०७ अलौकिकी ब्राह्मी व्यासपीठिका

भगवान् श्री-स्वामि-नारायणः काञ्चनाऽलौकिकीं दिव्यां ब्राह्मीं व्यासपीठिकाम् अधिष्ठायैतद्वचनामृतसन्निभं ब्रह्मरसं प्रावर्षयत् ।

भारतीयसंस्कृतौ प्रवचनकाराणां व्यासपीठस्याऽतीव महिमा वर्तते । आधुनिके अस्मिन्युगे सम्यग्रीत्या सम्भूषितेषु सभामण्डपेषु व्यासपीठं प्रतिष्ठाप्यते । महाभारते गाङ्गेयस्य भीष्मस्य व्यासपीठं न हि तथाविधं मार्दवोपेतमृदुकमासीत् । स तु बाणशय्यात्मकव्यासपीठमधिष्ठाय शान्तिपर्वोपादिशत् ।

श्रीमद्भगवद्गीतागानवेलायां भगवतः श्रीकृष्णस्य व्यासपीठं धर्मकुरुक्षेत्रप्राङ्गणे सेनाद्वयस्य मध्ये स्थितस्य रथस्य धुराया उपरि प्रतिष्ठितमासीत् । यदा वैयासकिः शुकदेवमहाराजः श्रीमद्भागवतं परीक्षिताय श्रावयति तदा तदीयव्यासपीठिका शुकतालाख्यतीर्थे भागीरथीतटे वटवृक्षस्याऽधोवेदिकायां प्रतिष्ठिताऽसीत् ।

भगवान् श्री-स्वामि-नारायणो दुर्गपुरे उत्तमक्ष्मेशस्य वेश्मप्राङ्गणे शाद्वलनिम्ब- तर्वधोवेदिकायां निषण्णः सन् वचनामृतानि प्रावर्षयत् । कदाचित् सारङ्गपुरे अन्येषु च धामसु राराज्यमानो भगवान् श्री-स्वामि-नारायणो वचनामृतानि प्रणिजगाद ।

एकदृष्ट्या विलोकयामश्चेदिमाः सर्वा व्यासपीठिका बाह्याः सन्ति । अधिवक्त्रप्येकमन्यदन्तरङ्गं व्यासपीठं विलसति । भगवान् श्रीकृष्णो न केवलमर्जुनस्यैव सारथिः, अपि तु प्राणिमात्रस्य जीवनरथस्य रशना तद्धस्तेऽस्ति, अतः सः सर्वनियन्तृपदमारूढः सन् गीतामुपदिशति । गाङ्गेयो भीष्मश्च चित्तस्य विशुद्धभूमिकायां निषण्णः सन् उपदेशं विदधाति ।

[[२१]]

प्रायेण वक्तारः, पण्डिताः, पुराणिनश्च देहाभिमानरूपां व्यासपीठिकायाम् आसीनाः सन्तः प्रवचनं कुर्वन्ति, किन्तु महायशाः शुकदेवमहाराजो देहातीतां गुणातीतावस्थायां स्थितः सन् भागवतकथारसपानं कारयति ।

एवमेव बाह्यदृष्ट्या तु भगवान् श्री-स्वामि-नारायण उत्तमनृपस्य वेश्मप्राङ्गणे विराजते, किन्त्वन्तरङ्गदृष्ट्या अक्षरधामनि विद्यमानायां ब्राह्मीपीठिकायां विराजमानो वचनामृतानि प्रवर्षयति । भगवान् श्री-स्वामि-नारायणः स्वयं निगदति यत् मम हृदयकुञ्जे केवलं तेज एव व्याप्तं सन्तिष्ठते , वयमपि तत्तेजःपुञ्जमध्यस्था एव वदामस्तथा युष्मानपि वयं तत्रैव निषण्णान् पश्यामः , किन्त्वेतद्दुर्गपुर- परिशालादि न किञ्चिदपि दृश्यते इति । (दुर्ग.म.वच.१३)

भगवान् श्री-स्वामि-नारायणो यदा कस्मैचित्पत्रं विलिखति स्म तदा पत्रस्य आरम्भे अनिर्देशाद् विलिखतः श्रीसहजानन्दस्वामिनो जयसच्चिदानन्दो वाच्य इतीत्थं लिखति स्म । अत्र अनिर्देश इतीदं पदं महत्त्वपूर्णमस्ति । यः पदार्थ इन्द्रियाऽन्तःकरणैरनुभवगम्यो भवति, तस्य निर्देशः कर्तुं शक्यते । यथा अयं घटः पट इत्यादिः । किन्तु यः पदार्थ इन्द्रियाऽन्तःकरणाऽगोचरो विद्यते, स त्वनिर्देश्य एव, अतः एवंविधः इन्द्रियाऽतीतपदार्थः अनिर्देशपदेन व्यपदिश्यते ।

प्रकृतेः सम्भूताः सर्वे पदार्था निर्देष्टुं शक्याः सन्ति, किन्तु परमात्मनो दिव्यमक्षरधाम इन्द्रियान्तःकरणेनाऽगोचरं वर्तते । न च तदङ्गुलिनिर्देश्यमस्ति । अत एव तद्धामाऽनिर्देश्यपदवाच्यमस्ति ।

भगवान् श्री-स्वामि-नारायणो मानुषदेहमाश्रित्य विचरणं कुर्वाणोऽप्यखण्डम् अनिर्देशदशायामेव वरीवर्ति स्म । तदीयाऽशनपानोत्थानोपवेशनप्रवचनचलनादि- सर्वक्रिया मानुषवदेव भवन्ति स्म, तथाऽपि सोऽखण्डतया ब्राह्मीभूमिकायामेव अवस्थित आसीत् । अत एव वचनामृतानीमान्यनिर्देश्याऽलौकिकब्राह्मी- भूमिकातः प्रवर्षितानि सन्ति ।