०७ पुरोवाक्

सरस्वति त्वं भव सुस्थिरात्र जहीहि मायानुगतं विमर्शम् ।
विशुद्धनैजस्थितिमादधाना चकाद्ध्यखण्डा मदभिन्नरूपा ॥
श्रीगुरुपदनखजन्मा जन्मान्धस्याऽपि प्रकाशयन्नर्थान् ।
स जयति कोऽपि विकासः प्रकाशमानोऽनवच्छिन्नः ॥

श्री-स्वामि-नारायणभगवतः श्रीमुखपद्माद्विनिर्गतस्य दर्शनग्रन्थरत्नभूतस्य श्रीवचनामृतस्य परमोपास्यपुरुषोत्तमप्रतिमापीठिकयोराधारभूतः श्री-स्वामि-नारायणदर्शनसारसङ्ग्रहः दर्शनसारसर्वस्वभूता पुण्यश्लोकेन विद्यावाचस्पतिना श्रीमाधवप्रियदास-स्वामिवर्येण विरचितः अस्मद्दृष्टिपथम् अवतरन् श्रीकृष्णावतार इव श्रीहरिकृष्णावतार्यवतार इव च तज्ज्ञानक्रियाशक्तिन्यः ममेव मादृशानां पूज्यसाधुजनानामथ च भक्तभागवतानां सज्ज्ञानोदयं सदाचारशुभोदर्कञ्च विदध्यादिति भगवतः भागवतमूर्तेः गुरोश्चानुग्रहादनुभवन् धन्यधन्यतामनुविन्दन् पूज्यश्री-स्वामि-नारायणभगवत्पादकृपास्पदतां व्रजामि ।

सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिरचिन्त्यशक्तिश्चेति षड्भिरङ्गैरुपेतस्य यस्य निःश्वसितं वेदाः , पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च इति निगमाऽऽगमश्रुतितदनुमोदितस्मृति- पुराणादिसकलसच्छास्त्रपरमतात्पर्यवतः सदास्तुत्यस्वभावस्य युगपदेवाऽवतार्य- वतारसद्गुरुसद्यतिसत्तपःकरुणाश्रीमूर्तेः श्रीधर्मसद्भक्तिप्रभवस्य प्रभोः सुज्ञविज्ञाल्पज्ञाज्ञानामेकेनैव श्रीवचनामृतेन परमार्थतत्त्वमुपलम्भयतोऽनुग्रहवपुषः कमप्यनुग्रहविशेषं सविशेषमिह प्रापं प्रापं जीवतो मुक्तस्य मोचयितुश्च कृपास्पदतां कश्चनाऽपि समर्हतीति तादृशं मामिवान्यजनमपि सुखिनं संविधातुरस्य सद्ग्रन्थस्याऽभिनन्दनं कुर्वते सुधियस्तपोधनाः ।

अनेन श्रीवचनामृतरसेन संसिक्ताः साधुगोष्ठीगरिष्ठाः बादरायणसूत्रव्याख्याकौशलं बिभ्राणाः श्रीभगवन्मुखविनिः सृतवाक्सुधासंग्रहिणोऽभूवन् मुनीन्द्राः श्रीमुक्तानन्द-

[[१४]]

स्वामिनः । अनेनैव महायोगिनो वेदान्तरहस्यविदः संवृत्ताः श्रीसहजानन्द- पादारविन्दाऽमृतरसास्वादनचञ्चरीकतां गताः श्रीगोपालानन्दस्वामिवर्याः । एतद्ग्रन्थनिःस्यन्दिचिद्रसेनैव प्रकटभगवतः सन्निधाने मनोज्ञां कथां विदधतः समवापि शास्त्रार्थमहारथिता भजनक्रियासमृद्धिशालिता च मुनीन्द्रैः श्रीनित्यानन्दस्वामिभिः सुधीभिः । सद्ग्रन्थस्याऽस्याऽऽनन्दरससुधापानेनैव प्राकट्यमुपगता श्री-स्वामि-नारायण- भगवत्पादानां पार्श्वगणमुख्येषु श्रीशुकानन्दस्वामिषु नानाग्रन्थप्रणेतृता शुकावतारस्वरूपता च ।

परब्रह्मणः पुरुषोत्तमस्य भगवतः श्रीनारायणस्य श्रीपतेः या परावाक् त्रीशिका तस्या एवाऽवतरणमभूदिह श्रीवचनामृतशुभाऽभिधाने कृपावर्षिणि सद्ग्रन्थे । श्रीसहजानन्दप्रभुगुरोः परां वाचमेनाम् ऋजुम् ऋतसत्यवैखरीभूमिमवतरन्तीं समाश्रयन् यः को वा श्रद्धालुरीड्यस्वरूपश्रीहरिकृष्णकृपासादनपात्रं भवेदभ्युदयस्य निःश्रेयसस्य वाऽवाप्तौ ।

प्रमाणप्रमेयसाधनसम्भागसंवलितस्याऽस्य श्रीवचनामृतस्य महाब्धेः सन्तरणमतिकठिनमपि प्रस्थानत्रयसंविभक्तं निजभाष्यग्रन्थं प्रकरणग्रन्थञ्च श्रीसत्सङ्गिजीवनश्रीहरिवाक्यसुधासिन्धुश्रीहरिदिग्विजयादिकं सेतुं समाश्रयते जनाय सुलभतामापादितमिति विदन्ति सुज्ञाः ।

अथ कैश्चिद्भिः आचार्यवान् पुरुषो वेद , तं त्वौपनिषदं पुरुषं पृच्छामि , प्रज्ञानं ब्रह्म , यतो वा इमानि भूतानि जायन्ते , अक्षरस्य प्रशासने , अथाऽतो ब्रह्मजिज्ञासा , जन्माद्यस्य यतः इत्येवमादिश्रुतिसूत्रादिरहस्यमविद्वद्भिः ध्येयपरब्रह्मनारायणस्येवाक्षरब्रह्मणोऽपि तात्पर्यविषयतां प्रतिपादयद्भिः अन्येऽपि तदीयमार्गम् अनुसर्तुं प्रेर्यन्ते । भ्रान्तिजनकः एतादृशः प्रयासः नैकान् जनान् पूर्वाचार्यप्रबोधितराजमार्गात् प्रच्यावयति ।

अथ भगवतः करुणामूलवचनसत्तात्पर्यप्रतिष्ठापनाय दुरभिसन्धिमपाकर्तुं वागधिष्ठातृदेव्या प्रेरितेन प्रशस्ताचार्यवता भक्तिशालिना शास्त्रमर्मस्पृशा विनयाञ्चितविद्यावता यतिप्रवरेण श्रीमाधवप्रियवर्येण श्रुतिसूत्रादितात्पर्यव्यक्तीः समुद्धरता ज्ञानक्रियासम्भरितायाः संविदः प्रतिमां तदाश्रयपीठिकां चाऽऽधारवतीं

[[१५]]

संविधातुं श्री-स्वामि-नारायणदर्शनसारसर्वस्वभूतं विशुद्धं श्री-स्वामि-नारायणदर्शनसारसङ्ग्रहः इत्याख्यप्रकरणग्रंथमारचितवता शास्त्रतात्पर्यप्रतिष्ठापनाचार्यपदवी समवापीति प्रभुसमर्चकं यतिवरमेनं सश्रद्धं प्रणमन् गायामि…

गुरुस्तुतिपरैवेयं परासहितवैखरी ।

इत्येवं जानतो मे वाक् का नः स्तौति गुरुं मुदा ॥ इति ।

सोऽयं श्रीकाश्यां वाराणस्यां संस्कृतविश्वविद्यालये श्रीमदाचार्यदेवस्वरूपमिश्र- श्रीरामानुजओझाप्रभृतिभ्यः सुमहद्गुरुभ्यो वेदान्तप्रमुखशास्त्रेषु अधीती १९७५ तमे ईशवीयसंवत्सरे मयाऽदृष्टमाहात्म्यात् साक्षात्कृतः । यदा विद्यार्थिविदुषा सदाचारसम्पुष्टेन गैरिकवस्त्रोष्णीषं बिभ्रताऽनेन प्रतियोगितामहोत्सवे तासु तासु सभासु विषयोपस्थापनं क्रियते स्म तदा सर्वशास्त्रविशारदैः समैर्गुरुजनैरपि निःशब्दं श्रोतृभिर्भूयते स्म । यावत्सु शास्त्रविषयेषु राष्ट्रस्तरीयं चयनमेकस्य प्रतियोगिनो नियमविहितं तावत्सु तदधिकेषु च विषयेषु चितस्याऽस्य शास्त्रार्थादिप्रतियोगितासु प्राथम्यप्राप्त्या प्रदेशस्वर्णपदकमपि समवाप्तस्य स्वस्वसंस्थातदधिष्ठितप्रदेशस्य यशःसुषमासंवर्धकस्य मुखमण्डले ब्रह्मवित्त्वं देदीप्यते स्म । तदेवं शैशवेऽपि महापुरुषलक्षणसंवलितस्याऽस्य संवत्सरत्रिकशोभि स्नेहसिक्तमभिभावकत्वं समवापि सौभाग्यशालिना मया ।

प्रायेण पञ्चत्रिंशद्वर्षेभ्यः पश्चाद् जातेऽप्यावयोः साम्मुख्ये यदा यतिप्रवरेणाऽनेन विदुषाऽऽचार्येण पदकदम्बकसंवादवाक्येनाऽहं प्रत्यभिज्ञातो न तु चक्षुषा तदा बालस्थविरदेहयोर्न मनागपि प्रत्यभिज्ञानगन्धः श्रीवाचस्पतिमिश्रोक्तिरियं गाढमनुभूताऽऽवाभ्याम् । आवयोः संवादमेलने श्रीकृष्णसुदाम्नोः प्रेम वीक्षन्ते सुजनाः । मुहुर्मुहुरेनं महापुरुषं स्तुवतो मे चेतः प्रसीदतितमाम् । तदहं श्रीप्रभूपासकगुरुमूर्त्यै पद्यपद्मगुच्छं समर्पयन् गायामि

अनेकजन्मार्जितपुण्यराशेः फलं त्वदीयस्मृतिगोचरत्वम् । लब्धस्य मे देव सदैव चेतो विलोकितुं वाञ्छति तेऽङ्घ्रिपद्मम् ॥ स्तुवन्नपि त्वामहमेमि सद्यः परामृताधायि चमत्कृतिन्ते ।

पुरोवाक्

[[१६]]

अथाप्यविच्छिन्नसुखैकधामन् याचे स्वभावं त्वदकृत्रिमं तम् ॥ त्वं पूर्णरूपोऽसि विभासि पूर्णः सर्वञ्च पूर्णेऽथ समत्र पूर्णम् । अतः स्फुटं मे स्तुतिवागपीयं व्यक्तिं दधात्येव हि पूर्णतायाः ॥

इति श्रीविश्वेश्वरप्रियः श्रीबिन्दुमाधवः प्रीयतां न ममेति शम् ।

प्रो. कमलेश झा, विद्यावाचस्पतिः

सङ्कायप्रमुखः संस्कृतविद्याधर्मविज्ञानसङ्कायः काशीहिन्दूविश्वविद्यालयः

वाराणसी - २२१००५ उत्तरप्रदेशः

त्रीशिका - तिसृणां वैखर्यादिवाणीनां ईशिका स्वामिनीत्यर्थः ।

[[१७]]