वचनामृतस्य लेखनशैली परमाद्भुता प्राञ्जला चाऽस्ति । प्रत्येकमपि वचनामृतस्योपक्रमे महान्तः सद्गुरवः परमहंसा भगवतः श्री-स्वामि-नारायणस्य स्वरूपं प्रत्यक्षेणाऽक्षिसात्कृत्य याथातथ्येनोपवर्णयाञ्चक्रुः । तद्यथा भगवान् श्री-स्वामि-नारायणः कस्मिन् ग्रामे विराजते स्म ? कस्यां दिशि मुखं कृत्वा विराजते स्म ? कीदृशानि च वासांसि दधौ? कश्च संवत्सरः प्रावर्तत ? कश्च मासः प्रावर्तत ? का च तिथिरासीत् ? इत्यादि ।
एतादृशं वर्णनं वचनामृतग्रन्थस्य प्रधानं वैशिष्ट्यमस्ति, यतो ह्ययं संवत्सरः, इयं तिथिः, अयं वासरः, इदं स्थानमित्याद्युल्लेखेन वचनामृतानि परमप्रमाणभूतानि सन्तीति प्रत्यायितं भवति ।
किञ्च पूर्वोक्तवर्णनस्य एकमद्भुतं रहस्यमपि वर्तते । तद्यथा आध्यात्मिकसाधनायाश्चरमल्ँलक्ष्यं परब्रह्मपुरुषोत्तमनारायण एवाऽस्ति । सर्वेऽपि साधनापन्थान अन्ततो गत्वा भगवतः पुरुषोत्तमनारायणस्य चरणनलिनयोरुपरमन्ति । तदुक्तञ्च श्रीमद्भागवतपुराणे
वासुदेवपरा वेदा वासुदेवपरा मखाः ।
वासुदेवपरा योगा वासुदेवपराः क्रियाः ॥ (भा.पु.१.२.२८) वासुदेवपरं ज्ञानं वासुदेवपरं तपः ।
वासुदेवपरो धर्मो वासुदेवपरा गतिः ॥ (भा.पु.१.२.२९)
वेदादीनि सकलशास्त्राणि, सर्वे यज्ञाः, सर्वा यौगिकसाधनाः, सर्वे च श्रौतविधयः, सर्वविधं ज्ञानम्, तपः, धर्माचरणञ्चाऽन्ततो गत्वा भगवतः श्रीवासुदेवनारायणस्य चरणाऽब्जयोरेवोपरतिं प्राप्नुवन्ति ।
भगवान् श्री-स्वामि-नारायण एतमेवांशं प्रबोधयन्निदं ब्रूते यत् यथा कश्चिन्मनुष्यो यत्किञ्चित् कार्यप्रयोजनमभिलक्ष्य विदेशं याति , पुनश्च कार्यं सम्पाद्य स्वगृहमायाति । यथा पशवश्चरितुं बहिर्गच्छन्ति , पुनर्गोष्ठस्थकीलकम् उपयान्ति । यथा पक्षिणो बहिर्धान्यकणानत्तुं यान्ति , पुनः स्वनीडमुपयान्ति तथैव भगवद्भक्तैर्भगवत्कथारूपमाहारमुपभुज्य पुनर्भगवन्मूर्तिरूपिणि नीडे उपरमणं विधेयम् इति । (दुर्ग.प्र.वच.३२)
भगवतः श्री-स्वामि-नारायणस्य प्रत्यक्षमङ्गलविग्रह एव सर्वैर्भक्तगणैर्भजनीय
[[२४]]
उपासनीय आश्रयणीयश्च वर्तते । भक्तानां कृते भगवतो दिव्यमङ्गलश्रीविग्रह एव विप्रोषितानां मनुष्याणां कृते गृहमिव नित्यनिवासस्थानमस्ति ।
तद्दिव्यमङ्गलश्रीविग्रहेऽसाधारणः स्नेहो रज्जुरूपो वर्तते । स एव दिव्यमङ्गल- श्रीविग्रहो भक्तानां कृते बन्धनयोग्यं कीलकमस्ति । भगवन्मूर्तिरेव भक्तानां कृते पक्षिणां नीडमिव निर्भीकं विश्रामस्थानं वर्तते ।
वचनामृतग्रन्थे यज्ज्ञानध्यानधर्मभक्त्यादिसाधनानां निरूपणं दृश्यते, तेषां सर्वेषां चरमल्ँलक्ष्यन्तु प्रत्यक्षपुरुषोत्तमरूपस्य श्री-स्वामि-नारायणस्य चरणनलिननीडस्य सम्प्राप्तिरेव ।
यथा सर्वसरितः सागरे विलयमाप्नुवन्ति तथैव वचनामृतादिसच्छास्त्रप्रोक्तानि सर्वाणि साधनानि प्रकटस्य भगवतः श्रीस्वामिनारायस्य चरणनलिनयोर्विलयम् आप्नुवन्ति । तदिदं तथ्यं मुमुक्षूणां हृदि सुदृढं विधातुं प्रत्येकं वचनामृतस्योपक्रमे महान्तः सद्गुरवः परमहंसा भगवतः श्रीहरेर्दिव्यमङ्गलविग्रहस्यासकृदुपवर्णनं कृतवन्तः ।
श्री-स्वामि-नारायणसंप्रदाये वचनामृतादिसद्ग्रन्थानां पठनाऽऽरम्भकाले स्वामिनारायण हरे ! इत्येवम् उच्चारणस्य काचन विशिष्टा परिपाटिः प्रवर्तते । गीर्वाणभाषादृष्ट्या स्वामिनारायण हरे ! इत्युभावपि शब्दौ सम्बोधनात्मकौ स्तः, यौ भगवते श्रीहरये प्रयुक्तौ । अस्मिन् सम्बोधने वचनामृतग्रन्थस्याऽऽरम्भे यस्य वर्णनं क्रियते , स श्रीहरिर्ममाऽभिमुखं विराजते । अहं वचनामृतं पठामि , स च तच्छृणोति इत्येतादृशः प्रकटभक्तिभावः परिलक्ष्यते ।