११८

श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि रङ्गमहोलमुत्तमम् ।
सभामहोलमुत्कृष्टं वासमहोलमित्यपि ॥१ ॥ शय्यामहोलमुच्छ्रैष्ठ्यं महोलं मन्दिराभिधम् ।
स्नानमहोलनैर्मल्यं खेलमहोलमित्यपि ॥२ ॥ शान्तिमहोलसौख्यं च शृङ्गारार्हमहोलकम् ।
महोलं भोजनाख्यं च पूजामहोलमित्यपि ॥३ ॥ सर्वागममहोलं च भक्तसेवामहोलकम् ।
तथा रहस्यमुक्तानीकृतसेवामहोलकम् ॥४ ॥ पट्टाङ्गनामहामुक्तानिकामहोलकं तथा ।
अन्तःपुरमहोलं च षोडशेतिमहोलकान् ॥५ ॥ ब्रह्मप्रियाद्या मुक्ताश्च व्यपश्यन् बहुविस्तरान् ।
लक्षयोजनविस्तारान् प्रत्येकं तान् महोलकान् ॥६ ॥ रङ्गमहोलसञ्ज्ञो यो महोलः परमात्मनः ।
अनादिश्रीकृष्णनारायणस्य सन्निवासवान् ॥७ ॥ सर्वो दिव्यसुवर्णात्मा सच्चिदानन्दतैजसः ।
सर्वर्द्धिसिद्धिसामर्थ्यासङ्ख्यैश्वर्यादिसम्भृतः ॥८ ॥ सर्वोर्ध्वध्वजसंशोभद्वृत्तमण्डपराजितः ।
असङ्ख्यस्तम्भशोभाभिः रमणीयमनोहरः ॥९ ॥ कल्पलताऽक्षयपात्रचिन्तामण्यादिकोणकः ।
सर्वभोग्यादिसंराजत्पार्श्वशालादिराजितः ॥4.118.१० ॥ असङ्ख्यतोरणालम्बिकम्मानिकातिसुन्दरः ।
दिव्यातिदिव्यतेजोभिर्हरेः समन्ततः शुभः ॥११ ॥ मध्ये ब्रह्मासनाढ्यश्च वितानछत्रचामरैः ।
दिव्यदेवतामुक्ताभिः पुष्पस्रगाभिवर्षितः ॥१ २॥ यत्तेजांसि हरेः सिंहासनतेजोभवानि वै ।
तत्तेजांसि प्रसरन्ति चान्यमहोलकेषु ह ॥१३ ॥ अन्यमहोलतेजांसि वर्तुलानि प्रयान्ति च ।
बहिर्दुर्गाभिसम्मुखान्यतीव सर्वसृष्टिषु ॥१४॥ ब्रह्मासनेऽनादिकृष्णनारायणो विराजते ।
परेश्वरो मूलरूपः सर्वस्वामी सदीश्वरः ॥१ ५॥ सर्वाभरणभूषश्च सर्वसुगन्धसम्भृतः ।
सर्वरूपातिरूपाढ्यः सुन्दरेभ्योऽपि सुन्दरः ॥१ ६॥ युवाऽऽषोडशवर्षोनः सर्वकान्तामनोहरः ।
सर्वशृङ्गारशोभाढ्यः सर्वेषां हृदयङ्गमः ॥१ ७॥ सहस्रस्तम्भयुक्सौम्यब्रह्मासने विराजितः ।
शतसोपानोर्ध्वपीठे समासीनः स कोमले ॥१८॥ सर्वपूजोपहाराद्यैरर्चितो मुक्तकोटिभिः ।
तमेनं परमात्मानं कान्तं परमपूरुषम् ॥१ ९॥ दृष्ट्वाऽऽनन्दं ययुः सर्वरहस्यमुक्तकोटयः ।
रङ्गमहोले मुक्तास्ते व्यपश्यन् स्वान् हि कोटिशः ॥4.118.२० ॥ दिव्यरत्नगतरूपान् नैजानसङ्ख्यकानपि ।
भित्तौ ते च ततोऽपश्यन् धामसृष्टीः समस्तिकाः ॥२१ ॥ चरुष्वपि ततोऽपश्यन्नीश्वराखिलसर्जनम् ।
पट्टिकासु ततोऽपश्यन् ब्रह्माण्डानि समस्ततः ॥२२॥ एवंविधं परं साक्षादनुभवं हि लेभिरे ।
कोणके कोणके सर्वसृष्टिव्यूहा भवन्ति हि ॥२३॥ तलके तलके तत्र सर्वधामानि सन्ति हि ।
फलके फलके सर्वब्रह्माण्डानि भवन्ति हि ॥२४॥ अनन्ताराधिकास्तत्राऽसङ्ख्याश्च कमलास्तथा ।
असङ्ख्याश्चापि माणिक्यः पद्मावत्योऽप्यसङ्ख्यकाः ॥२५॥ प्रिया अनन्तकास्तत्र लक्ष्म्योऽप्यनन्तका ह्यपि ।
रमा अनन्तकाश्चापि श्रियः सन्त्यप्यनन्तकाः ॥२६॥ रङ्गमहोलमध्ये श्रीकृष्णनारायणप्रियाः ।
कृष्णनारायणरूपप्रतिमा मुक्तविग्रहाः ॥२७॥ सर्वाः पुंरूपिण्य इति सेवन्ते कान्तमुत्सुकाः ।
रहस्यरूपधारिण्यः सेवने शयनालये ॥२८॥ पुंरूपप्रधारिण्यस्ताः सेवन्ते रङ्गमण्डपे ।
ब्रह्मप्रिया असङ्ख्याश्चाऽप्यसङ्ख्याश्च हरिप्रियाः ॥२९॥ कार्ष्ण्योऽप्यनन्ताः सेवन्ते हरिण्यो हरिमच्युतम् ।
नारायण्योऽप्यसङ्ख्याश्च माधव्योऽपि तथाविधाः ॥4.118.३०॥ लीलाश्चापि तथा वासुदेव्यश्चापि ह्यसङ्ख्यकाः ।
पद्माश्चापि च पद्मिन्यस्तुलस्यश्चाप्यसङ्ख्यकाः ॥३१ ॥ शारदाश्च सरस्वत्यो गङ्गा यम्योऽप्यसङ्ख्यकाः ।
पुम्मुक्ताख्याः प्रसेवन्ते कान्तं कृष्णं नरायणम् ॥३२॥ पूजयन्ति प्रभुं कान्तं रामयन्ति रमोत्तमाः ।
प्रेङ्खायां श्रीहरिमान्दोलयन्ति गीतिकोविदाः ॥३३॥ शृङ्गारयन्ति कमला स्वामिश्रीकृष्णमीश्वरम् ।
संवाहयन्ति चाङ्गानि हरिण्यश्च हिरण्यभाः ॥३४॥ भोजयन्ति प्रभुं सर्वरस्यभोजनपानकैः ।
सुखयन्ति कृपानाथं सर्वाश्लेषप्रदानकैः ॥३५॥ सुखं गृह्णन्ति कान्तात् ता रहस्यमन्दिरश्रिताः ।
पाययन्ति हरिं दिव्यशर्करैलार्ककेसरैः ॥३६॥ मिश्रितानि सुदुग्धानि कामधेनूद्भवानि वै ।
एवंविधे महारङ्गमहोले हीरकोत्तमाः ॥३७॥ विद्यन्तेऽसङ्ख्यरत्नानि स्वर्णहाराश्च शोभनाः ।
तैस्तैः कान्तं भूषयन्ति कान्ताः श्रीकान्तवल्लभम् ॥३८॥ तत्र ब्रह्मप्रियाद्यास्ताः स्वामिना सह सङ्गताः ।
तत्रापि भगवान् कृष्णो द्वितीयरूपधृक् प्रभुः ॥३९॥ ताभिर्विलोकितः कान्तो द्वयोरैक्यं ततोऽभवत् ।
ब्रह्मसिंहासने तत्र व्यराजत परेश्वरः ॥4.118.४०॥ राजाधिराजशोभाढ्योऽनन्तमुक्ताऽभिसेवितः ।
बद्रिके महदाश्चर्यं व्यलोकयँश्च तत्स्थले ॥४१ ॥ प्रत्येकं ये कृष्णनारायणा ह्यासन् सहागताः ।
प्रतिमुक्तेन सहते परकृष्णे लयं गताः ॥४२॥ ब्रह्मसिंहासनेऽनादिकृष्णनारायणे प्रभौ ।
लयं यातान् निजकान्तान् वीक्ष्याऽऽश्चर्यं परं गताः ॥४३॥ तत एव प्रिया मुक्ता आकृष्टाः सुखमूर्छिताः ।
मुग्धाः कान्ते परे देवे पुपूजुस्तुष्टुवुर्मुदा ॥४४॥ आरार्त्रिकं प्रचक्रूश्च समाश्लिक्षन् पतिं प्रभुम् ।
समूचुः श्रीहरिं मुक्ताः प्रलुब्धाः परमेश्वरे ॥४५॥ हरे कृष्ण कृपासिन्धो त्वमेव परमः पुमान् ।
राजसेऽनन्तकृष्णात्मा सेवनीयोऽसि नः सदा ॥४६॥ भवतः सम्पदः सर्वाः प्रदर्शयाऽत्र नो विभो ।
महोलाः षोडश दिव्या बहिष्टो वीक्षिताः खलु ॥४७॥ आन्तरं वीक्षितुं सर्वं समीच्छामः प्रभोपते ।
बहिष्टोऽनन्तपारास्ते दृश्यन्ते माधवीपते ॥४८॥ तैजसोर्ध्वा यथा सूर्यास्तैजसानां सदाधिकाः ।
ब्रह्माण्डेषु भवन्त्येव तथा महोलकास्तव ॥४९॥ षोडशानां सुमध्यस्थो रङ्गमहोलकस्तव ।
कोटिसूर्यात्मकः सूर्य इवाऽऽभाति समन्ततः ॥4.118.५०॥ सर्वाधिको महाराज! मनोमोहकरो हि नः ।
प्रदर्शय प्रभो सर्वान् सम्पदां निलयान् हि नः ॥५१ ॥ बद्रिके श्रीहरिस्तूर्णं दर्शयितुं तु तैः सह ।
रङ्गमहोले बभ्राम यत्रर्द्ध्यो ह्यसङ्ख्यकाः ॥५२॥ दिव्यचिन्तामणीनां वै भित्तयश्च तलानि च ।
दिव्यचिन्तामणीनां च स्वर्णानां भूषणानि च ॥५३॥ दिव्यरत्नस्रजो रम्या दिव्यतोरणपङ्क्तयः ।
दिव्यवेषा दिव्यसर्वोपस्करा दिव्यभूमिकाः ॥५४॥ दिव्यसर्वास्तरणानि दिव्यासनानि मूर्तयः ।
दिव्यपात्राणि सर्वाणि दिव्यमञ्जुषिकादिकाः ॥५५॥ शृणु श्रीबद्रिके तत्र सन्ति रङ्गमहोलके ।
एकैकस्माद् वस्तुनस्तु बीजमणीन्द्रसञ्ज्ञकात् ॥५६॥ यथेष्टमुद्भवाः सञ्जायन्तेऽसङ्ख्यसजातिकाः ।
रूपकुल्या रसकुल्या गन्धकुल्या मणीश्वराः ॥५७॥ दधिकुल्या मधुकुल्याः सुधाकुल्या मणीश्वराः ।
आनन्दघनपानादिकुल्यास्तृप्तिप्रदास्तथा ॥५८॥ सर्वलावण्यकुल्याश्च मण्यो रस्यसम्प्रदाः ।
रहस्यमुक्तनिवहैर्वीक्षिता भोग्यदास्तदा ॥५९॥ केशाः सर्वाधिका बद्रि शृङ्गारद्रव्यसम्प्रदाः ।
भूषावस्त्रप्रदा वेषप्रदास्तत्र विलोकिताः ॥4.118.६०॥ लक्षशो भूमिकाः कक्षाः सच्चिदानन्दभायुताः ।
एकैकया प्रियया च सह स्थितः पतिः प्रभुः ॥६१॥ अनादिश्रीकृष्णनारायणाः प्रत्येकमन्दिरे ।
विलोकितः समस्ताभिर्दिव्यमुक्तानिकादिभिः ॥६२॥ सर्वोत्कृष्टमहानन्दघनवर्षणकारिणः ॥ विलोकितास्तत्र कृष्णमणयः कान्तमूर्तिजाः ॥६३॥ परावर्त्तनमण्यो लताकुञ्जमणिव्रजाः ।
महोद्यानादिमणयश्चाराममणयस्तथा ॥६४॥ विलोकिताः समस्ताभिस्तत्र रत्नादिहेतवः ।
हिरण्मय्यश्रियः सर्वा लोकिता वै समन्ततः ॥६५॥ सूर्यचन्द्रादिमणयो दर्पणादर्शपट्टकाः ।
विलोकिताः समस्ताभिः रङ्गमहोलकेऽभितः ॥६६॥ स्वस्वरूपाणि सर्वाणि विलोकितानि तत्र च ।
रहस्यमुक्तनिवहैः स्पृहावद्भिर्महोलके ॥६७॥ अत्याश्चर्यमिदं तत्र दृष्टिपथमभूद् गतम् ।
कृष्णनारायणमूर्तौ स्थितायां रङ्गमण्डपे ॥६८॥ परधामसमस्तं वै मस्तके तैर्विलोकितम् ।
अक्षरं धाम हृदये मायाधामोदरे तथा ॥६९॥ अवतारादिधामानि मुखे विलोकितानि वै ।
ईश्वराणां तु लोकाश्च जद्यने ह्यवलोकिताः ॥4.118.७० ॥ ब्रह्माण्डानि पादयोस्तु विलोकितानि तैस्तदा ।
लिङ्गे सङ्कर्षणरुद्रशङ्करास्तैर्विलोकिताः ॥७१ ॥ अनिरुद्धा वेधसश्च नाभौ तस्य विलोकिताः ।
प्रद्युम्ना विष्णवस्तस्य वृषणयोर्विलोकिताः ॥७२॥ महापुमान् महाकालो भ्रकुटौ तस्य लोकितौ ।
प्रकृतिश्च महामाया तदिच्छायां विलोकिता ॥७३॥ साक्षी वासुदेव एतौ बुद्धौ तस्य विलोकितौ ।
कृष्णो नारायणस्तस्य भुजयोस्तैर्विलोकितौ ॥७४॥ प्रियाः सर्वा हरेर्वामे पार्श्वे कुक्षौ विलोकिताः ।
आत्मानश्च हरेर्दक्षे नराः सर्वे विलोकिताः ॥७५॥ विहङ्गमाः पृष्ठदेशे यादांसि तु नितम्बके ।
वामे दक्षे तु तिर्यञ्चः शाखिनः सर्वरोमसु ॥७६॥ कन्दा रोम्णां तु मूलेषु रोमकूपेषु वल्लिकाः ।
पर्वताः कठिने तस्य नद्यो नाडीषु सर्वशः ॥७७॥ एकतत्त्वात्मके तस्मिन् तस्यैव कृपया बहून् ।
भेदान् विलोकयामासू रहस्यमुक्तकोटयः ॥७८॥ सुराष्ट्रं तस्य भाले वै भालमध्येऽश्वसारसम् ।
तस्य निजस्वरूपाणि व्यलोकयन् हरेः प्रियाः ॥७९॥ आहोऽस्य बद्रिके पारो वैभवानां न गम्यते ।
यद्यन्मूर्तौ च तत्सर्वं रङ्गमहोलकेऽभितः ॥4.118.८०॥ विलोकितं प्रियाभिर्वै व्यतिरिक्तं तदिच्छया ।
पुनश्च कृपया तत्र तत्र वस्तुनि माधवः ॥८ १॥ प्रकाशमगमद् वस्तु तिरोभावमुपागमत् ।
अन्वितः श्रीकृष्णनारायणश्रीपतिवल्लभः ॥८२॥ विलोकितः समस्ताभिः सर्वात्मकोऽभितः पतिः ।
शरीरीव तदन्तःस्थो बहिःस्थश्चापि लोकितः ॥८३॥ वस्तु विलीय सहसा लोकितः स तदैकलः ।
स्वराट् सम्राण्महाराट् स एक एवाऽद्वितीयकः ॥८४॥ तत्रैकतां तदा प्राप्ता अनादिमुक्तकोटयः ।
परमुक्तकोटयश्च लोकिताः श्रीहरौ तदा ॥८५॥ मूर्तिमग्ना जले यद्वन्मीना इव ह्यसङ्ख्यकाः ।
एकत्वरसवेत्तारश्चाऽपृथग्भावमास्थिताः ॥८६॥ न निःसरन्ति ते क्वापि मूर्तिलग्ना बहिः क्वचित् ।
येषां पारो न वा सीमा न सङ्ख्या न च मानकम् ॥८७॥ ह्येषा मूर्तिमयी सृष्टिः परधाम्नोऽतिरेकिणी ।
वीक्ष्य तां परमाश्चर्यं गता रहस्यमुक्तिगाः ॥८८॥ मानं च गलितं तासां न्यूनस्थित्या तदग्रतः ।
अथ ताश्चार्थयामासुः कान्ते स्थितिं तु तादृशीम् ॥८९॥ हरिर्ददौ च वचनं महोलदर्शनोत्तरम् ।
ततो वै दर्शयामास वासमहोलमुत्तमम् ॥4.118.९०॥ लक्षयोजनमानं च सर्वर्द्धिपूर्णमच्युतः ।
ततश्च दर्शयामास शय्यामहोलमुत्तमम् ॥९१ ॥ कोट्यर्बुदाब्जकान्तानां शय्यापर्यङ्कमण्डितम् ।
सर्वशृङ्गारवेषार्होत्तमद्रव्यादिसम्भृतम् ॥९२॥ अदृष्टपूर्वमेनं च दृष्ट्वाऽऽश्चर्यं परं ययुः ।
अथ स्वमन्दिरं पश्चाद् दर्शयामास माधवः ॥९३॥ यत्र माता कभ्भराश्रीः पिता गोपालकृष्णकः ।
सन्तुष्टा च स्वसाऽप्यास्ते शुकश्च भगवानपि ॥९४॥ वल्लभश्च तथा तेषां भक्ता वसन्ति सर्वदा ।
तत्तन्मूलस्वरूपेषु मातापित्रादिकान् हरिः ॥९५॥ सर्वेषां पश्यतां तत्र कृपयाऽन्तरभावयत् ।
आश्चर्यं परमं तद्वै वीक्ष्य तेऽपि मुदं ययुः ॥९६॥ तत्रैवोषुर्यथेष्टं वै मात्राद्या मन्दिरालये ।
सर्वर्द्धिसहिते लक्षयोजने दिव्यविग्रहे ॥९७॥ अथ स्नानमहोलं च दर्शयामास सत्पतिः ।
दिव्यस्नानविधानानि वीक्ष्याऽऽश्चर्यं परं ययुः ॥९८॥ प्रस्रवणाः समस्ताश्च क्षीरनीराज्यमाधवाः ।
सुधाऽमृताऽऽनन्दमोदप्रमोदादिप्रवाहिणः ॥९९॥ वीक्षिताः सर्वसौगन्ध्यमृदुपेशलवार्युताः ।
ततस्ताभिर्वीक्षितश्च खेलमहोल उत्तमः ॥4.118.१० ०॥ सर्वानन्दरमणानि खेलसाधनकानि च ।
यत्र दिव्यानि वै सन्ति कल्पलभ्यानि सर्वथा ॥१०१ ॥ ततः शान्तिमहोलं च दर्शयामास केशवः ।
सर्वशान्तिप्रदं सर्वशान्तिसाधनसम्भृतम् ॥१ ०२॥ ततश्च दर्शयामास शृङ्गारोद्यानमुत्तमम् ।
लक्षयोजनविस्तारं सुशृङ्गारमहोलकम् ॥१ ०३॥ कोट्यर्बुदाब्जपद्मानां शृङ्गारवस्तुपूरकम् ।
मूर्तिकल्पलताव्याप्तं सर्वेष्टसम्प्रदं शुभम् ॥१ ०४॥ कुङ्कुमाऽलक्तकवल्लीः कज्जलाऽक्षतवल्लिकाः ।
चन्दनद्रवलतिका गन्धसारद्रवद्रुमान् ॥१ ०५॥ स्नेहसारनवनीतपिण्डान् मृदुरसानपि ।
वीक्ष्य मोदं परं प्राप्ता रहस्यमुक्तिगास्तदा ॥१ ०६॥ भोजनानां महोलं च दर्शयामास मुक्तिकृत् ।
सर्वविधासु दिव्यास्वदिव्यासु सर्वसृष्टिषु ॥१ ०७॥ यद्यद् भोज्यं भक्ष्यवर्यं चोष्यं लेह्यं च पानकम् ।
तस्य सर्वस्य मूलं वै दिव्यं भोज्यं समस्तकम् ॥१ ०८॥ सर्वं दैवं चैश्वरं चाऽवतारीयं च मोक्तिकम् ।
आत्मीयं ब्राह्ममेवापि सर्वं तत्र प्रवीक्ष्यताः ॥१ ०९॥ स्पृहावत्योऽभवन् भोक्तुं भोजयामास तत्पतिः ।
चान्तिमां परमां तृप्तिं बहिर्भावां ददौ प्रभुः ॥4.118.११ ०॥ ततः पूजामहोलं च लक्षयोजनविस्तरम् ।
सर्वपूजार्हणायोग्योपस्कारवस्तुसम्भृतम् ॥११ १॥ दर्शयामास भगवान् पूजां प्रचक्रिरे तु ताः ।
सर्वागममहोलं च दर्शयामास धामपः ॥११२॥ सर्वसृष्टिनिवासानामागमार्थकृतक्षणम् ।
समाधियोगिनां यत्र कृष्णयोगः प्रजायते ॥११ ३॥ यत्रैकके मणौ सर्वसृष्टयो दृष्टिगोचराः ।
प्रजायन्ते च वीक्ष्यैनं भक्तसेवामहोलकम् ॥१ १४॥ व्यलोकयँश्च ते मुक्ता यत्र सेवां हरेः सदा ।
मुक्ताः कुर्वन्ति विविधां मुक्तसेवां हरिस्तदा ॥१ १५॥ परस्परप्रसेवानां वीक्ष्य सेवकतां तयोः ।
महाश्चर्यं ययुः सर्वाः परं भाग्यं हि मेनिरे ॥१ १६॥ दर्शयामास भगवान् स्वं रहस्यमहोलकम् ।
यत्र कान्ता इमाः सर्वाः कान्तं श्रीकृष्णवल्लभम् ॥१ १७॥ सर्वकामप्रदा नित्यं सेवन्ते शयनादिषु ।
असङ्ख्यकान्ताधामैतद् वीक्ष्याऽऽश्चर्यं गताः स्त्रियः ॥१ १८॥ ततश्च दर्शयामास पट्टांऽगनामहोलकम् ।
यत्र शतं तथा चत्वारिंशत् सन्ति निजाङ्गनाः ॥१ १९॥ सहस्रसेविकायुक्ताः प्रत्येकं स्वपतिं हरिम् ।
सेवन्ते सर्वदा बद्रि! वीक्ष्य मोदं प्रलेभिरे ॥4.118.१२०॥ तासु तास्ता लयं प्राप्ता निजमूलासु योषितः ।
अथ श्रीभगवान् बद्रि चान्तःपुरमहोलकम् ॥१२१ ॥ दर्शयामास सर्वास्ता अनन्तमानमृद्धिदम् ।
भजन्ते कान्तभावेन कृष्णनारायणं तु याः ॥१ २२॥ सर्वसृष्टिषु सर्वत्र सर्वास्ता यान्ति तत्र ह ।
लभन्ते कान्तमेवैनं चान्तःपुराख्यधामनि ॥१२३॥ वीक्ष्य ताः परमाश्चर्यं प्राप्य ववन्दिरे पतिम् ।
निजतादात्म्ययोगार्थं मूर्तौ वासाय सर्वदा ॥१२४॥ हरिर्विज्ञाय तद्भावं समाश्लेषं स्ववक्षसि ।
ददौ प्रेम्णा ददौ वासं चान्तर्भाव्य निजे हृदि ॥१ २५॥ स्वमूर्तौ मूर्तिगर्भाख्यसृष्टौ वासं ददौ सदा ।
कोट्यर्बुदाब्जपत्नीः स्वाः सखीभिः सहिताः प्रियाः ॥१ २६॥ अन्तर्भाव्य ययौ कृष्णो निजे रङ्गमहोलके ।
एकलो भगवान् कृष्णश्चैकधा बहुधापि सन् ॥१ २७॥ भक्तेच्छापूरकश्चैवं स्वेच्छास्वतन्त्रभागपि ।
स्वस्मिन् स्वस्यैव विस्तारं स्वं समावेशयत्प्रभुः ॥१ २८॥ पुत्रपुत्र्यादिकं सर्वं दासदासीप्रविस्तरम् ।
स्वोद्भावितं स्वविस्तारं स्वस्मिन्नावेशयत्प्रभुः ॥१२९॥ अथ क्षणात् तिरोभूय कुङ्कुमवापिकालये ।
लोमशेन पुनः स्वतःप्रकाशेन पुनस्तथा ॥4.118.१ ३०॥ लक्ष्म्या हृदि स्थयाऽश्विन्या माणिक्यया च वाहया ।
विमानेनापि युक्तः श्रीहरिश्चाश्वसरो ययौ ॥१३१ ॥ प्रज्ञापद्मावतीयुक्तो जलं पपौ जगद्गुरुः ।
यात्रामेतां च सप्तायतनं स्मरेत् तु यो जनः ॥१ ३२॥ स यायाच्छ्रीकृष्णस्वाम्याचार्यश्रीहरिधाम वै ।
अनादिश्रीकृष्णनारायणः प्रज्ञा च माधवी ॥१ ३३॥ लक्ष्मीश्च लोमशः स्वतःप्रकाशो माणिकी च तत्॥ सप्तायतनमेतद्वै स्मर्तव्यं सर्वदा जनैः ॥१ ३४॥ परब्रह्म कृष्णनारायणस्तिस्रोऽस्य शक्तयः ।
ज्ञानशक्तिः प्रमा चेच्छाशक्तिर्लक्ष्मीः प्रकीर्तिता ॥१ ३५॥ पद्मावती क्रियाशक्तिर्माणिक्या शाश्वती छविः ।
स्वतःप्रकाशः सङ्कल्पो लोमशो ब्रह्मशीलता ॥१३६॥ स्थापयेत् पूजयेद् यस्तान् सर्वान् कामानवाप्नुयात् ।
हरेर्मूर्त्तः प्रभा कान्तिः पद्मावती तु दिव्यता ॥१३७॥ लक्ष्मीश्च कमनीयत्वं माणिक्या स्वच्छतात्मिका ।
स्वतःप्रकाशः परिधिर्लोमशो रोमरूपधृक् ॥१३८॥ विदित्वैवं सप्तरूपं कृष्णनारायणात्मकम् ।
पृथङ्मुक्तिमतिक्रम्य मूर्तिमुक्तिं प्रयाति सः ॥१ ३९॥ राधां दुःखहरां शक्तिं लक्ष्मीं सम्पत्प्रदां तथा ।
प्रज्ञां स्वरूपदां शक्तिं पद्मावतीं तु मोक्षदाम् ॥4.118.१४०॥ लोमशं मेऽनादिमुक्तं ब्रह्म स्वयम्प्रकाशितम् ।
सप्तायतनकं त्वेवं विदित्वा कृष्णरूपगम् ॥१४१॥ मुक्तिं यान्ति परां त्वेवं परे धाम्नि न संशयः ।
एवमाह पुरा बद्रि हरिर्मां परमेश्वरः ॥१४२॥ इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने परधामनि रङ्गमहोलादिषोडशमहोलानां रहस्यमुक्तेभ्यः प्रदर्शनं, तदर्द्धिप्रदर्शन, स्वमूर्तौ सर्वर्द्धिसर्वसृष्टिप्रदर्शनं, श्रीहरिमूर्तिगर्भगताऽनादितादात्म्यमुक्तसृष्टिप्रदर्शनं, रहस्यमुक्तानां तत्स्पृहावतां मूर्तिगर्भतादात्म्यमुक्तिप्रदानं, सप्तायतनसमष्टिरूपहरेः कुङ्कुमवापीं प्रत्यागमनं, चेत्यादिनिरूपणनामाऽष्टादशाऽधिकशततमोऽध्यायः ॥११८ ॥