भगवता श्री-स्वामि-नारायणेन प्रोक्तः परावाणीरूपो वचनामृतग्रन्थ उद्धवसम्प्रदायाऽपरनामधेयस्य श्री-स्वामि-नारायणसम्प्रदायस्य परमप्रामाणिकः तथा समस्तभारतीयदर्शनानामर्कभूतः सर्वसच्छास्त्रशिरोमणिरूपश्च चकास्ति । भगवता श्री-स्वामि-नारायणेनाऽस्मिन् दर्शनग्रन्थे प्रमाणप्रमेयसाधनानां सम्यक् मीमांसा कृताऽस्ति ।
भगवता श्री-स्वामि-नारायणेन लिखिता शिक्षापत्री धर्मग्रन्थत्वेन प्रसिद्धाऽस्ति, परन्तु नेयं केवलं धर्मग्रन्थरूपा, अत्र ९३ तमश्लोकतः आरभ्य ९५, १०१, १०२ तमेषु श्लोकेषु प्रमाणसंग्रहो वर्तते । १०३, १०४ तमयोः श्लोकयोः परमात्मकृपाप्राप्तिसाधनानि संगृहीतानि सन्ति । १०५ तमश्लोकादारभ्य १०८ पर्यन्तश्लोकेषु प्रमेयसंग्रहो वर्तते । १२१तमे श्लोके परब्रह्मणः परमप्राप्यत्वम्, परमोपास्यत्वं तथा मुक्तिस्वरूपं प्रतिपादितमस्ति । एवमत्र सूत्रात्मकैः श्लोकैरतीवसंक्षेपेण श्री-स्वामि-नारायणदर्शनं सङ्गृहीतं वर्तते । विशेषतोऽवगाहनार्थमेतेषां श्लोकानां शतानन्दस्वामिकृत-शिक्षापत्र्यर्थदीपिकाटीका तथा आचार्यप्रवरेण स्वकरकमलादेव सर्वप्रथमपीठाधिपति- रूपेणाऽधिष्ठितश्रीरघुवीरजीमहाराजेन कृतं टीकाभाष्यञ्चाऽवश्यं दृष्टव्यमस्ति ।
अस्यां शिक्षापत्र्यां श्लोकानां संख्या केवलं द्वादशाऽधिकद्विशतमस्ति परन्त्वस्याः टीकायां भाष्ये च शिक्षापत्रीप्रतिपादितानां विविधानां विषयाणां प्रामाण्यप्रतिपादनपराणि प्रायेण सार्धत्रिशतशास्त्राणां प्रमाणानि सन्दर्भत्वेन सन्दृब्धानि सन्ति । श्री-स्वामि-नारायणसम्प्रदायस्य वृत्तालयपीठद्वारा प्रकाशितस्य शिक्षापत्री- टीकाग्रन्थस्य चरमभागे एतेषां सर्वेषां प्रमाणानां सन्दर्भपूर्वकं सम्यग्रीत्या उल्लेखो वर्तते ।
[[२१]]
शिक्षापत्रीटीकाविलेखनसमये पुस्तकानां मुद्रणव्यवस्थाऽपि नाऽसीत् । प्रायेण सर्वाणि पुस्तकानि हस्तलिखितानि तथा च सुदुर्लभान्याऽऽसन् । एतादृशे काले सार्धत्रिशतशास्त्रप्रमाणानां लघुकाये शिक्षापत्रीग्रन्थे सन्दर्भरूपेण ग्रथनमित्येतन्न ह्यासीत्सरलकृत्यम् । सार्धत्रिशतशास्त्राणां सारभूतायाः शिक्षापत्र्या लेखनमिति त्वेका चमत्कृतिरेव मन्तव्या । अत एव वाराणसेया वरिष्ठा विद्वांसः ‘कूलङ्कषकीलाला कुम्भीवैषा शिक्षापत्री’ इति मुक्तकण्ठतया तस्याः सम्मानपूर्वकं प्रशंसाञ्च व्यधासिषुः ।
केवलं भगवतः श्री-स्वामि-नारायणस्य समकालीनैः मूलसम्प्रदायमर्मज्ञैः शास्त्रपारावारपारीणैः श्रोत्रियैः ब्रह्मनिष्ठैः सद्गुरुगोपालानन्दस्वामिसद्गुरु- मुक्तानन्दस्वामिप्रभृतिभिः विरचितेषु प्रस्थानत्रयभाष्येषु तथा च सत्सङ्गिजीवन- श्रीहरिवाक्यसुधासिन्धुश्रीहरिदिग्विजयादिषु बहुषु मूलसम्प्रदायग्रन्थेषु श्री-स्वामि-नारायणदर्शनं विशदतया निरूपितमस्ति ।
न्यायदर्शनाद्वैतवेदान्तयोः क्रमेण तर्कसंग्रहवेदान्तपरिभाषावत्, सविशेषाद्वैत- सिद्धान्तप्रवेशे यतीन्द्रमतदीपिकावच्च श्री-स्वामि-नारायणमूलसम्प्रदायदर्शनप्रवेशे कस्यचित् संक्षिप्तस्य सरलस्य प्रामाणिकस्य दर्शनसारभूतस्य प्रकरणग्रन्थस्य आवश्यकताऽऽसीत् । तत्पूर्तये श्री-स्वामि-नारायणदर्शनसारसङ्ग्रहाख्यग्रन्थद्वारा स्वल्पः प्रयासः कृतोऽस्ति ।
भगवता श्री-स्वामि-नारायणेन पूर्वोक्तैः सद्गुरुभिः तथैव श्रीमद्रामानुजाचार्यादि- पूर्वाचार्यैः प्रतिपादितस्य दर्शनस्य हार्दमिदमस्ति यत् परब्रह्मपुरुषोत्तमनारायण एव सर्वकारणकारणम्, परमोपास्यः, सर्वकर्मफलप्रदाता, चरमपुरुषार्थेन परमप्राप्यश्च वर्तते ।
अयं सिद्धान्तो नभोमण्डले मध्याह्ने सूर्य इव प्रकाशते । तथाऽपि केचन अक्षरपुरुषोत्तमयोरुभयोरुपासनायाः संस्थापनाय परब्रह्मणा साकमक्षरब्रह्मणोऽपि ग्रहणं कृत्वा “अक्षरः, पुरुषोत्तमः” इत्युभयोः सर्वकारणकारणत्वम्, ध्येयत्वम्, उपास्यत्वम्, प्राप्यत्वञ्च प्रतिपादयितुं प्रयतन्ते ।
यतिवर्येण श्रीमद्रामानुजाचार्यवर्येण तथा च मूलसम्प्रदायमर्मज्ञैः सद्गुरुमुक्तानन्दस्वामिगोपालानन्दस्वामिप्रभृतिभिः परमाप्तमहापुरुषैः पूर्वोक्तं
लेखकस्य निवेदनम्
[[२२]]
सृष्टेरसाधारणकारणत्वादिप्रकरणे श्रुतिस्मृतिब्रह्मसूत्रादिषु पठितानामक्षरब्रह्मादिशब्दानां मुख्यवृत्तित्वं परब्रह्मण्येव स्पष्टतया स्वीकृतं तथाऽपि कैश्चित् अक्षरपुरुषोत्तमयोरुभयोरुपासनस्य प्रामाण्यं प्रतिपादयितुं मुख्यार्थं परित्यज्य ते ते शब्दाः प्रगाढाऽभिनिवेशवशात् गौणेऽक्षरब्रह्मणि नियोजिताः ।
एवम्प्रकारेण हठादमुख्येऽर्थनियोजनं त्वापातरमणीयमप्यनादरणीयं कल्पितार्थप्रतिपादकत्वात् पूर्वाचार्यप्रतिपादितसिद्धान्तविरुद्धत्वाच्च ।
तथा च कैश्चिद्भिः नूतनव्याख्याकारैः श्री-स्वामि-नारायणेतिनामपुरस्सराणि प्रस्थानत्रयभाष्याणि रचितानि सन्ति । अत्र श्री-स्वामि-नारायणेति नामश्रवणेन जनमानसे विपरीतज्ञानमुत्पद्यते यदिदमेव ‘श्री-स्वामि-नारायणदर्शनम्’ इति । वस्तुत एतेषु ग्रन्थेषु भगवता श्री-स्वामि-नारायणेन प्रतिपादितस्य सिद्धान्तस्य गन्धलेशोऽपि नास्ति, तथाऽपि तत्र श्री-स्वामि-नारायणशब्दप्रयोगो भ्रान्तिजनको भवति ।
सर्वेभ्यः विद्वज्जनेभ्यः अस्ति निवेदनं यत् एतादृशानां ग्रन्थानां प्रामाणिकताऽप्रामाणिकतयोर्निर्णयः न तु पाकशालाप्रचलितेन स्थालीपुलाकन्यायेन अपि तु सम्यग्विमर्शेन विधेय इति ।
एतल्लेखनस्य मम मनसि इच्छा नासीत्, यतो ह्यस्मिन् घोरे कलियुगे बहवो जनाः स्वमतस्य प्रचारं प्रसारं कुर्वन्त्येव, परन्तु केचन स्वमतस्य प्रामाण्यं प्रतिष्ठापयितुं प्रचारं कुर्वन्ति यत् ‘अक्षरपुरुषोत्तमदर्शनं भगवता श्री-स्वामि-नारायणेन प्रबोधितमस्ति । इयमक्षरपुरुषोत्तमगुरुपरम्परा स्वयं भगवता श्री-स्वामि-नारायणेन प्रस्थापिताऽस्ति इति च ।
एवम्प्रकारेण मिथ्याप्रचारेण जनमानसे विपरीतज्ञानं जायते, अतः स्पष्टीकरणम् अत्यन्तमावश्यकमस्ति । तद्धि भगवता श्री-स्वामि-नारायणेन संस्थापितं मूलभूतं श्री-स्वामि-नारायणदर्शनमन्यत्तथा एभिः कल्पितं दर्शनमन्यत् ।
भगवता श्री-स्वामि-नारायणेन प्रबोधिते अस्मिन् परमप्रमाणभूते वचनामृतग्रन्थे केवलं पुरुषोत्तमनारायणस्यैव उपासना प्रबोधिताऽस्ति, नाऽस्मिन् ग्रन्थे अक्षरपुरुषोत्तमोपासनायाः गन्धलेशोऽपि दृश्यते ।
तथा च भगवता श्री-स्वामि-नारायणेन स्वसम्प्रदायस्य सिद्धान्तानां सम्यक्
[[२३]]
संरक्षणाय पीठद्वयं संस्थाप्य तत्र गुरुत्वेन पवित्रधर्मकुलोद्भूतयोः द्वयोः आचार्ययोः नियुक्तिरूपा गुरुपरम्परा प्रस्थापिता वर्तते । उक्तञ्च शिक्षापत्र्यां भगवता श्री-स्वामि-नारायणेन
मदाश्रितानां सर्वेषां धर्मरक्षणहेतवे ।
गुरुत्वे स्थापिताभ्यां च ताभ्यां दीक्ष्या मुमुक्षवः । (शिक्षा. १२८)
भगवतः श्री-स्वामि-नारायणस्य समकालीनाः सद्गुरुगोपालानन्द-गुणातीतानन्द- मुक्तानन्द-ब्रह्मानन्द-नित्यानन्दस्वामिप्रभृतयः बहवः समर्थाः ऐश्वर्यशालिनश्च साधवः आसन्, तैः स्वेष्टदेवस्य भगवतः श्री-स्वामि-नारायणस्य आज्ञां शिरसि संधार्य इयमेव आचार्यपरम्परा दासभावेन स्वीकृता अऩुसृता च । न तैः महासमर्थैरपि कदापि पृथक्पीठसंस्थापनाय प्रयासः कृतः ।
इयञ्च आचार्यपरम्परा भगवत्याः भागीरथ्याः अस्खलितप्रवाहरूपा इव अद्यावधि प्रवहति । वर्तमानकालेऽस्मिन् मूलसम्प्रदाये आचार्यवर्यद्वयेन दीक्षिताः सहस्रशः साधवः लक्षशश्च अनुयायिनः सन्ति ।
मूलसम्प्रदाये शास्त्रपारावारपारीणाः मूलसम्प्रदायसिद्धान्तमर्मज्ञाः बहवः विद्वांसः सन्ति । विपुलं वाङ्मयञ्च वर्तते । तत्र शास्त्रवाङ्मये भगवता श्री-स्वामि-नारायणेन लिखिता शिक्षापत्री तथा च तेन प्रोक्तः वचनामृतग्रन्थश्च इति इमौ परमप्रमाणभूतौ वर्तेते ।
भगवता श्री-स्वामि-नारायणेन संस्थापितायाः आचार्यद्वयगुरुपरम्परायाः भिन्नानां अक्षरपुरुषोत्तमादिगुरुपरम्पराणां विषये सम्प्रदायप्रथितेषु शिक्षापत्र्यादि- प्रामाणिकग्रन्थेषु किमपि प्रमाणवचनं नोपलभामहे ।
तथा चाऽस्ति इत अपरो महान् भेदः यत् भगवता श्री-स्वामि-नारायणेन प्रस्थापितायां चाऽस्याम् आचार्यद्वयपरम्परायां श्रीहरिः साक्षात् गुरुरूपेण वर्तते इति वादः सर्वथा न स्वीक्रियते ।
यतो हि भगवता श्री-स्वामि-नारायणेन संस्थापिता इयं परम्परा वैष्णवी परम्परा वर्तते । अत्र भगवन्तं परब्रह्मपुरुषोत्तमनारायणं श्री-स्वामि-नारायणं विहाय सर्वेऽपि दासभूताः, अतोऽत्र न कोऽपि साक्षाद्धरिरस्ति । यदि कुत्रचिदेतादृशः
लेखकस्य निवेदनम्
[[२४]]
प्रयोगो दृश्यते तर्हि तत्तु विष्णुपुराणवचनन्यायेनोपचारमात्रम् । तथा हि
एवमेष महाञ्छब्दो मैत्रेय भगवानिति । परमब्रह्मभूतस्य वासुदेवस्य नाऽन्यगः ॥ तत्र पूज्यपदार्थोक्तिपरिभाषासमन्वितः ।
शब्दोऽयं नोपचारेण त्वन्यत्र ह्युपचारतः ॥ (वि.पु.६.५.७६,७७)
अत इदं पूर्वाचार्यप्रतिपादितसिद्धान्तविरुद्धं अक्षरपुरुषोत्तमयोरुभयोरु- पासनकथनं निर्मलसरसि संलग्नशैवालसदृशमस्ति । शुद्धजलावाप्तये यथा शैवालाऽपाकरणमावश्यकं तथैव अस्य अपाकरणमपि आवश्यकमस्ति । अस्मिन् श्री-स्वामि-नारायणदर्शनसारसङ्ग्रहे तदर्थं स्वल्पः, किन्तु सप्रमाणं प्रयासः कृतः ।
अस्य ग्रन्थस्य संशोधने SGVP दर्शनसंस्कृतसंस्थानस्याऽध्यक्षमहाभागैः विद्वद्वरेण्यैः श्रीबी.वी. रामप्रियाचार्यैः साधु मार्गदर्शनं कृतमस्ति । किञ्च दर्शनं महाविद्यालयस्य व्याकरणाचार्येण पण्ड्या योगेशशास्त्रिणा तथा शास्त्रेषु कृतभूरिपरिश्रमेण स्वामियोगेश्वरदासजीमहाभागेन (सरधार), स्वामियज्ञवल्लभ- दासजीवर्येण (विद्यावारिधिः, SGVP), स्वामिनिरञ्जनदासजीवयर्णेा (वेदान्ताचार्यः, SGVP), स्वामिमुनिवत्सलदासजीवर्येण (विद्यावारिधिः, SGVP) एवमन्यैरपि बहुभिरपूर्वः सहयोगः प्रदत्तोऽस्ति ।
विशेषतया वृत्तालयपीठाधिपतिभिः पूजनीयचरणैः आचार्यप्रवरैः श्रीमद्भिः श्रीराकेशप्रसादजीमहाराजवर्यैरयं ग्रन्थः सनाथितेति वयं विशेषतो धन्याः स्मः ।
श्रीसोमनाथसंस्कृतविश्वविद्यालयपाठ्यग्रन्थे अस्य ग्रन्थस्य समावेशः कृत इत्यनेन वयं विश्वविद्यालयकुलपतिप्रभृतिभ्यः सर्वेभ्यो व्यवस्थापकेभ्य अस्मदीयं हार्दिकं कार्तज्ञ्यं निवेदयामः ।
विद्वद्वरेण्यैः श्रीसोमनाथसंस्कृतविश्वविद्यालयस्य कुलपतिभिः श्रीमद्भिः गोपबन्धुमिश्रैः तथा च दिल्लीस्थराष्ट्रियसंस्कृतसंस्थानस्य शास्त्रपारावारपारीणैः समग्रभारतवर्षे सुप्रसिद्धैः सेनापत्युपाह्वैः प्रो. सुकान्तकुमारैः तथा च काशीहिन्दू- विश्वविद्यालयस्थसंस्कृतविद्याधर्मविज्ञानसङ्कायप्रमुखैः ममात्यन्तात्मीयैः श्रीमद्भिः कमलेशझामहाभागैः तथा च मेलकोटशोधसंस्थानस्य विद्वद्वरेण्यैः नारायणशास्त्रिभिः
[[२५]]
अस्य ग्रन्थस्य कृते प्रास्ताविकं लिखित्वा महदुपकारः कृतोऽस्ति ।
श्री-स्वामि-नारायणसम्प्रदायस्य दक्षिणविभागस्य वृत्तालयस्थश्रीलक्ष्मीनारायण- देवपीठेनायं ग्रन्थः प्रकाशितः इत्यस्मन्महत् सौभाग्यं वर्तते । एतदर्थं वृत्तालयमन्दिरस्य कोठारीस्वामी सन्तवल्लभदासजी(विद्यावाचस्पतिः), मन्दिरसमितेरध्यक्षः स्वामी देवप्रकाशदासजी इत्यादिभिरुदारहृदयैः साधुचरितैः साधुभिः दत्तेन सहयोगेन वयम् उपकृताः स्मः ।
अनेन श्री-स्वामि-नारायणदर्शनसारसङ्ग्रहाख्यग्रन्थेन भगवता श्री-स्वामि-नारायणेन संस्थापितस्य मूलसम्प्रदायस्य सिद्धान्तानां ज्ञानं संरक्षणं संवर्धनञ्च भविष्यतीत्यस्माकं दृढीयान् विस्रम्भः ।
विदुषां वशम्वदः स्वामी माधवप्रियदासः (विद्यावाचस्पतिः)
लेखकस्य निवेदनम्
[[२६]]