०३ अवतारा ह्यसंख्येयाः

भगवतो नारायणस्य प्रतिज्ञा वर्तते यत्

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम् ॥ परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ (भ.गी.४.७,८)

काले काले करुणावरुणालयो भगवान् क्वचिद्देवयोनौ, जातुचिन्मनुष्ययोनौ, कदाचित्पशुपतत्त्रियोनौ, कदाचित्स्थले, कदाचिज्जले, कदाचिन्नभसि इत्येवं नानारूपैरवतरति । श्रीमद्भागवतमहापुराणे कथयति सुतपुराणी शौनकाद्यृषीन् प्रति यत्

भावयत्येष सत्त्वेन लोकान् वै लोकभावनः । लीलाऽवतारानुरतो देवतिर्यङ्नरादिषु ॥ (भा.पु.१.२.३४)

भगवान् नारायणो देवमनुष्यपशुपतत्त्रियोनिषु नानालीलाऽवतारान् सन्धरन् स्वेनाऽलौकिकसामर्थ्येन लोककल्याणं चिकीर्षञ्जीवान् पालयति ।

भगवतः प्राकट्यं जनन्युदरादेव भवतीति नाऽयं सार्वत्रिको नियमः । स तु क्वचित् प्रह्लादसदृशान् भक्तान् रिरक्षुः लोहस्तम्भं भित्त्वा नृसिंहत्वेनाऽपि आविर्भवति । भगवदवताराः केवलं दश वा चतुर्विंशतिरेव न सन्ति । प्रोक्तञ्च श्रीमद्भागवतमहापुराणे

अवतारा ह्यसंख्येया हरेः सत्त्वनिधेर्द्विजाः । यथाऽविदासिनः कुल्याः सरसः स्युः सहस्रशः ॥ (भा.पु.१.३.२६)

हे ऋषयः ! यथैकस्मादगाधात् परिणाहिनः सरोवरात् सहस्रशः पयःप्रणाल्यो निस्सरन्ति, तथैव सत्त्ववतो भगवतः श्रीहरेरसंख्या अवतारा भवन्ति । कथयति भगवान् श्रीकृष्णः श्रीमद्भगवद्गीतायां यत्

बहूनि मे व्यतीतानि जन्मानि तव चाऽर्जुन ।

तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥ (भ.गी.४.५)

हे अर्जुन ! मम तव चाऽनेकानि जन्मानि व्यतीतानि । हे परन्तप ! तानि सर्वाणि जन्मान्यहं वेद्मि, किन्तु त्वं न वेत्सि ।

भगवान् श्री-स्वामि-नारायणो वृत्तालयप्रोक्ते दशमे वचनामृतेऽवतारसन्दर्भे किञ्चिद्विशिष्टं प्रवक्ति यत्

[[१०]]

अधिभुवं नृपरूपेण वा साधुरूपेणेत्येवं द्विधा भगवदवताराः भवन्ति । यदैष भगवानस्यां धरायां राजरूपेणाऽवतरति तदा स लक्षणानां नवत्रिंशता युतो भवति । यदा स भगवान् साधुरूपेणावतरति तदा त्रिंशल्लक्षणोपेतो ज्ञेयः इति ।

श्रीमद्भागवतस्य प्रथमस्कन्धे पृथिवीधर्मयोः संवादे राजरूपेणाऽवतीर्णस्य भगवतः श्रीकृष्णादेः नवत्रिंशल्लक्षणानि प्रोक्तानि । (भा.पु.१.१६.२५ तः ३०) एकादशे स्कन्धे श्रीकृष्णोद्धवयोः संवादे इदमुक्तं यत् साधुरूपा दत्तात्रेयकपिलादयो येऽवतारास्सन्ति, तेषां त्रिंशल्लक्षणानि भवन्तीति । (भा.पु.११.११.२९ तः ३३)

इदमत्र विज्ञेयमस्ति यत् सहस्रशश्चक्रवर्तिनः सम्राजः सम्भूयाऽपि भगवत्ताप्राप्तये समर्था न भवन्ति, किन्तु यदि भगवानिच्छति, तर्हि सोऽवश्यं राजरूपं धारयितुं क्षम इति । एवमेव सहस्रशः सिद्धा अपि साधव एकीभूय भगवत्त्वं प्राप्तुं नाऽर्हन्ति, किन्तु यदि भगवान् संकल्पते, तर्हि साधुरूपेणाऽवश्यमवतरति ।

भगवान् राजाऽस्ति चेदपि भगवानस्ति, साधुरूपेणाऽस्ति चेदपि भगवान् एवाऽस्ति । भगवान् श्री-स्वामि-नारायणस्तु साधुरूपेणाऽवततार, तथाऽपि स न केवलं साधुर्वा सिद्धः, किन्तु साक्षात्पूर्णपुरुषोत्तमो नारायण एवाऽस्ति ।