०६ पूर्वं वचः

वामे यस्य स्थिता राधा श्रीश्च यस्याऽस्ति वक्षसि । वृन्दावनविहारं तं श्रीकृष्णं हृदि चिन्तये ॥

स्वामिश्रीमाधवप्रियदासैर्विरचितं श्री-स्वामि-नारायणदर्शनसारभूतं श्री-स्वामि-नारायणदर्शनसारसङ्ग्रहः इतीमं ग्रन्थमामूलाऽग्रम् अहमपठिषम् । आनन्दतुन्दिलोऽभवम्, यतो हि स्वामिनारायणभगवतो मुखपद्मान्निःसृतस्याऽमृतसदृशस्य वचनस्य श्रवणेन पठनेन च कस्य वा पामरस्य, पण्डितस्य वाऽऽनन्दो न जायते ? अपि तु समेषामप्यानन्दो जञ्जनीति । यथा या स्वयं पद्मनाभस्य मुखपद्माद्विनिस्सृता इत्युक्तरीत्या भगवद्गीतावचसां श्रवणेन, पठनेन, पारायणेन च लोकाः सन्तृप्ता भवन्ति, तथैवैतद्ग्रन्थपठनेन आस्तिका लोका आनन्दतुन्दिला बोभुवति ।

श्री-स्वामि-नारायणभगवत्पादैः तत्तद्ग्रामं गत्वा सामान्यजनानां दुःखव्यसन- संकष्टपीडितानां कृते वचनामृतसिञ्चनं कृतम् । तेषामवतारसमये तादृशी स्थितिः आसीद्यत् धर्मस्याऽवनतिः, जनाः दुर्मार्गिणश्चेति । तदुक्तं श्रीमद्भगवद्विलासाख्ये ग्रन्थे स्वामिसुव्रतवल्लभदासेन

यदा क्षोणी क्षुब्धा पतितविहितैर्दुष्कृतिभरैः स्वशीर्ष्णि प्रारूढान् वहनबलहीना समभवत् । अधर्मालीढांस्तान् सदसदतुलार्तान्नविरतम् तदा संस्मारैषः स्ववचनमवेक्ष्या स्यार्दितवृषम् ।

इत्येवम्प्रकारेण भगवतः श्री-स्वामि-नारायणस्य जन्मोपक्रमः, अवतरण- निमित्तककृत्यञ्चोपवर्णितम् । धर्मसंस्थापनार्थाय सम्भवामि युगे युगे इति द्वापरे कृष्णाऽवतारे या प्रतिज्ञा कृता, तां स्मरन् पुनरवतरितुं भगवान्निश्चयञ्चकार।

[[११]]

एवं भगवान् श्री-स्वामि-नारायणः १८३७ विक्रमाब्दे (१७८१) चैत्रशुक्लनवम्यां तिथौ छपैया इति ग्रामे घनश्यामरूपेण भुव्यवतीर्णः । एतेषां जन्मसूचना पुराणेष्वपि उल्लिखिता दृश्यते । तद्यथा

मया कृष्णेन निहताः साऽर्जुनेन रणेषु ये । प्रवर्तयिष्यन्त्यसुरास्ते त्वधर्मं यदा क्षितौ ॥

धर्मदेवात्तदा भक्तावहं नारायणो मुनिः । जनिष्ये कोशले देशे भूमौ हि सामगो द्विजः ॥ मुनिशापान्नृतां प्राप्तान् ऋषिन्तांस्तथोद्धवम् । ततोऽविताऽसुरेभ्योऽहं सद्धर्मं स्थापयन्नज ॥

(वासु.मा.१८.४२ तः ४४)

भगवतः श्री-स्वामि-नारायणस्य तथा च महात्मनां साधुजनानां प्रत्यक्षपरमश्रेयस्कररूपसंवादात्मकोऽयं ग्रन्थः भगवतः श्री-स्वामि-नारायणस्य चतुर्भिः शिष्यैः श्रीमुक्तानन्दस्वामि-श्रीगोपालानन्दस्वामि-श्रीनित्यानन्दस्वामि- श्रीशुकानन्दस्वामिवर्यैः संकलितः । मूलतः गुर्जरभाषया निबद्धः पश्चात् श्रीशतानन्दस्वामिवर्यैः गीर्वाणवाण्या श्रीहरिवाक्यसुधासिन्धुः इति ग्रन्थरत्नं विरचितम् । लेखकैः स्वामिश्रीमाधवप्रियस्वामिभिः गुर्जरभाषया ग्रथितं ग्रन्थरत्नम् आधारीकृत्य गीर्वाणवाण्या श्री-स्वामि-नारायणदर्शनसारसङ्ग्रहः रचितः । सपरिशिष्ट प्रकरण-त्रयात्मकेऽस्मिन् ग्रन्थे प्रथमप्रकरणे वचनामृतग्रन्थस्य वैभवः प्रदर्शितः । तथा च श्री-स्वामि-नारायणः साक्षाद् भगवदवतारः, वचनामृतं नाम दर्शनशास्त्रम्, प्रश्नप्रतिवचनग्रन्थः, शिक्षापत्रीग्रन्थस्याऽनुपमत्वम्, अष्टौ सच्छास्त्राणीत्यादिविषयाः

सोपपत्तिकाः न्यरूपिषत । शिक्षापत्र्यां स्वयं भगवता श्री-स्वामि-नारायणेन अष्ट सच्छास्त्राणि ममेष्टानि इत्युल्लेखः कृतः । तद्यथा

वेदाश्च व्याससूत्राणि श्रीमद्भागवताभिधम् । पुराणं भारते तु श्रीविष्णोर्नामसहस्रकम् ॥ तथा श्रीभगवद्गीता नीतिश्च विदुरोदिता । श्रीवासुदेवमाहात्म्यं स्कान्दवैष्णवखण्डगम् ॥

पूर्वं वचः

[[१२]]

धर्मशास्त्रान्तर्गता च याज्ञवल्क्यऋषेः स्मृतिः ।

एतान्यष्ट ममेष्टानि सच्छास्त्राणि भवन्ति हि ॥ (शिक्षा. ८३-८५) द्वितीये प्रकरणे वेदान्तशास्त्रस्य प्रमेयं किम् ? तस्य लक्षणञ्च किम् ?

इत्यादयो विचाराः सम्यक्तया निरूपिताः । भगवद्रामानुजाचार्यैः चिदचिदीश्वराख्यो विशिष्टाद्वैतसिद्धान्तः प्रतिपादितः, तदेव मे मतमिति शिक्षापत्र्यां मतं विशिष्टाद्वैतं मे इत्युद्धोषितम् । तदुक्तं श्रीमद्भगवद्विलासकाव्ये

विशिष्टाद्वैतं मे मतमिति च यूयं प्रमनुथ

तथाष्टौ वेदादिप्रहितकरशास्त्राणि जगति । मदीयैः शिक्षापत्र्यनुदिनमधीत्याश्रितजनैः मुनिप्राचार्याद्यैस्तदनुसरणं कार्यमचलम् ॥ (१३८)

तृतीयप्रकरणे साधनस्य सम्यक्तया निरूपणं कृतमस्ति । श्री-स्वामि-नारायणीय- सम्प्रदायाऽनुसारी श्री-स्वामि-नारायणदर्शनसारसङ्ग्रहः लेखकैः स्वामिवर्यैः सम्यक् संशोध्य संदृब्धः । मतं विशिष्टाद्वैतं मे इत्युक्तरीत्या एषः सम्प्रदायो विशिष्टाद्वैतमतानुसारी वर्तते । अयं ग्रन्थस्तु वडतालसंस्थानद्वारा प्रकाश्यमानो वर्तते । पुरो वचः इत्यस्मिन् लेखनकार्ये मां न्ययुङ्क्त नैकशास्त्रनिष्णान्तः उ.वे.विद्वान् विद्वत्तल्लजो मम मित्रं भा.वं. रामप्रियः । इदं कैङ्कर्यं कर्तुमवकाशं दत्तवते रामप्रियाय नमोवाकं प्रशासे । सर्वेभ्यः हार्दाः धन्यवादाः । श्री-स्वामि-नारायणभगवत्पादारविन्दयोः प्रणामाः समर्प्यन्ते । इति ओम् ।

निजाश्रितानां सकलाऽर्तिहन्ता सधर्मभक्तेरवनं विधाता । दाता सुखानां मनसेप्सितानां तनोतु कृष्णोऽखिलमङ्गलं नः ॥

इति विद्वदनुचरः विद्वान् स्. नारायणः

साहित्योभयवेदान्तनिष्णातः निवृत्तविभागाऽध्यक्षः सं.सं.सं., मेलुकोट

[[१३]]