०५ श्रीकृष्णं हृदि चिन्तये

भगवान् श्री-स्वामि-नारायणः शिक्षापत्रीग्रन्थाऽऽरम्भे भगवतः श्रीकृष्णस्य स्वेष्टदेवत्वेन ध्यानात्मकमङ्गलाचरणं विदधाति । शिक्षापत्र्यामन्यत्राऽपि भगवान् श्री-स्वामि-नारायणः स्वेष्टदेवं भगवन्तं श्रीकृष्णं सादरमुल्लिखति । इदं दृष्ट्वैव भगवान् श्री-स्वामि-नारायणो भक्तोऽस्ति उत भगवानस्ति ? इतीयं भ्रान्तिर्जनमानसेषु विलसेदिति साहजिकमेव ।

अत्र सन्दर्भे कतिचन तथ्यानि विचार्याणि सन्ति । प्रथमन्त्विदं यत्कस्यचिदपि ग्रन्थस्याऽऽरम्भे मङ्गलाचरणस्य शास्त्रीयपरम्परा विद्यते । मङ्गलाचरणमनेकधा भवति । तेष्वेकः प्रकार इष्टदेवतानमस्कारात्मकं मङ्गलाचरणमस्ति । भगवान् श्री-स्वामि-नारायणः परम्परामिमां परिपालयन्मङ्गलाचरणं कृतवान् ।

अपरञ्च भगवान् श्री-स्वामि-नारायणः सद्गुरुत्वेनाऽवततार । सद्गुरोः परमकर्तव्यतया स स्वाश्रितेभ्यः शिक्षापत्रीं विलिलेख । सद्गुरुत्वेन लेखनं क्रियते, तर्हि इष्टदेवः इति शब्दप्रयोगः सहज एवाऽस्ति ।

परमात्मनोऽनेकधाऽनेकेऽवताराः सम्बभूवुः । तदा तैरवतारैरपि स्वं मनुष्यभावं यथायथं दर्शितमस्ति ।

पुरा श्रीरामचन्द्रश्रीकृष्णाद्यवतारा अपि लीलाभावेन सामान्यसाधक इव परमात्मनः पूजनाराधनादिकं चक्रुः । किन्त्वस्याऽयमाशयो नाऽस्ति यदवतारपुरुषाः साधका वोपासका आसन्, न तु भगवानिति ।

भगवान् श्रीरामचन्द्रः सेतुबन्धे रामेश्वरं प्रतिष्ठाप्य तत्पूजनाऽऽराधनसेवाद्यर्थम् आज्ञापयति । गोस्वामिनस्तुलसीदासमहाभागाः श्रीरामचरितमानसग्रन्थे वदन्ति यत् लिङ्ग स्थापी बिधिवत् करी पूजा । शिव समान प्रिय मोही न दूजा इति ।

पद्मपुराणे भगवान् श्रीविष्णुरिक्ष्वाकुवंशस्येष्टदेवत्वेन परिकीर्तितः । भगवान् श्रीरामचन्द्रोऽयोध्यायाः प्रासादे नित्यं भगवन्तं श्रीविष्णुमाराधयति स्म । भगवतः श्रीरामचन्द्रस्य राज्याभिषेकप्रसङ्गं वर्णयन्महर्षिर्वाल्मीकिः स्वरचितरामायणस्य अयोध्याकाण्डे उल्लिखति यत्

गते पुरोहिते रामः स्नातो नियतमानसः ।

सह पत्न्या विशालाक्ष्या नारायणमुपागमत् ॥ (वा.रा.२.६.१)

[[१४]]

अस्याऽयम्भावो यत् पुरोहिते निर्गते सति जितमानसः श्रीरामः परिणाहनेत्रया सहधर्मचर्या सीतया सह नारायणाऽऽराधनायाऽऽजगामेति ।

तुष्टाव प्रणतश्चैव शिरसा मधुसूदनम् । विमलक्षौमसंवीतो वाचयामास स द्विजान् ॥ (वा.रा.२.६.७)

अर्थात् पट्टवस्त्रधरो भगवान् श्रीरामः साञ्जलिबन्धं नम्रशिरसा भगवन्तं मधुसूदनं प्रणतस्सन्नस्तावीत् । तदनु विप्रैः स्वस्तिवाचनं कारयामास ।

यादवाचलमाहात्म्ये लिखितमस्ति यत् भगवान् श्रीरामचन्द्रो यां श्रीविष्णुनारायणमूर्तिमुपास्ते स्म, तद्विग्रहो ब्रह्मणा श्रीरामचन्द्राय प्रादायीति ।

पत्न्या सह विशालाक्ष्या नित्यं नारायणार्चनम् ॥ अकरोद्धि पुरा रामः श्रीमान् काकुत्स्थवंशजः ॥

सूर्यवंशभूषणो भगवान् श्रीरामचन्द्रो विशालनेत्रया स्वसहधर्मचर्या सीतया सह प्रजापतिप्रदत्तां नारायणमूर्तिं नित्यमानर्चोपासिष्ट च । तमेव नारायणविग्रहं श्रीरामचन्द्रप्रभुः साऽनुग्रहं विभीषणाय नित्याऽऽराधननिमित्तं प्रददौ । तदेव भगवत्स्वरूपं साम्प्रतं श्रीरङ्गक्षेत्रे विराजते ।

नित्याऽऽराधनाय नारायणविग्रहं विभीषणाय प्रदाय भगवान् श्रीरामो नारायणविरहाऽग्निसन्तप्तो बभूव । श्रीनारायणविग्रहस्य विरहेण श्रीरामप्रभोर्मनो न क्वापि रमते स्म । अतो वेधा भगवते श्रीरामचन्द्राय भगवतः श्रीविष्णुनारायणस्य अपरविग्रहमाराधनाय प्रादात् ।

श्रीरामचन्द्रप्रभोर्नप्त्र्याः, कुशस्य दुहितुश्च कनकमालाया उद्वाहश्चन्द्रवंशीय- यादवकुलभूषणेन यदुशेखरराज्ञा सहाऽभूत् । तत्काले कनकमाला भगवतः श्रीनारायणस्य विग्रहं दायभागत्वेन स्वपितरञ्ययाचे । मथुरायां यादवकुलस्य वंशपारम्पर्येणाऽस्या एव नारायणमूर्तेराराधनं भवति स्म ।

भगवान् श्रीकृष्णो यदा द्वारिकानगरीं न्यवासयत्, तदेमां भगवन्नारायणमूर्तिं द्वारिकायां सम्प्रतिष्ठाप्य नित्यं तदाराधनञ्चकार । द्वारिकाविनाशात्पूर्वं स्वाऽग्रज- बलरामाऽऽज्ञानुसारं भगवता श्रीकृष्णेन भगवन्नारायणश्रीविग्रहोऽयमधियदुगिरिनगरं (मेलकोटनगरे) प्रतिष्ठापितः । स एव भगवन्नारायणस्य श्रीविग्रहोऽद्यत्वे श्रीसम्पत्कुमारस्वामी नारायणः इत्याह्वयेन जगत्यां प्रसिद्ध्यति । यादवाचलमाहात्म्ये इमे प्रसङ्गा विस्तरेण निरूपिताः ।

भगवान् श्रीरामचन्द्रो वा भगवान् श्रीकृष्णः साधारण उपासक इव

[[१५]]

सन्ध्योपासनम्, सूर्यपूजनम्, गायत्रीजपम्, श्रीविष्णूपासनादिकञ्चकारेत्यतः स भक्तः , न तु भगवान् इतीदं कथनं नैवोचितम् । भगवान् मानुषभावेनेमा लीला आचरति । किञ्चेमा भगवल्लीलाः लोकशिक्षणाय भवन्ति ।

अतः पूर्वोक्तन्यायेन भगवान् श्री-स्वामि-नारायणः शिक्षापत्र्यां भगवतः श्रीकृष्णस्य मङ्गलाचरणे यदुल्लेखं विधत्ते, तदपि लोकशिक्षणायैव । तस्माद्भगवान् श्री-स्वामि-नारायणो भक्तः , न तु भगवान् इतीदन्तु सुतरां नैव सिद्ध्यति ।

अधिशिक्षापत्रीग्रन्थं भगवता श्री-स्वामि-नारायणेन कृतं मङ्गलाचरणन्तु सद्गुर्वास्पदाऽनुगुणं तथा शास्त्रीयपरम्परानिर्वाहकमस्तीति सुधीभिर्विभावनीयम् । कस्यचिदपि ग्रन्थस्याऽऽदौ क्रियमाणं मङ्गलाचरणन्तु ग्रन्थोपक्रमत्वेन गण्यते । तमिममुपक्रममभिलक्ष्यैव ग्रन्थस्याऽग्रे विस्तरो भवतीतीयं शास्त्रीयपरम्परा अस्माभिर्दरीदृश्यते ।

अधिशिक्षापत्रि भगवान् श्री-स्वामि-नारायणो मङ्गलाचरणे स्वेष्टदेवतात्वेन सराधिकश्रीकृष्णस्य चिन्तनं करोति । शिक्षापत्र्या उपक्रममिमं केन्द्रीकृत्याऽग्रेऽपि मालायां सूत्रप्रवेश इव भगवतः श्रीकृष्णस्य भूयो भूय उल्लेखः प्राप्यते । अत इदं नैसर्गिकमस्ति यच्छिक्षापत्र्यां भगवतः श्री-स्वामि-नारायणस्य भगवत्त्वेनोल्लेखो न दृश्यत इति ।

भगवतः श्री-स्वामि-नारायणस्याऽऽविर्भाव उत्तरकोसलेषु कुलश्रेष्ठे सरयूपारीणाख्यविप्रकुले समजनि । तदीयकुले वंशपारम्पर्येणेष्टदेवत्वेन भगवतः श्रीकृष्णस्याऽऽराधनं भवति स्म । अतस्ताम्परम्परां समाद्रियमाणो भगवान् श्री-स्वामि-नारायणो भगवते श्रीकृष्णायेष्टदेव इतीमं शब्दं प्रयुङ्क्ते ।

वचनामृतग्रन्थेऽपि भगवान् श्री-स्वामि-नारायणोऽसकृद्भगवति श्रीकृष्णे स्वस्नेहातिशयमभिव्यनक्ति

भूमौ सर्वेष्वप्यवतारेषु श्रीकृष्णावतारेऽस्मदीया रुचिः सदा सर्वाधिकतमाऽस्ति । अपि चेदमपि वयं मन्यामहे यदन्येषां सर्वेषां भगवदवताराणामपेक्षयाऽयं श्रीकृष्णावतारो विशेषतो महान् समर्थश्चाऽस्ति , नाऽस्मिन्नवताराऽवतारी भेदो दृश्यते इति । (लौह.वच.१४) स्वेष्टदेवतात्वेन भगवतः श्रीकृष्णस्य स्मरणं शिक्षापत्र्यां भगवान् श्री-स्वामि-नारायणः करोति इत्यनेनापि श्री-स्वामि-नारायणीयाऽन्तरङ्गाऽऽशयोऽभिव्यज्यते यत् भगवद्भक्ताः मां भगवत्त्वेन जानते, एकान्तिकभावेन मामुपासते, अन्यानपि

[[१६]]

भगवदवतारान् समाद्रियेरँश्चेति परमावश्यकमस्तीति ।

परमात्मनो नानाऽवतारस्वरूपोपसका भक्ता मिथः संवादितां रक्षेयुः, समन्वयभावेन च परस्परं व्यवहरेयुरित्येतदर्थं भगवान् श्री-स्वामि-नारायणः स्वशिक्षापत्र्यां न केवलं भगवतः श्रीकृष्णस्यैवोल्लेखं करोति, अपि तु भारतीयसनातनसंस्कृतिप्रसिद्धानां पञ्चायतनदेवानां सम्माननस्याऽर्चनस्याऽप्याऽऽदेशं करोति ।

भगवतः श्री-स्वामि-नारायणस्य भगवत्ताया निर्धारणं केवलेन शिक्षापत्रीग्रन्थेनैव न सिद्ध्यति । शिक्षापत्र्या सह वचनामृतग्रन्थेऽपि प्रोक्तानि भगवतः श्री-स्वामि-नारायणस्य वचांसि, तदीयाऽसाधारणैश्वर्यचरित्राणि चाऽभिलक्षितव्यान्येव ।

भगवता श्री-स्वामि-नारायणेन दीक्षितास्ते साधवः शास्त्रनदीष्णास्त्वासन्नेव, तदतिरिच्य ते मूर्तिमत्धर्मस्वरूपा अप्यासन् ।

सद्गुरुः श्रीरामानन्दस्वामी भगवतः श्रीकृष्णस्य कृतसाक्षात्कारो यतिराडासीत्। तथैव सद्गुरुः श्रीमुक्तानन्दस्वाम्यपि भगवतः श्रीकृष्णस्य कृतसाक्षात्कारः साधुरासीत् ।

सद्गुरुः श्रीगोपालानन्दस्वामी इडर इत्याख्यनगरसमीपे विद्यमाने टोडला इत्याख्यजनपदे आविर्बभूव । तस्य पूर्वाश्रमनाम खुशालभट्ट इत्यासीत् । टोडला इत्याख्यजनपदसमीपे शामलाजी इत्याख्यसुविख्याततीर्थं विराजते । एतत्तीर्थप्रतिष्ठितो भगवान् श्रीश्यामो लघुवयस्केन खुशालभट्टेन सह क्रीडितुं टोडलाख्यग्रामं समायाति स्म ।

भगवतः श्रीकृष्णस्य कृतसाक्षात्कारा अप्येतादृशा नैके महापुरुषाः श्री-स्वामि-नारायणीयप्रभावेण संन्यासदीक्षां गृहीत्वा भगवन्तं श्री-स्वामि-नारायणं भगवद्रूपेण पूजयामासुः, सम्मेनिरे चोपासाञ्चक्रिरे ।