याम ?
इत्थं प्रकारेण वचनामृतग्रन्थे साधवो हरिभक्ताश्च स्वीयान् जिज्ञासोपेतान् शतशः प्रश्नान् प्रस्तुवन्ति, स्वमानसिकक्लेशानाविष्कुर्वन्ति च । भगवान् श्री-स्वामि-नारायण एतेषां प्रश्नानामत्यन्तसरलभाषया नैकविधैर्लोकभोग्यदृष्टान्तैः समाधानं करोति । तद्यथा
कूपखननदृष्टान्तः, शिथिलजलकूल्यादृष्टान्तः, छिद्रितघटस्य दृष्टान्तः, पाषाणखण्डे रज्ज्वा रेखाकरणस्य दृष्टान्तः, वणिजो लेखाविवरणस्य दृष्टान्तः, पतङ्गसूत्रदृष्टान्तः, शकटदृष्टान्तः, गोदृष्टान्तः, शुनकशावकदृष्टान्तः, चौरदृष्टान्तः, कुसीददृष्टान्तः, छिन्नकौपीनदृष्टान्तः, तुम्बस्य दृष्टान्तः, हैमसूत्रदृष्टान्तः, पक्षिनीडस्य दृष्टान्तः, कालचक्रस्य दृष्टान्तः, मनोरूपिणः पिशाचस्य वंशवृक्षे नियोजनस्य दृष्टान्तः, पतिव्रताया नार्या दृष्टान्तश्चेत्यादयः । इमान्युदाहरणानि गभीरतार्किक- विषयाणामप्यवबोधनाय सारल्यं कल्पयन्ति ।
[[२९]]