ग्रन्थरचनाप्रसङ्गे मङ्गलाचरणं विधेयमिति ग्रन्थकृतां परम्पराऽस्ति । ग्रन्थादौ, ग्रन्थमध्ये, ग्रन्थाऽन्ते च मङ्गलाचरणं विधीयते । मालायां सूत्रगुम्फनमिव मङ्गलाचरणं ग्रन्थस्य विषयवस्तूनां ग्रन्थनकम्भवति ।
[[२२]]
सम्प्रदायस्थितैः वरिष्ठसद्गुरुभिः साधुभिर्दुर्गपुरीयप्रथमप्रकरणस्य प्रथमं वचनामृतमादिमं मङ्गलाचरणम्, दुर्गपुरीयमध्यप्रकरणेषु त्रयोदशं वचनामृतं मध्यमं मङ्गलाचरणं तथा दुर्गपुरीयाऽन्त्यप्रकरणेषु एकोनचत्वारिंशत्तमं वचनामृतमन्तिमं मङ्गलाचरणमिति स्वीकृतम् ।
दुर्गपुरीयप्रथमप्रकरणस्याऽद्ये वचनामृते भगवान् श्री-स्वामि-नारायणः चिन्तामणितुल्ये भगवत्स्वरूपे अखण्डमनोवृत्तिस्थापनविषये प्रबोधयति । दुर्गपुरीयमध्यप्रकरणीयत्रयोदशे वचनामृते तस्य चिन्तामणितुल्यस्य भगवतः स्वरूपं कीदृशमस्तीत्यस्य रुचिरवर्णनं व्यधायि ।
तद्यथा तस्मिन्नक्षरब्रह्मात्मकप्राज्यतेजःपुञ्जे भगवन्मूर्तिर्विराराज्यते । सा मूर्तिरतितरां प्रकाशसंभृताऽस्ति । सा मूर्तिर्घनश्यामाऽस्ति , किन्तु तेजःप्रभावान्न श्यामा लक्ष्यते , अपि तु श्वेता लक्ष्यते । सा मूर्तिर्द्विभुज- द्विचरणाऽस्ति , अतीव रमणीया च विद्यते । तां मूर्तिं परितोऽक्षरधामस्था भक्ता दृश्यन्ते इति । (दुर्ग.म.वच.१३)
सोऽक्षरातीतो भगवान् पुरुषोत्तमः सर्वाऽवतारकारणमस्ति । अपि च ते सर्वेऽवताराः पुरुषोत्तमात् प्राकट्यमाप्नुवन्ति , तस्मिन् पुरुषोत्तमे च विलीयन्ते इति । (दुर्ग.म.वच.१३)
एतादृशं भगवत्स्वरूपं तु परस्वरूपमस्ति । तत्परस्वरूपध्यानं सुदुष्करं वर्तते । तदेव परस्वरूपं यदा भुव्यवतरति, अर्चारूपं च धरते तदा तद्ध्यानं सुकरं भवति, अत एवाऽस्मिन्नेव वचनामृतेऽग्रे भगवान् श्री-स्वामि-नारायणो ब्रूते यत् यस्मिन् तेजःपुञ्जे मूर्तिरस्ति , स एवाऽयं प्रत्यक्षो भगवान् श्री-स्वामि-नारायणो विद्यते इति जानीत इति । (दुर्ग.म.वच.१३)
तस्मिन् चिन्तामणिसमाने भगवत्स्वरूपे भक्तस्य मनसोऽखण्डवृत्तेर्वेगः कियान् तीव्रो भवति ? तन्निदर्शितं भगवता श्री-स्वामि-नारायणेन दुर्गपुरीयाऽन्त्य- प्रकरणीये एकोनचत्वारिंशत्तमे वचनामृते । एतद्वचनामृतमस्त्यस्य ग्रन्थस्य चरममङ्गलाचरणरूपम् ।
वचनामृतानामभ्यासेनेदं प्रतीयते यद्यथा अनन्ता आकाशगङ्गा ब्रह्माण्डस्य मेरुं परितः परिभ्रमन्ति तथैव भगवतः श्री-स्वामि-नारायणस्य वचोऽमृतानि येन केनचिदपि प्रकारेण भगवतः प्रत्यक्षविग्रहं परितः परिभ्रमणं कुर्वन्ति ।
[[२३]]