यस्याऽऽत्मभूतस्य गुरोः प्रसादादहं विमुक्तोऽस्मि शरीरबन्धात् । सर्वोपदेष्टुः पुरुषोत्तमस्य तस्याऽङ्घ्रियुग्मं शरणं प्रपद्ये ॥
अखिलहेयप्रत्यनीकस्य समस्तकल्याणगुणाकरस्य सर्वमङ्गलविग्रहस्य परब्रह्मणः पूर्णपुरुषोत्तमस्य भगवतो नारायणस्य निस्सीमकृपापरीवाहेण सर्वत्र नित्यश्रीर्नित्यमङ्गलम् ।
तदेतज्जानन्त्येव तत्र भवन्तो महान्तो द्वैताद्वैतविशिष्टाद्वैतशक्तिविशिष्टाद्वैत- शुद्धाद्वैतादिनाम्ना विविधा दार्शनिकसम्प्रदायपरम्परा विभिन्नैराचार्यैः प्रवर्त्य, प्रतिपाद्य प्रसारिता इति । तत्र सार्वजनीनेऽस्मिन् सुप्रथिते विशिष्टाद्वैतसत्सम्प्रदाये बहवोऽपि आचार्याः स्वीयं वैशिष्ट्ययुक्तं सिद्धान्तं प्रतिपाद्य सत्सम्प्रदायान् प्रवर्तयामासुरिति । तत्र च साक्षात्परमपुरुषस्वरूपाः श्रीसहजानन्दमहाराजाः श्री-स्वामि-नारायणेति सुप्रथिताश्च सन्तो वचनामृताख्येन निजवाणीवैभवेन स्वीयं विशिष्टाद्वैतसिद्धान्तानुगुणं सत्सम्प्रदायं प्रवर्तयामासुः, यत्र च चिदचिदीश्वराख्यतत्त्वत्रयाऽविरोधेन जीवेश्वरमायाब्रह्मपरब्रह्माख्यानां पञ्चतत्त्वानां स्वरूपनिरूपणादिकं महता वैभवेन सर्वसहजरूपेणैव प्रकटीचक्रुः । यच्चाऽयमविरोधः शिक्षापत्र्यां ज्ञानञ्च जीवमायेशरूपाणां सुष्ठु वेदनम् इति भगवतैव प्रकाशितः ।
वेदवेदान्तपुराणेतिहासादिग्रन्थरत्नेषु, प्रस्थानत्रयादिष्वपि प्रतिपादितानर्थान् सकलानपि वचनामृताख्येऽस्मिन् ग्रन्थे सोदाहरणं सामान्यजनबुद्धावप्यनायासेन तत्त्वार्थसारसर्वस्वग्रहणाय देशभाषामवलम्ब्य प्रश्नोत्तरक्रमेण वेदान्तसारसर्वस्व- प्रतिपादनमकुर्वन् । तदिदं वचनामृतं श्रीसम्प्रदायस्योभयवेदान्तप्रवर्तनवत् श्री-स्वामि-नारायणसम्प्रदाये मूलग्रन्थायमानं सर्वातिशयितं स्थानं भजते ।
यद्यपि वागमृतसारसर्वस्वभूते वचनामृतग्रन्थे उदीरितं निखिलमप्यर्थतत्त्वम् उपदेशसहस्रश्लोकात्मना अतिविस्तृतेनैव श्रीहरिवाक्यसुधासिन्धुनामकेन ग्रन्थरत्नेन
[[१८]]
गैर्वाण्या विशदीकृतमेव, तथाऽपि तत्तादृशानां परावरतत्त्वावबोधकानां प्रौढग्रन्थानाम् अध्ययनादिषु प्रवृत्त्युत्पादकरूपेण प्रवेशग्रन्थः सर्वथा नोपलभ्यमान आसीत् । ईदृशेऽस्मिन् सन्दर्भे सत्सम्प्रदायप्रवर्तनहेतुभूतेऽस्मिन् दर्शनेऽधिजि गमिषूणां प्रविविक्षूणां प्रवेशमनायासेन समवापयितुमिवाऽयं श्री-स्वामि-नारायणदर्शनसारसङ्ग्रहाख्यो लघुशरीरकः संक्षिप्तः सारसर्वस्वाऽवबोधको ग्रन्थः श्रीचरणैरनुगृहीतः, महते उपकाराय कल्पते इति नाऽतितिरोहितम् ।
पदवाक्यप्रमाणपारावारीणाः साक्षात्परमपुरुषेण श्री-स्वामि-नारायणेन हार्देनाऽनुगृहीतं दर्शनमिदमामूलचूलमभ्यस्य तत्प्रवर्तितसम्प्रदायानुगुणमेव जीवनं विनिवर्त्य प्राप्ताऽनुभवाः श्रीचरणाः ग्रन्थमिमं प्रकरणत्रयेण प्रविभज्योपपादनमकुर्वन् । प्रथमे हि प्रकरणे भगवन्माहात्म्यादिकमारभ्य ग्रन्थप्रवृत्तिक्रमाद्यन्तपर्यन्तं निरूपणम् अकुर्वन् । दर्शनस्याऽस्य मूलाधारभूतानामष्टसच्छास्त्राणां समाकलनं विधाय आचारानुष्ठाननीतिनियमादिभिः समन्वितः सन् जीवनसंहितारूपेण विद्यमानस्य शिक्षात्र्याख्यस्य ग्रन्थरत्नस्य स्वरूपमपि न्यगादिषुः ।
द्वितीये च प्रकरणे अध्यात्मशास्त्रप्रवेशाऽभिकांक्षिणाम् अध्येतॄणां सौविध्योपकल्पनाय सिद्धान्तेऽभ्युपगतानां जीवेश्वरमायाब्रह्मपरब्रह्माख्यानां पञ्चतत्त्वानां स्वरूपादिकं प्रत्यपीपदन् । तदङ्गत्वेन रूपेण पञ्चतत्त्वानां परस्परं भेदादिकं निरूप्य सिद्धान्तेऽभ्युपगतस्य जगत्सत्यतावादस्य हार्दमुपपाद्य तत्त्वपञ्चकस्य तत्त्वत्रयाऽविरोधित्वं जगत्सृष्टिक्रमोपपादनपुरस्सरं समुपादर्शयन् ।
ततश्च तृतीये प्रकरणे मुमुक्षूणां कृते परमोपकारकरूपेण विद्यमानस्य साधनसप्तकस्य स्वरूपमपि परस्परं सहयोगिक्रमेणैव स्वीकाराऽर्हतां प्रत्यपादयन् । तत्रैव च परब्रह्मणः परमपुरुषस्य दिव्यमङ्गलविग्रहविशिष्टस्य पूर्णपुरुषोत्तमस्य भगवतो नारायणस्याऽद्वितीयस्यैव सगुणस्य साकारस्य तस्य सर्वकारणकारणत्वम्, सर्वोपास्यत्वम्, सर्वकर्मफलप्रदत्वञ्च सूपापादयन् ।
तेनाऽनेन परब्रह्मणा परमपुरुषेण पूर्णपुरुषोत्तमेन सह जीवविशेषस्याऽपि अक्षराख्यस्य कारणत्वादिप्रतिपादकं परोक्तमर्वाचीनैरूपकल्पितञ्च मूलसम्प्रदाय- विरुद्धं सर्वथा तिरस्कृतं परिलक्ष्यते । सद्यस्त्वधिजिगमिषूणां कृतेऽर्थतत्त्वादिकं
[[१९]]
विमृश्य प्रतिपादनकुशलानां सद्गुरूणां श्रीचरणानां सारस्वतप्रबन्धेन मूलसम्प्रदायस्याऽनुगुणं नवनीतं बहिरानाय्य ग्रन्थोऽयमनुग्रहरूपोऽस्ति । तदिदं भगवतः श्रीसहजानन्दमहाराजस्य सिद्धान्तिततत्त्वानामध्ययनेऽध्येतॄणां कृते महदुपकाराय समुपकल्पेत इति तस्यैव चरणनलिनयोः सन्निधौ नतिततिसमर्पण- पुरस्सरं सम्प्रार्थये ।
तदत्र समासेन भगवता प्रतिपादितं पञ्चभेदनिरूपणम्, तदीयं परिष्कृतं स्वरूपम्, परस्परं भेदनिबन्धनकारणेन सह तस्यैव भगवतो नारायणस्य परब्रह्मणः पूर्णपुरुषोत्तमस्य सर्वकारणकारणत्वम्, सर्वकर्मफलप्रदत्वम्, समस्तप्रत्यनीकस्य तस्यैवाऽद्वितीयस्य समस्तकल्याणगुणाकरस्योपास्यत्वञ्च तदीयैरेव वचनैः सप्रमाणं प्रतिपाद्य वैदिकस्य मूलसम्प्रदायस्य यथार्थडिण्डिमः सम्प्रसारित इति सविनयं विनिवेदयामि ।
एतादृशेऽस्मिन् महत्कार्ये वचनद्वयेन स्वस्याऽभिप्रायं प्रकाशयितुम् अवकाशं दत्तवद्भ्यः श्रीस्वामिचरणेभ्यः सादरं साञ्जलिबन्धञ्च नतिततीः समर्प्य कार्तज्ञ्यं समर्पयामि ।
इत्थं विद्वज्जनविधेयः भा.वं. रामप्रियदासः
निर्देशकः
दर्शनं संस्कृतसंस्थानम्, SGVP
अभिवन्दना
[[२०]]