॥ श्री हरिकृष्ण ॥
॥ श्री स्वामिनारायणो विजयतेतराम् ॥
सनातन धर्मधुरंधर आचार्य श्री १००८ श्री राकेशप्रसादजी महाराजश्री श्री लक्ष्मीनारायण देव दक्षिण देश गादी
संस्थान : वडताल - पीन: ३८७ ३७५
तीर्थक्षेत्र
आशीर्वादपत्रम्
ता. १२-१०-२०१७ -
वृत्तालयनिवासिनः श्रीलक्ष्मीनारायणदेवस्य तथा आराध्येष्टदेवस्य श्रीहरिकृष्णमहाराजस्य चरणाऽरविन्दसन्निधेः लिखतः वृत्तालयवासिश्रीलक्ष्मीनारायणदेवपीठाधिपतेः परमपूज्यस्य धर्मधुरन्धरस्य १००८ आचार्यवर्यस्य श्रीराकेशप्रसादजीमहाराजस्य शुभाशीर्वादपूर्वकं जय श्री-स्वामि-नारायणः ।
अस्माकं सम्प्रदाये वचनामृतग्रन्थस्य महत्त्वपूर्णं स्थानमस्ति । अस्मत्स्वामिनारायणसम्प्रदायस्य महत्तां गाम्भीर्यं चाऽवगन्तुमस्य वचनामृतग्रन्थस्याऽभ्यासोऽत्यावश्यकोऽस्ति । किञ्चाऽस्य वचनामृताऽभ्यासस्य पूर्वं तद्भूमिकायाः ज्ञानंत्वधिकमहत्त्वपूर्णमस्ति । पूर्वकाले वृत्तालयधामस्थेनविद्वद्भूषणेन अक्षरनिवासिना शास्त्रिश्रीहरिजीवनदासस्वामिना वचनामृतस्याऽतिगूढार्थरूपा भूमिका विरचिता । किन्त्विदानीन्तने वर्तमान सम्प्रदायस्य वरिष्ठं विद्वद्वर्यं शास्त्रिणं श्रीमाधवप्रियदासस्वामिनंहार्दमभिनन्दनं वयं पाठयामः, यतो हि तेन स्वामिवर्येण सनातनपरम्पराया अनुसन्धानेन सह श्री-स्वामि-नारायणदर्शनसारसङ्ग्रहः इति नामकः संस्कृतभाषयो- पनिबद्धः ग्रन्थरत्नः निर्मितः ।
कस्यचिदपि तत्त्वदर्शनजिज्ञासोरभ्यसिषोश्च स्वामिनारायणसम्प्रदायस्य तत्त्वदर्शनमवगन्तुं ग्रन्थोऽयं महदुपकारी भविष्यति इति वयं दृढंविश्वसिमः । अनेन शास्त्रिवर्येण देशविदेशेषु सत्सङ्गविचरणं कृत्वा श्रीहरेः सर्वजीवहितावहसन्देशं सर्वजनेषु प्रवर्तयितुं यया रीत्या प्रयासः कृतः, स त्वादर्शरूपोऽस्ति स्थास्यति च । किञ्च शास्त्रिस्वामिनः लेखनकार्येणैतादृशमुत्कृष्टं साहित्यं भविष्यत्कालेऽपि सम्प्रदास्य कृते सम्प्राप्नुयादिति वयं शुभाभिभावनां प्रकटयामः ।
पुस्तकस्याऽस्य प्रकाशने सर्वप्रकारैः सहकारकर्तॄणां मङ्गलं भवेदिति वृत्तालयविहारिणः श्रीहरिकृष्णमहाराजस्य चरणकमलयोः प्रार्थनया सहाऽस्माकंहार्दभावेन जय श्री-स्वामि-नारायणः। (n)
श्री निलकण्ठ ! हरिकृष्ण ! हरे ! दयालो, स्वामिन् !
परात्पर-वराक्षरधामवासिन् ।
हरिप्रसाद ! पुरुषोत्तम ! धर्मपुत्र ! नारायणं सुखनिधिप्रणमाम्यह त्वाम् ॥
[[१]]