०४ शुभाशंसनम्

भगवता श्री-स्वामि-नारायणेन गद्यपद्यात्मकेन संस्कृतेन भारतीयदर्शनशास्त्राणां धर्मशास्त्राणाञ्च सारभूतस्वरूपा “शिक्षापत्री” प्रणीता । किञ्च तस्यैव मुखकमलात् “वचनामृतम्” इत्याख्यो मूलतो गुर्जरभाषानिबद्धः अमृतकल्पवचोनिचयः समुद्गत इति सम्पूर्णमानवतायाः कल्याणार्थं तस्यैव परब्रह्मपुरुषोत्तमनारायणस्य भगवतः श्री-स्वामि-नारायणस्य महानेषोऽनुग्रहः । अतीव गूढरहस्यभूतानामाध्यात्मिकतत्त्वानां प्रश्नोत्तरशैल्या जीवत्सरलदृष्टान्तैरुपस्थापनद्वारैषो वचनामृतग्रन्थो गुर्जरभाषया प्रणीत आद्य आध्यात्मिकरहस्यपूर्णो ग्रन्थराज इति प्रसिद्धिमवाप्तवानस्ति । तस्मिन् वचनामृते प्रबोधितं मूलसम्प्रदायानुसारिणं श्री-स्वामि-नारायणदर्शनसारसङ्ग्रहं संस्कृतभाषयोपनिबद्धवन्तं विद्यावाचस्पतिस्वामिश्रीमाधवप्रियदासमहोदयं सादरं सप्रणामम् अभिनन्दनञ्च व्याहृत्य परमो मोदोऽनुभूयते मया ।

श्रीमद्भगवद्गीतायां यथा श्रीभगवानाह -

“सर्वस्य चाऽहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च”

(गीता १५.१५)

किञ्च “ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति” (गीता १८.६१) तथा शिक्षापत्र्यामीश्वरं निरूपयन् भगवान् श्री-स्वामि-नारायणो वदति -

हृदये जीववज्जीवे योऽन्तर्यामितया स्थितः ॥

ज्ञेयः स्वतन्त्र ईशोऽसौ सर्वकर्मफलप्रदः ॥ (शिक्षा. १०७)

एवञ्च श्रीकृष्णरूपेण आराध्यस्येश्वरस्य पुरुषोत्तमत्वं परब्रह्मत्वं सर्वाऽऽविर्भावकारणत्वञ्च तत्रोररीकृतम् अस्ति -

स श्रीकृष्णः परं ब्रह्म भगवान् पुरुषोत्तमः ॥

उपास्य इष्टदेवो नः सर्वाऽऽविर्भावकारणम् ॥ (शिक्षा. १०८)

[[५]]

सर्वव्यापी भगवान् परमेश्वरः यद्यपि निर्गुणो निराकार इति सर्वविदितमिदं तथ्यं तथाऽपि सः निजाऽक्षरपदे सदा साकाररूपः सन् विराजते । किन्तु नराकृतिचेष्टो भगवान् कैवल्यरूपो निर्गुण इति विज्ञेयः । परमात्मनस्तस्य संकल्पविशिष्टवेषेण साक्षात्सम्बन्धेन मायाऽपि अक्षरधामतुल्या निर्गुणा भवतीत्यतो भगवतो मायायां प्रवेशे सत्यपि तस्मिन्नशुद्धत्वभयं क्वचिदपि नाऽस्तीत्यनुशास्ति भगवान् श्री-स्वामि-नारायणः ।

एवमेव ब्रह्मपरब्रह्मणोर्भेदं निरूप्याऽत्र परब्रह्मणः स्वामित्वमुपास्यत्वं वा, अथ च ब्रह्मणः सेवकत्वम् उपासकत्वं साधितमस्ति । भगवतः श्री-स्वामि-नारायणस्य वचनामृते सर्वशास्त्रगतं सारं पुरस्कृत्य सृष्ट्युत्पत्तिक्रमः निरूपितः । तत्र महापुरुष- महामायेतिरूपद्वयमिदं प्रकृतिपुरुषयुगलमिति विमृष्टम् ।

शिक्षापत्र्यां भागवतधर्मस्य संरक्षणसम्पोषणसंवर्धनान्युद्दिश्य भुव्यवतारं साऽनुग्रहं स्वीकृतवता भगवता श्री-स्वामि-नारायणेन शिक्षापत्र्यां धर्मज्ञानवैराग्य- भक्त्याख्यानि चत्वारि साधनान्युल्लिख्य नैकेषु वचनामृतेष्वेतेषां साधनानामतीव मनोरमं व्याख्यानमुपन्यस्तम् । तत्राऽपि साधनानामेतेषां परस्परं सहकारित्वञ्च प्रदर्शितम् ।

वचनामृते विविधैर्दृष्टान्तैः सह भगवान् श्री-स्वामि-नारायण उपासनाया विशिष्टं महिमानं बोधयति । तदतिरिच्य पातिव्रत्यधर्मविवेकं प्रशंसति, भगवदाश्रयमाहात्म्यं चोररीकरोति ।

एवंविधो भगवतः श्री-स्वामि-नारायणस्य वचोरूपोऽमृतकुम्भोऽयं वचनामृत- ग्रन्थः । वस्तुतो ग्रन्थविशेषोऽयं न केवलं पाठविषयकः पाठ्यक्रमाऽन्तर्भूततासिद्धये न स्यात्, अपि तु जीवनदर्शनत आरभ्य पदार्थाऽवगमनम् आनन्दाऽनुभूतिश्चेति किञ्चित्परमं लक्ष्यमेतेन साधनीयमस्ति ।

अत एव श्री-स्वामि-नारायणदर्शनसारसङ्ग्रहः इति प्रकाश्यमाने ग्रन्थेऽस्मिन् विद्यावाचस्पतिना श्रीमता स्वामिश्रीमाधवप्रियदासवर्येण एतत्सर्वं मूलसम्प्रदायाऽनुसारिणीं व्याख्यां पुरस्कृत्य मूलशिक्षापत्र्याधारेण वचनामृतेति ग्रन्थविवेचनं मनसि निधाय विहितमस्तीति महानयं प्रमोदावहप्रसङ्गो विद्यते ।

शुभाशंसनम्

[[६]]

ग्रन्थविशेषेणाऽनेन वास्तविकतया सर्वेऽपि सहृदया भूयो भूय उपकृता दृढीभूताश्च भविष्यन्त्येव । विविधशिक्षणसंस्थासु अधीयानाः छात्रा अपि भूयो लाभान्विता भविष्यन्ति ।

डो. श्रीमाधवप्रियदासवर्या एतस्य कार्यस्य कृते भूयो भूय अभिनन्द्यन्ते । भूरिशो व्यस्ततायां सत्यामपि भगवतः श्री-स्वामि-नारायणस्य मूलदार्शनिकतत्त्वानां सम्यक्प्रचारप्रसारार्थं श्री-स्वामि-नारायणदर्शनसारसङ्ग्रहमिमं विरच्य मान्यस्वामिवर्येण समाजस्य राष्ट्रस्य च विशिष्ट उपकारः कृतोऽस्ति । तादृशं विशिष्टं दार्शनिकं सारस्वतञ्च कार्यं स्वामिवर्यो निरन्तरं साधयत्विति परमेश्वरः श्रीसोमनाथः सप्रश्रयं विनिवेद्यते ।

गोपबन्धु मिश्रः

माननीयः कुलपतिवर्यः श्रीसोमनाथसंस्कृतविश्वविद्यालयः, वेरावलम्

[[७]]