वचनामृतानि भगवतः श्री-स्वामि-नारायणस्य मुखसरोजान्निस्सृता परावाणी विद्यते । परस्य ब्रह्मणो वाणी इति परावाणी । भगवान् श्री-स्वामि-नारायणो मानुषरूपेण पृथिव्यामवतीर्णः साक्षात्परब्रह्मपुरुषोत्तमनारायणोऽस्ति, अतः तस्य वचनामृतानि परावाग्रूपाणि सन्ति । इमानि वचनामृतवाक्यानि न साधारणानि अपि तु विशुद्धाऽनुभवपरिपूर्णानि सन्ति । अत एव तानि परमप्रामाणिकानि वर्तन्ते ।
न्यायदर्शनस्याऽयं सिद्धान्तोऽस्ति यत् आप्तवाक्यं प्रमाणम् इति । अथवा
[[१७]]
वेदेषु पौरुषेयत्वनिवारणाय अनाप्तानुक्तं वाक्यं प्रमाणम् इति लक्षणं कृतं यतीन्द्रमतदीपिकाकारेण । अत्र जिज्ञासा समुदेति यत् कस्तावदाप्तः ? न्यायशास्त्रं तत्समाधत्ते यदाप्तस्तु यथार्थवक्ता । जडपदार्थं वा चेतनपदार्थं स्वरूपस्वभाव- गुणैर्यथार्थं जानाति, तन्निरूपयति च यः स यथार्थवक्ता इत्युच्यते ।
विशुद्धेन्द्रियान्तःकरणैरेव पदार्थानां यथार्थज्ञानं सम्भवति । चतुर्विधा दोषा इन्द्रियाणि, अन्तःकरणञ्च दूषयन्ति । ते च चत्वारो दोषाः यथा भ्रमः , प्रमादः , विप्रलिप्सा , करणदोषः अथवा असामर्थ्यं चेति ।
१. भ्रमः - भ्रमो विपर्ययसंशयात्मको द्विधा । विपर्ययो नामाऽन्यथाज्ञानम् । यः पदार्थो यथाऽस्ति तथाऽज्ञात्वाऽन्यथैव तत्पदार्थस्य ज्ञानम् । यथा मृगजले जलाभासः, शुक्तौ रजताभासः, अन्धकारे रज्जोरथवा जलरेखायाः सर्पत्वेन भानमथवा सर्पस्यैव रज्जुत्वेन भानमिति ।
तथैवाऽनात्मनि देहे आत्मबुद्धिः, आत्मनि चाऽनात्मबुद्धिः, सुखे दुःखबुद्धिः, दुःखे सुखबुद्धिः, सत्येऽसत्यबुद्धिः, असत्ये सत्यबुद्धिः, परब्रह्मणोऽन्यत्र कालकर्ममायास्वभावाऽक्षरादिषु सृष्टेरसाधारणकारणत्वकल्पनञ्चेत्याद्यनेकधा भ्रान्तयो विलसन्ति ।
काचिद् भ्रान्तिरतिसूक्ष्मा भवति । सा चाऽत्मनः स्वतन्त्राभिमानरूपा । अर्थात् केचनाऽसच्छास्त्रगुरुवंचिताः आत्मानमेव परमप्रमेयरूपं स्वतन्त्रं च मत्वा तस्यैवोपासनं कुर्वन्ति । तस्य परमात्माऽधीनत्वं नाऽवबुद्ध्यन्ते ।
संशयो नामैकस्मिन् धर्मिणि नानाविरुद्धधर्माऽवगाहिज्ञानमुक्तमभियुक्तैः । यथा स्थाणुर्वा पुरुषो वा इति ज्ञानम् ।
२. प्रमादः - अप्रामाण्योत्पादको द्वितीयदोषो नाम प्रमादः । प्रमादो नाम मनसोऽनवस्थानं वाऽनवधानम् । महाभारतकारः प्रमादं मृत्युरिव मूढाऽवस्थाकं मनुते । अस्यामवस्थायां पदार्थः पुरतो विद्यमानो भवति, तथाऽपि मनसो गहनतमोगुणगुहायां निमग्नत्वात् पदार्थस्य याथार्थ्येन बोधो न भवति ।
३. विप्रलिप्सा - अप्रामाण्यजनकस्तृतीयदोषो नाम विप्रलिप्सा । विप्रलिप्सा नामाऽन्यस्य वञ्चनाऽभिप्रायं छलम् । स्वस्वार्थं साधयितुं युक्तिप्रयुक्त्यादिना शब्दार्थमनर्थं कृत्वाऽन्येषां वञ्चनया स्वार्थसिद्धेः प्रयत्नो न्यायशास्त्रे छलशब्देन प्रोक्तः । यथा नवरत्नकम्बल इति पदसमूहे नूतनाऽभिप्रायेण प्रयुक्तस्य शब्दस्य छद्मना नवत्वसंख्याविशिष्टार्थकरणम् ।
[[१८]]
एवमेव सृष्टेरसाधारणकारणप्रकरणे, उपासनाप्रकरणे च अक्षरस्य प्रशासने गार्गि इत्यादिषूपनिषद्वाक्येषु अथाऽतो ब्रह्मजिज्ञासा इत्यादिषु ब्रह्मसूत्रेषु च अक्षरम् , ब्रह्म इत्यादिशब्दाः परब्रह्माऽभिप्रायेण प्रयुक्ताः । सद्गुरुगोपालानन्दादिभिः पूर्वाचार्यैस्तथैव व्याख्याताश्च तथापि वञ्चनया तेषां शब्दानां परब्रह्मणोऽवरतत्त्वे अक्षरब्रह्मणि कुयुक्तिभिर्नियोजनं विप्रलिप्सेत्युच्यते ।
४. करणदोषः - अप्रामाण्यजनकश्चतुर्थो दोषः करणदोषः । करणदोषस्याऽयं भावो यदिन्द्रियान्तःकरणरूपेषु ज्ञानसाधनेषु नैसर्गिकमथवा सांयोगिकमसामर्थ्यम् । यदि ज्ञानसाधनेष्वेव दोषो भवति, तर्हि पदार्थस्य याथार्थ्येन बोधोऽसम्भवो भवति। यथा कामलरोगग्रस्तं जनं सर्वं शुभ्रवर्णोपेतं वस्तु पीतवर्णीयमेव प्रतिभाति ।
एतेषां चतुर्णामपि दोषाणां प्रवृत्तिनिमित्तं रजस्तमआदिमायिकगुणजातमस्ति । सच्छास्त्रप्रणेतारो वेदव्यासादयो महर्षय एतच्चतुर्विधदोषशून्या आसन्, अत एव तेषां वचांसि परमप्रामाणिकानि सन्ति । भगवतः श्री-स्वामि-नारायणस्य वचनामृतानि अपि तथैव चतुर्विधदोषशून्यानि परावाग्रूपाणि सन्ति । भगवता श्री-स्वामि-नारायणेन कृता ज्ञानवार्ता न केनचित्कर्णाकर्णिकया श्रुता वा नाऽनुमानसिद्धाः सन्ति । स्वामिनारायणीयज्ञानवार्तास्तु भ्रान्त्यादिदोषशून्याऽनुभूतिपरिपूर्णाः सन्ति । स्वयं भगवान् श्री-स्वामि-नारायणो वचनामृते ब्रूते यत्
मयाऽद्य प्रोच्यमाना या वार्ता , सा तु मयाऽवलोकिता , ममाऽनुभव- सिद्धा , सर्वशास्त्राऽनुगामिनी चाऽस्ति ।
मम हृदयाकाशेऽत्यन्तं तेजो व्याप्तमस्ति तथा तस्मिन्नतितेजसि केवलं भगवन्मूर्तिरवलोक्यते ।
तां भगवन्मूर्तिमहं प्रत्यक्षः पुरुषोत्तमोऽधुनापि पश्यामि , तथैतत्सत्सङ्गसमुदायागमनात्पूर्वमपि नित्यमपश्यम् । किञ्च मातुर्गर्भगतेऽपि ततः प्रागपि च व्यलोकि । तत्तेजःपुञ्जमध्यस्थ एवाऽद्याऽप्यहं वदामि । युष्मानपि तत्रैव निषण्णान् पश्यामि । किन्त्वेतद्दुर्गपुरपरिशालादि किमपि न पश्यामि ।
असौ मयोदिता या भागवती वार्ता सा सर्वशास्त्रसिद्धान्तरूपाऽस्ति । किञ्चाऽस्मदनुभवोऽपि इत्थमेव सुदृढोऽस्ति ।
यदीयं वार्ता प्रत्यक्षनिरीक्षणात्मिका न स्यात् , तर्हि सर्वेषामात्मवत् प्रियाणां परमहंसानां शपथोऽस्ति इति । (दुर्ग.म.वच.१३)
रामानन्दस्वामिपार्श्वाऽऽगमनात्पूर्वमपि स्वात्मानमहं साक्षाद्व्यैक्षिषि ,
[[१९]]
अद्याऽपि च पश्यामि । स चाऽऽत्मा सूर्यसमप्रकाशवानस्ति । किञ्च मत्सर्वेन्द्रियक्रियासु तदात्मनः क्षणमात्रमपि विस्मरणं न भवति इति ।
(दुर्ग.म.वच.३५)
भगवतः श्री-स्वामि-नारायणस्य वचस्सु प्रमादलेशोऽपि नाऽस्ति । भगवान् श्री-स्वामि-नारायण आचष्टे यत् यथा राज्ञो द्वारपालाः सौधस्य गोपुरे सदा जागरूकास्तिष्ठन्तश्चौरादिभ्य राज्ञः समीपं गन्तुमन्तःप्रवेशं न ददति , तथैव कामक्रोधलोभादिचौराणां निरोधनाय ज्ञानमये ब्रह्मधामगोपुरे सदा सावधानाः सन्तः शूरा इव संस्थिता वर्तन्ते इति । (दुर्ग.अं.वच.९)
भगवन्तं श्री-स्वामि-नारायणं समुपासानाः परमहंसा यद्यैतावत्सावधानाः स्युस्तर्हि भगवति श्री-स्वामि-नारायणे त्वनवधानत्वं कथं सम्भवति ?
भगवतः श्री-स्वामि-नारायणप्रभोरन्तरात्मनि युक्तिप्रयुक्तिभिः कस्यचिदपि वञ्चनाया उताहो स्वशिष्यसमूहवृद्धेर्लेशमात्रमपि विप्रलिप्सा नास्ति । भगवान् श्री-स्वामि-नारायणोऽभिदधाति यत् -
मया क्रियमाणां वार्तामेकां सावधानाः शृण्वन्तु । सा वार्ता न मया दम्भेन , न गर्वेण , न वा निजमहिम्नो विवृद्धये क्रियते । वयमिदं जानीमो यदेषु सर्वेषु सत्सु हरिभक्तेषु च यदि केचिदिमां वार्तां जानीयुस्तर्हि तेषां जीवानामात्यन्तिककल्याणं स्यादित्येतदर्थं वार्तामिमां वच्मि इति । (दुर्ग.म.वच.१३)
वयन्तु भगवतः श्रीकृष्णस्य दासाः स्मः । श्रीकृष्णनारायणस्य इच्छाऽनुगुणमस्माभिर्वर्तितव्यम् । यदि स भगवान् श्रीकृष्ण इच्छेत्तर्हि सत्सङ्गस्य वृद्धिर्भविष्यति । यदि स भगवान् सत्सङ्गं न्यूनयितुमिच्छेत् , तर्हि न्यूनीभविष्यति इति । (दुर्ग.प्र.वच.७४)
यूयं सर्वेऽपि मयि विश्वसिथ । अहमपि युष्मान् यस्मिन् कस्मिँश्चित् विरुद्धाऽध्वनि नयेयम् , तर्हि यथा कश्चित् स्वविश्वस्तजनान् कूपे निक्षिप्य उपरिष्टात् पाषाणशिलाभिराच्छादनं कुर्यात्तदा कूपान्तर्गतानां बहिः आगमनस्याऽवकाश एव न स्यात्तथैव यूयमपि मद्वचनविश्वस्ताः सन्तो यद्यनुचितमार्गं गच्छेयुस्तह्येवंकरणेन मम किं वा शुभं स्यात् ? इति ।
(दुर्ग.म.वच.३५)
भगवतः श्री-स्वामि-नारायणस्य स्वेन्द्रियान्तःकरणानामुपरि परिपूर्णतया
[[२०]]
नियंत्रणमासीत् । वचनामृते भगवान् श्री-स्वामि-नारायणो निगदति यत्
मनोबुद्ध्यहङ्कारचित्तान्यहमनायासेन वशं करोमि । यथा सिंहोऽजं वशीकरोति तथैवाऽन्तःकरणमहं स्वाधीनीकरोमि । अन्येषान्त्वन्तःकरणं दृग्विषयमपि न भवति इति । (दुर्ग.प्र.वच.१८)
भगवतः श्री-स्वामि-नारायणस्येमानि वचनानि तदीयाऽऽन्तरिकाणां बाह्यानाञ्च करणानां सर्वदा निर्दोषत्वं सूचयन्ति । इत्थम्प्रकारेण भगवति श्री-स्वामि-नारायणे भ्रमप्रमादविप्रलिप्साकरणदोषाणामेषां चतुर्णां स्वप्नेऽपि सम्भवो नास्ति, अत एव भगवतः श्री-स्वामि-नारायणस्य वचनान्याप्तवचनानि, यथार्थवचनानि, प्रामाण्यवचनानि परावाग्रूपाणि च सन्ति ।