०२ समर्पणम्

वचनामृतोद्गातुः भगवतः श्री-स्वामि-नारायणस्य चरणाऽरविन्दयोः॥

वाणी मङ्गलरूपिणी च हसितं यस्याऽस्ति वै मङ्गलम्
नेत्रे मङ्गलदे च दोर्विलसितं नॄणां परं मङ्गलम् ॥
वक्त्रं मङ्गलकृच्च पादचलितं यस्याऽखिलं मङ्गलम्
सोऽयं मङ्गलमूर्तिराशु जगतो नित्यं क्रियान् मङ्गलम् ॥

सद्ब्रह्मात्मादिशब्दैः श्रुतिषु निगदितश्चेतनाऽचेतनात्मा
स्वामी नारायणो यः स्वतनुचिदचितोः सौक्ष्म्यतः सोऽविभक्तः ।
सङ्कल्प्याहं बहु स्यामिति समुदभवत् सत्त्यदात्मा+++(=??)+++ विभक्तो
विश्वत्राणाय भूयादनवधिमहिमा नित्यनिर्धूतदोषः ॥