वचनामृतग्रन्थस्य प्रवक्ता भगवान् श्री-स्वामि-नारायणः श्री-स्वामि-नारायण- सम्प्रदायस्य प्रवर्तकोऽस्ति । वस्तुतः सम्प्रदायस्याऽस्याऽभिधानम् उद्धवसम्प्रदायः इत्यस्ति । भगवतः श्री-स्वामि-नारायणस्य गुरुः श्रीरामानन्दस्वामी उद्धवाऽवतार आसीत् । स एवेमं सम्प्रदायं प्रातिष्ठिपत् । गच्छताऽनेहसा भगवतः श्री-स्वामि-नारायणस्याऽनितरसाधारणप्रभावात् सम्प्रदायोऽयं श्री-स्वामि-नारायण- सम्प्रदायः इतीमां प्रथां प्रपेदे ।
एतत्सम्प्रदायस्य लक्षशो भक्तजनानामियं दृढतमाऽनुभूतिरस्ति यत् भगवान् श्री-स्वामि-नारायणो न केवलं समाजसुधारको वा , भक्तो वा , सद्गुरुर्वा वर्तते , किन्तु वेदाः सच्छास्त्रपुराणानि च यं परब्रह्मपुरुषोत्तमनारायण इत्यामनन्ति , स एव भगवानस्यां भुवि श्री-स्वामि-नारायणरूपेणाऽवततार । भगवतः श्री-स्वामि-नारायणस्य जीवितकाले एव लक्षशः स्त्रीपुमांसस्तं स्वेष्टदेवं मन्वाना उपासिषत । अद्याऽपि चोपासते इति ।
श्री-स्वामि-नारायणप्रभौ कोटिशो भक्तजनानां श्रद्धातिशायित्वं हेतुशून्यं नाऽस्ति ।
[[४]]
श्रीहरौ विद्यमानां तदीयश्रद्धां पुष्णन्ति सन्त्यनेककारणानि ।
(१) प्रथमकारणम् - शरदां सहस्रात्प्रागेव शास्त्राणि भविष्यवाण्या जुघुषुः यत् परब्रह्मपरमात्मा स्वयं श्री-स्वामि-नारायणपरमात्मत्वेन अधिभुवम् अवतरिष्यति इति ।
स्कन्दपुराणान्तर्गतवासुदेवमाहात्म्यस्याऽष्टादशेऽध्याये भगवान् वासुदेवनारायणो ब्रह्माणमिदं निजगाद हे ब्रह्मन् ! साऽर्जुनेन मया श्रीकृष्णेन निहता असुरा यदा पृथिव्यामधर्मं प्रवर्तयिष्यन्ति तदा…
धर्मदेवात्तदा मूर्तौ नरनारायणाऽऽत्मना । प्रवृत्तेऽपि कलौ ब्रह्मन् भूत्वाऽहं सामगो द्विजः ॥
(वासु.मा.१८.४३)
इति स्कान्दोक्त्यनुगुणमस्यां पृथिव्यामुत्तरकोसलेषु सामवेदीयविप्रकुले धर्मदेवाद्भक्तिदेव्यां नारायणमुनित्वेन अवतरिष्यामीति ।
(२) द्वितीयकारणम् - सामुद्रिकशास्त्रानुसारं भगवतः श्री-स्वामि-नारायणस्य दिव्यमानुषविग्रहे अनितरसाधारणानि दिव्यचिह्नानि साक्ष्यं पूरयन्ति यत् श्री-स्वामि-नारायणः साधारणमनुष्यो नाऽस्ति , किन्तु साक्षाद्भगवानेवाऽस्ति इति । भगवतः श्री-स्वामि-नारायणस्य श्रीविग्रह इतरमनुष्यशरीराऽपेक्षया अनुपमः अलौकिकश्चाऽऽसीत् । तदीयचरणनलिनयोः स्थितानि षोडशचिह्नानि भगवतः श्री-स्वामि-नारायणस्य पुरुषोत्तमनारायणत्वं प्रमाणयन्ति स्म ।
भगवतः श्री-स्वामि-नारायणस्य समकालिकैः आनन्दाऽन्तनामधेयैर्लोके नन्दसाधवः इति विशिष्टसंज्ञया व्यपदिश्यमानैः स्वीयकाव्येषु ग्रन्थरचनासु चाऽमीषां षोडशचिह्नानामत्यन्तं मनोहरं वर्णनं कृतमस्ति । अद्याऽपि गृहाणां सहस्रेषु षोडशदिव्यचिह्नोपेतस्याऽस्य चरणारविन्दयुगलस्य पूजनं तद्ध्यानञ्च भवति । भगवन्तमतिरिच्य साधारणमानवचरणेषु षोडशचिह्नानीमानि नैव सम्भवन्ति ।
(३) तृतीयकारणम् - भगवता श्री-स्वामि-नारायणेन विशिष्टं समाधिप्रकरणम् प्राचुर्येण प्रावर्ति । भगवतः श्री-स्वामि-नारायणस्य दिव्यमङ्गलमानुषविग्रहस्य दर्शनमात्रेणैव समाकृष्टेन्द्रियान्तःकरणाः सन्तो लक्षशो जनाः विनाऽष्टाङ्गयोग- साधनामेव समाधिदशाल्ँलेभिरे ।
कस्यचिन्महापुरुषस्याऽतिवेले सामर्थ्ये सत्यपि सः द्वित्रशिष्येभ्यः समाधिं वा साक्षात्कारं कारयितुं शक्नुयात्, किन्तु जनसाहस्रयुगपत्समाधिस्थितिकारको भगवान्
[[५]]
श्री-स्वामि-नारायणः समाधिदशायाल्ँलोकेभ्यः तेषां तेषामिष्टदेवदर्शनं कारयति स्म । न केवलमेतावदेव, किन्तु भगवान् श्री-स्वामि-नारायणः स्वभक्तेभ्यः साधुभ्यश्च समाधिविधापकसामर्थ्यमपि प्रददाति स्म ।
(४) तुरीयं कारणम् - भगवतः श्री-स्वामि-नारायणस्य विशालपरमहंस- समुदायस्वामित्वं वर्तते । इमे परमहंसाः साधारणा नाऽसन्, किन्तु परमैश्वर्यशालिन आसन् । अमीषु परमहंसेषु सद्गुरुश्रीगोपालानन्दस्वामी, सद्गुरुश्रीगुणातीतानन्दस्वामी इत्याद्यनेके महान्तो योगिन आसन् । व्यापकानन्दस्वामि-सन्तदासजीस्वामि- अद्वैतानन्दस्वामि-मग्निरामसदृशाः महान्तः सिद्धपुरुषा अप्यासन् ।
श्री-स्वामि-नारायणीयपरमहंसेषु नित्यानन्दस्वामिसदृशाः विद्वत्केसरिण आसन् । मुक्तानन्दस्वामि-ब्रह्मानन्दस्वामि-प्रेमानन्दस्वामिसन्निभा महाकवय आसन् । अमीषु परमहंसेष्वन्यतमः सद्गुरुरखण्डानन्दस्वामी भरतपुरस्य राजाऽऽसीत् । इत्थं स्वीयपूर्वाश्रमेऽमी साधवो राजानो वा धनाढ्याः सन्तोऽपि नैजं ग्रामनगरसम्पदाधिपत्यं सर्वात्मना सन्त्यज्य भगवतः श्री-स्वामि-नारायणस्य शरणं प्रपद्य भागवतीं संन्यासदीक्षां जगृहुः ।
महद्वैशिष्ट्यमिदमस्ति यदेते परमहंसा न केवलं नाममात्रेण काषायवेशधारिण आसन्, अपि त्वेतेषां परमहंसानां जीवनानि पञ्चवर्तमानोपेतान्यासन् । ते परमहंसाः खलु साधुतायाः साक्षाद्विग्रहरूपा इव आसन् ।
भगवते श्री-स्वामि-नारायणाय समर्पितनिजजीवनसर्वस्वाः प्रायेण द्विसहस्रं साधवो बभूवुः । एतन्महदाश्चर्यं यत् भगवान् श्री-स्वामि-नारायणः कालवाणी इत्याख्ये ग्रामे एकस्मिन्नेवाऽहन्येतेषां मध्ये वर्तमानेभ्यः पञ्चशतपरमहंसेभ्यः पारमहंस्यदीक्षां प्रादात् । स्वामिनारायणीयसत्सङ्गसमुदाये इमे साधवः परमहंसपञ्चशती इति व्यपदेशेन प्रसिद्धाः सन्ति ।
एतेषां पञ्चशतपरमहंसानां दीक्षाप्रदानसमये भगवान् श्री-स्वामि-नारायणो नीलकण्ठवर्णी इति नाम्ना प्रसिद्ध आसीत् । तत्काले सः केवलं षड्विंशतिवर्षीय आसीत् । एवंविधे प्रत्यग्रतारुण्योपेते श्रीनीलकण्ठब्रह्मचारिणि अनितरसाधारणसामर्थ्यवन्तः परमहंसा नवनवोन्मेषप्रेमबन्धेनाऽतितरां स्निग्धा आसन्नितीयं चमत्कृतिर्नाऽस्ति चेत्किमन्यत् ?
अस्य प्रत्यग्रतारुण्यशालिनो भगवतः श्री-स्वामि-नारायणस्यैकेनैव आज्ञापत्रेणाऽष्टादश भूसम्पद्धनाढयाः, समाजाऽग्रण्यश्च भगवद्भक्ताः संसारजालं
[[६]]
परित्यज्य संन्यासदीक्षां प्राप्तुकामाः सन्तो निजगृहाण्यत्याक्षुः । केचित् अद्भुतानन्दस्वामिसदृशाः सद्गुरवस्तु सम्बद्धमदनफलहस्ता अपि युवानो वैवाहिकवेदिकायामारभ्यमाणम् उद्वाहं परित्यज्य संन्यासदीक्षाजिघृक्षवः भगवन्तं श्री-स्वामि-नारायणमन्वधावन् ।
न जानीमो यद्भगवति श्री-स्वामि-नारायणे किमलौकिकमद्भुतञ्च वशीकरणैश्वर्यम् आसीद्यत् इमे सर्वे सम्पन्नाः श्रेष्ठिनोऽपि तदीयाऽऽदेशमात्रेण गृहादिकं परित्यज्य साधुदीक्षां ग्रहीतुं प्रस्थिताः ।
त्यागवैराग्योपदेशकरणमतिसुकरम्, किन्तु सांसारिकमायाजालस्य सन्त्यागः खलु दुर्घटः । श्री-स्वामि-नारायणीयभागवतदीक्षाग्रहणरूपं काषायाऽम्बरधारणं साधारणवस्त्रधारणमिव सरलं नाऽसीत् । भगवान् श्री-स्वामि-नारायणो निकषे स्वर्णमिव कठिनाऽतिकठिनप्रकारैः स्वसाधून् परीक्षते स्म ।
क्वचित्सः स्वसाधून् अपक्वसक्तुकभक्ष्यविशेषमेव भोक्तुमादिशति स्म । क्वचित् स्वसाधून् जीर्णकन्थाम्बरं धर्तुमादिशति स्म । जातुचित्सः स्वसाधूनिक्षोस्तथा क्षीरोद्भवखाद्यस्य सेवनं न विधेयमित्यादिशति स्म । क्वचित्सः स्वसाधून् सम्प्रवेकशैत्यकाले रात्रावनावृताऽवकाशदेशे कालक्षेपणायाऽऽदिशति स्म । तथा च कुमतिभिर्विरोधिभिः स्वसाधूनामपमानने कृते सत्यपि तेषां हितमेव चिन्त्यम् इत्ययमादेश आसीद्भगवतः श्री-स्वामि-नारायणस्य स्वसाधुभ्यः ।
इमे साधवोऽपि भगवतः श्री-स्वामि-नारायणस्याऽऽज्ञापरिपालनतत्परा बभूवुः । एते साधवो भगवता श्री-स्वामि-नारायणेन क्रियमाणानां कठिनाऽतिकठिनपरीक्षणानाम् उत्तरणं हसन्मुखास्सन्त एवाऽकार्षुः । ते च साधवोऽनितरसाधारणसामर्थ्योपेताः सन्तोऽपि भगवतः श्री-स्वामि-नारायणस्य दास्यभावेनोपासनां चक्रिरे ।
निरूपितश्री-स्वामि-नारायणीयपरमहंसोदन्तजातमिदमेव निदर्शयति यत् भगवान् श्री-स्वामि-नारायण अनितरसाधारणैश्वर्यभूयिष्ठ आसीदिति ।
(५) पञ्चमं कारणम् - भगवतः श्री-स्वामि-नारायणस्याऽसाधारणैश्वर्य- प्रभावादसंख्यास्तस्कराः हिंसका लुण्ठकाश्च सदाचारशीला बभूवुः । येषां क्रूरजनानां करेष्विषुबाणाऽसिपत्रतोमरपट्टिशशूलादिशस्त्राणि भवन्ति स्म, तेषामेव कराः श्री-स्वामि-नारायणभगवतः प्रभावाऽतिशयेन भगवन्नाममन्त्रजपमालाधराः समपद्यन्त ।
(६) षष्ठं कारणम् - भगवतः श्री-स्वामि-नारायणस्य प्रतापातिशयान्नैके
[[७]]
मुमुक्षवः स्वान्तश्शत्रुविजयक्षमा अभूवन् ।
(७) सप्तमं कारणम् - इह मायामये संसारे जीवन्मुक्तिदशाऽवाप्तिरत्यन्तं दुर्लभा, परंतु भगवतः श्री-स्वामि-नारायणस्य कृपया नैके भक्ताः सदेहमेव ब्राह्मीं स्थितिं प्रपेदिरे ।
(८) अष्टमं कारणम् - अनेकजन्मसंसिद्धस्ततो याति परां गतिम् (भ.गी.६.४५) इति भगवच्छ्रीकृष्णवचनोक्तरीत्या बहुजन्माऽन्ते साधकः परां गतिमाप्नोति । परमिदन्तु परमाश्चर्याऽऽवहं यत् भगवतः श्री-स्वामि-नारायणस्य प्रतापाऽतिशयेन कोटिशो भक्तजना एकस्मिन्नेव जन्मनि सिद्धदशां प्राप्तास्सन्तः परमैश्वर्यशालिनोऽभवन् ।
(९) नवमं कारणम् - भगवतः श्री-स्वामि-नारायणस्य मूर्तेर्ध्यानप्रभावात्, तद्भजनस्मरणप्रभावाच्चाऽनेकेषां भक्तानां मनांसि मेघघटाविहीनमाकाशमिव अविकृतानि विमलानि चाऽसन् । ते नैसर्गिकरूपेण निरावरणदशां निरावरणदृष्टिञ्च लेभिरे ।
निरावरणस्थितिर्नाम यत्र मायिकानि पृथिव्याद्यष्टाऽऽवरणान्यवरोधकराणि न भवन्ति, सा निरावरणस्थितिः कथ्यते । अहमदाबादनगरस्थयवनभक्त- श्रीडोसाताई सदृशा अनेके भक्ता निरावरणस्थितिमन्त आसन्निति तेषामुदाहरणानि श्री-स्वामि-नारायणीयसत्सङ्गसमवाये प्रसिद्धानि सन्ति ।
निरावरणदृष्टिर्नाम दूरदर्शनसिद्धिः । भगवतः श्री-स्वामि-नारायणस्याऽनुग्रह- विशेषेण दुर्गपुरस्था जयादेवी, करियाणाऽऽख्यग्रामस्था मीणबाई, धौरेयनगरस्था फूलीबा, भाद्राऽऽख्यग्रामस्य मूलजीशर्मा, अञ्जारनगरस्थ अच्युतदासस्वामी इत्येवमनेके भक्ताः समवाप्तनिरावरणदृष्टय आसन् । भगवान् श्री-स्वामि-नारायणः सुदूरदेशेषु सञ्चरति स्म, तथाऽपीमे निरावरणदृष्टिमन्तो भक्तास्तद्दर्शनगमनागमनादिकं सहजतया प्रत्यक्षीकुर्वन्ति स्म ।
(१०) दशमं कारणम् - न केवलं सम्प्राप्तश्री-स्वामि-नारायणीयसङ्गमाः, अपि तु तदीयपरमहंसैः सह सम्पृक्ता नैके मुमुक्षवः प्रशान्तसर इव प्रशान्तमनस्का अभूवन् ।
(११) एकादशं कारणम् - भगवता श्री-स्वामि-नारायणेन निजभक्तेभ्यः प्रदत्तमलौकिकवरत्रयं वर्तते । भगवान् श्री-स्वामि-नारायणो यदा सम्प्रदायधुरमधिरुरोह तदा स्वगुरुं श्रीरामानन्दस्वामिनं स्वाऽऽश्रितभक्तजनकल्याणाय प्रथमं वरम्
[[८]]
अयाचीत् । तद्यथा
अस्मिल्ँलोके यदि भगवद्भक्तानां वृश्चिकदंशतुल्यं महत्कष्टमापतेत् , तर्हि तच्च कोटिवृश्चिकदंशतुल्यं कष्टं मत्कृते भवतु , परन्तु ते तु दुःखशून्या भवन्तु । वरेऽस्मिन् भगवतः श्रीसहजानन्दस्वामिनः स्वाश्रितेष्वहैतुकं निस्सीमकारुण्यं परिलक्ष्यते ।
भगवान् श्री-स्वामि-नारायणः सद्गुरुं श्रीरामानन्दस्वामिनं द्वितीयं वरं ययाचे एतदधिलोकं मद्भक्तिपरायणानां भक्तानां कदाचिदपि स्वकृतकर्मवशात् अवश्यमेवाऽनुभोक्तव्यमन्नवस्त्राद्यभावादिदुःखं स्यात्, तन्ममैवाऽस्तु , न तु तेषाम् इति । वरेणाऽनेन भगवान् श्री-स्वामि-नारायण इह लोके जीवनयापनाय अत्यावश्यकपदार्थानां विषये स्वभक्तान्निश्चिन्तान् व्यदधात् ।
अत्र सन्दर्भे विशेषमहत्त्वोपेतमिदं तथ्यं चिन्तनीयमस्ति यत् भगवान् श्री-स्वामि-नारायणः प्रारब्धपरिवर्तनेऽपि क्षम आसीदिति । महासमर्थोऽपि न कोऽपि विधातृलेखपरिवर्तने समर्थो भवति । कश्चिन्महदैश्वर्यसम्पन्नः स्यात्तर्हि त्रिचतुराणां मानवानां प्रारब्धस्य परिवर्तने क्षमो भवेत्, किन्तु लक्षशो लोकानां प्रारब्धपरिवर्तन- सामर्थ्यन्तु परमात्मानमन्तरा कुत्राऽपि न भवति ।
भगवान् श्री-स्वामि-नारायणः स्वाश्रितजनेभ्यः तृतीयं वरं स्वयं प्रददौ यत् मद्भक्तानां देहावसानेऽहं स्वयमेव तान् अपुनरावृत्तिलक्षणमक्षरधाम नेष्यामि इति । वरदानमिदं सन्दर्भयन् सद्गुरुः श्रीनिष्कुलानन्दस्वामी स्वीयभक्तचिन्तामण्याख्ये चरित्रग्रन्थे उल्लिखति यत्
मारा जनने अन्तकाळे जरूर मारे आववुं ।
बिरुद मारुं ए न बदले ते सर्वे जनने जणाववुं ॥ (भ.चिं.६८.३)
भगवान् श्री-स्वामि-नारायणोऽद्याऽपि निजाश्रितेभ्यः स्वीयदिव्यदर्शनं प्रदाय तानक्षरधाम नयति । ईदृग्विधा नैका घटनास्तु साम्प्रतमपि घटन्त एव ।
एतद्विधैर्बहुकारणैरिदं सिद्ध्यतितमां यत् भगवान् श्री-स्वामि-नारायणो न केवलं समाजपरिष्कर्ता, न केवलं सद्गुरुः, न केवलं धर्मप्रवर्तको वा महापुरुषः, अपि तु स्वयमेव सर्वेश्वरः परब्रह्मपुरुषोत्तमनारायणः सकलेशो वरीवर्तीति ।
[[९]]