शास्त्रयोनिः कृपासाध्यः सर्वकारणकारणः । जीवेशब्रह्ममायानां नियन्ता नः प्रसीदतु ॥
भगवतः श्री-स्वामि-नारायणस्य प्रेरणयाऽमुष्मिन् उद्धवसम्प्रदायाऽपरनामधेये श्री-स्वामि-नारायणीयसम्प्रदाये संस्कृतभाषया, व्रजभाषया, गुर्जरभाषया च प्राचुर्येण साहित्यप्रणयनमभवत् । अस्मिन् साहित्यसमुच्चये गद्यपद्योभयरूपं द्विविधं साहित्यं समाविशति ।
समस्तेऽस्मिन् गद्यपद्योभयप्रकारके वाङ्मयसमुच्चये भगवतः श्रीस्वामि- नारायणस्य मुखसरोजात् निस्सृतः परावाणीरूपो वचनामृतग्रन्थः तथा च स्वयं भगवता श्री-स्वामि-नारायणेन लिखिता शिक्षापत्री परमप्रमाणभूतौ स्तः । समस्तभारतीयदर्शनशास्त्राणाम् अर्क इव वचनामृतग्रन्थः श्री-स्वामि-नारायण- सम्प्रदायस्य दर्शनशास्त्रं वर्तते तथा च प्रायः त्रिशताधिकधर्मशास्त्राणां सारभूता शिक्षापत्री त्वस्य सम्प्रदायस्य धर्मशास्त्रं वर्तते ।
वचनामृताख्ये ग्रन्थे भगवन्तं श्री-स्वामि-नारायणं परिचाययितुं सर्वत्र श्रीजीमहाराजः इत्येतद्विशिष्टसंज्ञाप्रयोगो दृश्यते । भगवान् श्री-स्वामि-नारायणो दुर्गपुरवृत्तालयसारङ्गपुरेत्यादिषु परमपूतेषु पुण्याधिष्ठानेषु विराराज्यमानः सन्नमृतसन्निभानि वचनानि प्रावर्षयत् ।
चातकपक्षी यथा स्वातिनक्षत्राऽधिष्ठिते वर्षाकाले मेघच्युतं प्रत्येकमम्बुबिन्दुं निजानने धारयति तथैव भगवन्तं श्री-स्वामि-नारायणं प्रत्यत्यन्ताऽनुरागवन्तो महान्तः
[[१]]
[[२]]
सद्गुरवो भगवतः श्री-स्वामि-नारायणस्य वदनकमलनिःसृतानि वचनामृतानि स्नेहेन धृतवन्तः किञ्च श्रवणमनननिदिध्यासादिहेतवे निजहस्ताक्षरैरेव तानि वचोमृतानि ते पत्रेषु व्यलिखन् ।
चत्वारः सद्गुरुशिरोमणयोऽमीषां वचोऽमृतानां हस्ताऽक्षरविन्यस्तपत्राणि संकलय्याऽनुपममेकं ग्रन्थं प्रणीतवन्तः, यश्चाऽद्य वचनामृतम् इति नाम्ना जगत्यां प्रसिद्धोऽस्ति ।
श्री-स्वामि-नारायणीयसत्सङ्गसमवायस्य माता इत्यनेन विशिष्टबिरुदेन संविभूषितः श्रीमुक्तानन्दस्वामिवर्यः, महायोगिराजश्रीगोपालानन्दस्वामिवर्यः, निजवैदुष्येण बृहस्पतिमपि त्रपयन् विद्वल्ललामभूतः श्रीनित्यानन्दस्वामिवर्यः, लेखनकर्मणि श्रीजीमहाराजस्य हस्तायमानः सद्गुरुः श्रीशुकानन्दस्वामिवर्यश्चेतीमे चत्वारः परमहंसाः श्रीजीमहाराजस्य वचोऽमृतानां संकलनं कृत्वा वचनामृतम् इतीमं ग्रन्थराजं सम्पादयामासुः ।
मूलतो गुर्जरभाषया उपनिबद्धमिमं वचनामृतग्रन्थं विषयीकृत्य गीर्वाणवाण्या श्रीहरिवाक्यसुधासिन्धुः इत्येतन्नामकं ग्रन्थरत्नं शतानन्दस्वामिवर्यो व्यरचयत् ।
यदा वचनामृतग्रन्थः संकलनदशायामासीत् तदा भगवान् श्री-स्वामि-नारायणो ग्रन्थराजमेनं दर्शं दर्शं स्वीयप्रसन्नतांभृशं प्रदर्शितवान् । लौहग्रामे प्रोक्ते सप्तमे वचनामृते अयमुल्लेखः प्राप्यते यत्सद्गुरुः श्रीनित्यानन्दस्वामी वचनामृतपुस्तकं भगवतः श्रीहरेः सकाशमानीतवान् । तदालोक्य श्रीजीमहाराजः प्रहर्षमवाप इति ।
इत्थं ग्रन्थराडयं भगवतः श्री-स्वामि-नारायणस्य दिव्यसन्निधावेव सम्पन्नोऽभूत् । किञ्च भगवान् श्री-स्वामि-नारायणो ग्रन्थमेनं प्रमाणितवानपि ।
एतेषां वचनामृतानां सङ्ख्या (२६२) द्विषष्ट्युत्तरद्विशतमस्ति । श्री-स्वामि-नारायणीयसम्प्रदाये अहमदाबादनगरस्थसत्सङ्गविभागे वचनामृतप्रकरणानां सङ्ख्या (२७३) त्रिसप्तत्यधिकद्विशतं परिगण्यते, किन्तु वचनामृतानां त्रिसप्तत्यधिकद्विशतसंख्याकतथ्यमिदं प्राच्यपाण्डुलेखैः सह सामञ्जस्यं न भजते । वृत्तालयस्थेन विद्वद्वरण्येन अक्षरवासिना सद्गुरुणा शास्त्रिश्रीहरिजीवनदासजीस्वामिना रचिते वचनामृतभूमिकाख्ये ग्रन्थे संख्यावैमत्यसन्दर्भे सयुक्तियुक्तमेतत् प्रतिपादितमस्ति ।
भगवान् श्री-स्वामि-नारायणो ज्ञानस्याऽगाधजलधिरासीत्, यस्याऽनुभूतिस्तदीय- वचनामृतश्रवणेन बोभवीति । वचनामृतग्रन्थस्य भाषावैभवो विद्वद्भ्यः
[[३]]
अर्थगाम्भीर्योपेतस्तथा ग्राम्याणामनधीताऽक्षरजनानां कृते सरलः स्फुटतमो बोधने हृदयङ्गमश्च प्रतीयते । गहनातिगहनाया आध्यात्मिकवार्तायाः सरलदृष्टान्तैः अवबोधनकौशलम् अनुपममासीद्भगवतः श्री-स्वामि-नारायणस्य ।
अधिवचनामृतग्रन्थं कतिचिद्वचांसि भगवतः श्री-स्वामि-नारायणस्याऽनुग्रहवचांसि सन्ति । ग्रन्थे क्वचित्सः स्वयं प्रश्नं पृच्छति समाधत्ते च । कदाचित्साधवः हरिभक्ताश्च प्रश्नं कुर्वते तथा श्रीहरिः स्वयं तेषां समाधानं करोति स्म । जातुचिद्भगवान् श्री-स्वामि-नारायणः स्वयमेव साधूनाहूय मिथः प्रश्नोत्तरगोष्ठीं विधापयति स्म ।
वचनामृतग्रन्थस्य प्रश्नोत्तरशैल्यद्भुताऽस्ति । नानाप्रसंगेषु परमहंसा हरिभक्ताश्च नैजा असंख्यजिज्ञासाः प्रास्तुवन् । तदनुसारं भगवान् श्री-स्वामि-नारायणस्तासां जिज्ञासानामद्भुतां संतुष्टिकरीं समाहितिमपि चकार ।
इदमत्र महत्वपूर्णं तथ्यमस्ति यत् श्री-स्वामि-नारायणमहाप्रभोर्ज्ञानवार्ताः तदीयोपदेशाश्च अध्यात्माऽनुभूतिपरिपूर्णाः बोभुवतीति । गुर्जरभाषाया वरेण्याः साहित्यकारा इमं वचनामृतग्रन्थं गुर्जरभाषाया आद्यमनुपमाध्यात्मिकरहस्यपूर्णं ग्रन्थराजं समामनन्ति ।