वचनामृतं वचनामृतोपमम् । वचनामृतमिदं न हि कस्यचिच्छाब्दिकस्य शाब्दिकगुम्फनं वा नैयायिकस्याऽनुमितेर्वा वेदान्तिनो वादप्रवादस्य प्रतिफलम् । बौद्धिकव्यायामं विधाय जातस्य प्रतिवादिभयङ्करस्य पण्डितस्य प्रातिभप्रतिफलरूपोऽयं ग्रन्थो नाऽस्ति ।
कन्दमूलादि भुक्त्वा जपतपोव्रताऽनुष्ठानादिप्रभावाऽतिशयात् जातानां केषाञ्चिदात्मद्रष्टॄणां योगिनामदृष्टपूर्वा धिषणाचमत्कृतिरूपो नह्ययं वचनामृतग्रन्थः । साक्षात्कृतपरमात्मनां परमहंसानां वाचोऽपि न हीमानि वचोऽमृतानि सन्ति, अपि त्वेतानि परब्रह्मपुरुषोत्तमस्य परावाचः सन्ति ।
ऐहिकसाहित्यवाङ्मयाऽवकाशे नैके ध्रुवायमाणग्रन्था रचयाम्बभूविरे, यत्र परमात्मनोऽपरोक्षाऽनुभूतेश्छाया अवलोक्यते । साम्प्रदायिकसाहित्ये प्रत्यक्षाऽनुभव- भरिता वाण्यो भवन्ति, परमियन्त्वानन्दकन्दस्य श्रीसहजानन्दमहाप्रभोर्हृदय- सरोजात्तेजःपुञ्जप्रवाहतया विनिस्सृता परावाक् ।
वचनामृतग्रन्थेषूल्लिखितं तत्तत्तिथिदिनाङ्कस्थलनिर्देशादि खलु वैश्विक- साहित्यैतिह्ये कश्चिदपूर्व एवाऽध्वाऽस्ति । यदि कश्चन साहित्यतत्त्वानुसन्धित्सुः ऐतिह्यग्रन्थस्य चरमपुटान्यलोकयेत्तर्ह्यवश्यं सोऽभिधास्यति यद्वचनामृतं गुर्जर- साहित्यस्य कश्चिदपूर्वमेव गौरवम् ।
आध्यात्मिकसाहित्यक्षिरोदधेस्सारभूतं नवनीतमस्ति वचनामृतम् । वचोऽमृतनवनीतमेतद्विना मन्थनं लब्धमत एव श्रीहरेरनुग्रहवाक्यसुधासिन्धुः ।
साहित्यदृष्ट्या गुर्जरगिरायारनर्घसाहित्ये गद्यपद्योभयविधग्रन्थेषु श्री-स्वामि-नारायणीयसम्प्रदायस्याऽवदानम् अविस्मृत्यमिति साहित्यविदो मुक्तकण्ठेन सङ्गिरन्ते । तत्राऽपि विभिन्नवयोवतां नानास्तरीयाणां साधकानां कृते वचनामृतं सरलं तथेदमित्थन्तया मार्गदर्शनं करोति ।
[[२]]
वचनामृतन्नाम साध्यसाधकानां काचित्स्फूर्तिमती संगोष्ठी । वचनामृतन्नाम गुर्जरभाषाया आद्यो गद्यग्रन्थराट् । वचनामृतन्नाम दुर्गमसाधनाऽध्वनः प्राञ्जलः याथातथ्योपदेशः । वचनामृतन्नाम प्रज्ञातेजोधरित्री शब्दशक्तिः । वचनामृतन्नाम गुर्जरगद्यसाफल्यस्याऽद्यं शृङ्गम् ।
आलङ्कारिकभाषया यद्यभिधातव्यन्तर्हीदं सुवचञ्यत् नवविंशशताब्दस्य गुर्जरगीता नाम वचनामृतम् । आध्यात्मिकसाधनामार्गस्य पाथेयमिदम् । मायिकचक्रव्यूहविभेदनकलापाठको गुरुरस्ति ग्रन्थराडयम् । साधकानामनेक- समस्यानां केवलैका कुञ्चिका वचनामृतम् । यस्य निःश्वसितं वेदाः, तस्यैव वाङ्मयस्वरूपं वचनामृतम् । शब्दब्रह्मपरब्रह्मोभयस्यैकात्म्यं नाम वचनामृतम् । वचनामृतानि शब्दैरभिव्यज्यन्त इत्यतः शब्दब्रह्म त्वस्त्येव, परं ते शब्दाः वृत्तालयविहारिणः श्रीहरिकृष्णमहाराजस्य सत्त्वाच्छिक्षापत्रीवत् भगवतोऽभिन्नानीति वक्तव्ये न काचिदतिशयोक्तिः । अत एव वचनामृतनिष्णात उभयब्रह्मनिष्णातो भवतीत्यत्र न काचित्संशीतिः । तस्मादेव हेतोः वचोऽमृतानां पठनमनननिदिध्यासनादि साक्षात्कारयितुं शक्नुयात् ।
अन्तःकरणग्रन्थीनामुच्छेदकोऽयं वचनामृतग्रन्थः । शाब्दिकदृशा यथाऽयं ग्रन्थः सरलस्तथैव साधनादृष्ट्या क्लिष्टोऽप्यस्ति । श्री-स्वामि-नारायणीयसम्प्रदाये साक्षरनिरक्षरास्समेऽप्येतद्ग्रन्थाऽभ्यसनशीला दृश्यन्ते । किञ्चाऽभ्यस्यतां साधकानामुपरि श्रीहरेरनुग्रहोपलब्धिसूचकाः प्रसङ्गा नैकेऽभूवन् ।
अद्यत्वे तत्त्वविविदिषयाऽध्येतुकामानां बौद्धिकानां कृते या भूमिकाऽपेक्ष्यते स्म, सा खलु परमपूज्यानां सद्गुरूणां शास्त्रिश्रीमाधवप्रियदासजीस्वामिचरणानां सारस्वतलेखन्या सम्पूरिता । परिव्राजकैः श्रीचरणैः शास्त्रीयमर्यादयाऽऽवश्यक- भूमिकाया निर्मितिरकारि । शास्त्रिणः स्वामिनः श्रीमाधवप्रियदासजीमहाभागाः सिद्धहस्ता लेखकवर्याः सन्ति, यैरनेके ग्रन्थाः प्राणीयन्त । वचनामृतभूमिकेयं तत्त्वजिज्ञासूनामध्येतॄणां कृते मूलस्तम्भायमानं मार्गदर्शनं विधास्यतीत्यत्र न किञ्चिदपि संशीतिपदम् ।
दुर्गपुरीयमध्यप्रकरणीयाऽष्टपञ्चाशवचोऽमृततरङ्गाऽऽधारेण यथा महामुनि- श्रीमुक्तानन्दादयः परमहंसाः यां साहित्यनिर्मितिपरम्परां समारभन्त, सा च
[[३]]
श्रीमाधवप्रियदासजीस्वामिचरणसन्निभैः सद्भिरक्षुण्णतया परिपाल्यमानाऽस्ति इत्यतोऽस्मद्वृत्तालयसंस्था हृदाऽऽनन्दातिशयमभिव्यनक्ति ।
महदानन्दस्य विषयो यदयं ग्रन्थस्तु श्रीसोमनाथसंस्कृतविश्वविद्यालयस्य दर्शनविभागे स्वामिनारायणवेदान्ते शास्त्रिकक्ष्यायां पाठ्यक्रमे महतादरेण स्थापितः। श्री-स्वामि-नारायणीयमूलभूतसिद्धान्तान् अवबोद्धुम् उद्युक्तानां जिज्ञासूनां कृते तु ग्रन्थोऽयं महदुपकारको भविष्यतीति मे दृढविश्वासः । परमादरणीयैः माधवप्रियस्वामिवर्यैः सम्प्रदायस्य मूलभूतसिद्धान्ताः एतद् ग्रंथमाध्यमेन प्रकाशिताः इत्येतदर्थं स्वामिनारायणसम्प्रदायः पूज्यानां स्वामिचरणानां सदैव ऋणी भवेदिति मदीया हार्दाऽभ्यर्थनाऽस्ति ।
विद्यावारिधिः श्रीसंतवल्लभदासजीस्वामी वृत्तालयः
प्रकाशकीयम्
[[४]]