०५ द्विपदम्

मम भाग्योपचयात् विद्यागुरूणाम्, अध्यात्मगुरूणामाशिषा परमपूज्यानां माधवप्रियस्वामिनां मूलसंप्रदायानुसारिणः वचनामृतप्रबोधितस्य श्री-स्वामि-नारायणदर्शनसारसङ्ग्रहस्य दर्शनसौभाग्यं मया लब्धम् । एतदवलोकनार्थं मां स्मृतवन्तः श्रीमन्तो माधवप्रियस्वामिन इत्यत आदौ तेषां चरणनलिनयोर्मदीयां भक्तिपूतां नतिततिसमर्पणपुरस्सरं कृतज्ञताम् आविष्करोमि ।

तपोधनैः ज्ञानधनैश्च श्रीमाधवप्रियस्वामिभिः श्री-स्वामि-नारायणदर्शन- सारसङ्ग्रहा ख्यो ग्रन्थो लोककल्याणकामनया परब्रह्मस्वरूपस्य श्री-स्वामि-नारायणमहाप्रभोर्मुखान्निर्गतान्युपदेशवचनान्याविश्वं ख्यापयितुं च विरचित इति मोमुद्यते मे चेतः ।

ज्ञानामृतोपमे एतस्मिन् ग्रन्थे विषयविभाजनदिशा प्रकरणत्रयमस्ति । प्रथमप्रकरणं विभागद्वयोपबृंहितमस्ति ।

वचनामृतवैभवप्रकरणमित्याद्यम्, प्रमाणप्रकरणमिति द्वितीयम् । द्वितीयप्रकरणे प्रमेयप्रकरणस्य वर्णनं कृतम् । तृतीयप्रकरणे साधनप्रकरणस्योपस्थापनं कृतम् अवलोक्यते । अन्ते परिशिष्टभागे पञ्चानादिभेदनिरूपणं तथा च ब्रह्माऽक्षरादिशब्दानां मुख्यार्थविचारः कृतोऽस्ति ।

पूर्वभूमिकायां जगन्नियन्तुः साक्षात्परमात्मावतारभूतस्य श्री-स्वामि-नारायण- भगवतो विविधानां मनसाऽचिन्त्यानां वैभवस्वरूपाणां वर्णनं सहेतुकं श्रीस्वामिभिः स्फुटगिरा निरूपितम् ।

भारतीयदर्शनवाङ्मये यद्यपि सन्ति शास्त्राण्यनेकानि तथाऽपि श्री-स्वामि-नारायणसम्प्रदायानुसारं भगवतः श्री-स्वामि-नारायणस्य मुखसरोजनिस्सृता या शिक्षापत्री, नामोपदेशात्मकं वचनं तत्राऽष्टानां सच्छास्त्राणामुल्लेखो वर्तते । तानि च शास्त्राण्येवंभूतानि सन्ति - वेदः, ब्रह्मसूत्राणि, श्रीमद्भागवतपुराणम्,

[[८]]

श्रीविष्णुसहस्रनामस्तोत्रम्, श्रीमद्भगवद्गीता, विदुरनीतिः, श्रीवासुदेवमाहात्म्यम्, याज्ञवल्क्यस्मृतिश्च इत्येतान्यष्टविधानि शास्त्राणि परमप्रमाणत्वेन स्वीकृतानि सन्ति । एतदतिरिच्य सम्प्रदायेऽस्मिन् पञ्चरात्रशास्त्रमपि प्रमाणत्वेनाऽङ्गीकृतमस्ति । इदं पञ्चरात्रशास्त्रं भगवान् श्रीवासुदेवनारायणः संकर्षणाय उपदिष्टवान् । रात्रमिति पदमत्र पारिभाषिकम् । अस्याऽर्थस्तु ज्ञानाऽऽलोक इति । एतस्यैव पञ्चरात्रशास्त्रस्य कालान्तरे नारदीयपञ्चरात्रशास्त्ररूपेण प्रसिद्धिः ।

श्री-स्वामि-नारायणमहाप्रभोर्वचनामृतग्रन्थः सम्पूर्णरूपेण वैदिकदर्शनमुपजीव्य राराज्यते इति नाऽतिशयोक्तिः । दर्शनवाङ्मये धर्ममीमांसाज्ञानमीमांसेति प्राधान्येन अंशद्वयमस्ति । धर्ममीमांसायां सदाचारादिविषयाणां वर्णनम्, ज्ञानमीमासायां ज्ञानोपासनादिविषयाणां वर्णनं कृतमस्ति । मानवजीवनस्य सर्वोच्चं लक्ष्यं भवति परमपुरुषार्थस्य प्राप्तिरिति । एतादृशस्य प्रकृष्टफलस्य प्राप्तये धर्ममीमांसा तथा ज्ञानमीमांसा नितरामुपकरोति । एतदुभयं श्री-स्वामि-नारायणभगवतो मुखाम्बुज- निस्सृतानि वचनामृतानि दर्शनशास्त्रोपबृंहितानि सन्ति ।

शिक्षापत्रीग्रन्थ आचारसंहितासन्दर्भमुपदिशति । वचनामृतग्रन्थस्तु ज्ञानोपासनं निर्दिशति । मानवानां कृते मुख्यं लक्ष्यं प्राप्तुं कर्ममार्गः, भक्तिमार्गः, ज्ञानमार्गश्चेत्येते त्रयो मार्गाः सहायका भवन्ति । स्वामिनारायणप्रभोः शिक्षापत्र्यां वचनामृतग्रन्थे चोपर्युक्ता मार्गाः स्पष्टतया संसूचिताः । एतेषु कमपि पन्थानमनुसृत्य मानवः स्वाभीष्टं लक्ष्यं विन्दते । एवञ्च दर्शनशास्त्रोक्ता ये उपायाः, त एव श्री-स्वामि-नारायणदर्शने उपदिष्टाः सन्ति इति निश्चप्रचम् ।

नानामुनीनां नानामतमिति वचनमुररीकृत्य यद्यपि दर्शनान्यनेकानि सन्ति । अथवा गमनमार्गा भिन्ना भवन्ति, किन्तु गम्यन्त्वेकमेव । एवमेव श्री-स्वामि-नारायण- भगवतो दर्शनस्य परमं लक्ष्यन्तु भगवद्धामप्राप्तिरिति ।

भारतीयदर्शनादीनि शास्त्राणि यद्यपि भिन्नकर्तृकाणि तथापि परस्परं दर्शनानि साक्षात् परोक्षतया प्रभावोत्पादकानि भवन्ति । प्रकृते श्री-स्वामि-नारायणसम्प्रदाये वचनामृतग्रन्थः साक्षात् परोक्षेण वाऽष्टशास्त्रैः प्रभावितो वर्तते । एवञ्च यथा जगद्गुरोः श्रीकृष्णस्य मुखान्निर्गता श्रीमद्भगवद्गीता भगवतो वासुदेवस्य दर्शनम्, तथैव श्री-स्वामि-नारायणभगवतो मुखाम्बुजनिर्गतं वचनामृतं सर्वदर्शनशास्त्राणां समन्वयरूपं वर्तते । एतस्य दर्शनाऽमृतस्य पानेनाऽऽत्मतृप्तो भवति जीव इति ।

[[९]]

श्री-स्वामि-नारायणदर्शनसारसङ्ग्रहग्रन्थे दर्शनशास्त्रेषु निरूपितानां जीवेशमायाब्रह्मपरब्रह्मादि-विविधप्रमेयाणां स्वरूपं महत्त्वञ्च वचनामृतग्रन्थोक्तं तथ्यमाश्रित्य श्रुतिस्मृति-तर्कप्रस्थानं प्रमाणत्वेन स्वीकृत्य विद्याविचक्षणैरध्यात्मशास्त्रकाननपञ्चाननैः पूज्यश्रीमाधवप्रियस्वामिभिः प्रमेयप्रकरणे सुनिरूपितमस्ति । श्री-स्वामि-नारायणदर्शनसारसङ्ग्रहग्रन्थस्य साधनप्रकरणे परमादरणीयैः स्वामिभिः मोक्षाऽनुकूलानां सप्तप्रमुखसाधनानां चर्चा विहिता । तत्र विशिष्य साक्षात् श्री-स्वामि-नारायणप्रभोर्मुखकमलनिस्सृतानां धर्मभक्तिवैराग्यज्ञानाख्यानां साधनानामुपस्थापनं कृतम् । एतेषु साधनेषु भक्तिरेव गरीयसी भवति । एतेषां साधनानां परस्परमुपकार्योपकारकभावसम्बन्धोऽस्ति । भक्तिसहितान्येवेतरसाधनानि परमपुरुषार्थं साधयन्तीति । यथा दीपः, तैलम्, वर्तिका च सम्भूय नाम परस्परसहयोगेन प्रकाशाख्यं फलं जनयन्ति तथैव धर्मः, भक्तिः, वैराग्यम्, ज्ञानञ्च मिलित्वा भगवतः सालोक्यम्, सायुज्यम्, सामीप्यम्, सारूप्यं वा प्रापणे सहायकानि भवन्तीति ।

वचनामृतग्रन्थे उपासनातत्त्वस्याऽत्यन्तं महत्त्वमस्ति । मानवः चरमपुरुषार्थं धर्मभक्तिवैराग्यज्ञानोपासनादिभिः प्राप्तुमर्हति । सर्वतोऽधिकतया भगवदनुग्रह एवाऽत्र फलश्रुतिं प्रददाति । उक्तमपि शास्त्रे यथा ईश्वरानुग्रहात्पुंसामद्वैतवासना तथैव श्री-स्वामि-नारायणमहाप्रभोः कृपां विना सत्स्वपि साधनेषु चरमं परमञ्च लक्ष्यं दुर्लभमेव । भारतीयदर्शनप्रस्थानान्यपीदमेव तत्त्वमुपपादयन्ति ।

एवञ्च परमपूज्यैरध्यात्मज्ञानधनैः श्रीमाधवप्रियस्वामिभिः सकललोकहिताय विरचितोऽयं श्री-स्वामि-नारायणदर्शनसारसङ्ग्रहाख्यग्रन्थो दर्शनप्रपञ्चे राराज्यमानः पतितोद्धारको भवत्विति श्री-स्वामि-नारायणभगवन्तं सम्प्रार्थ्य विरमामि ।

जयतु भारतम् । जयतु श्री-स्वामि-नारायणो भगवान् ।

भावकः

प्रो. सुकान्तः कु. सेनापतिः

निर्देशकः

मुक्तस्वाध्यायपीठम्

केन्द्रिय विश्वविद्यालयः, नवदेहली

द्विपदम्

[[१०]]