११५

श्रीनरनारायण उवाच-
रासमण्डलतश्चोर्ध्वं हरेर्विहारमण्डलम् ।
लक्षयोजनविस्तारं व्यलोकयन् विमानगाः ॥१ ॥ यत्र परममुक्तानां निवासा मन्दिराणि च ।
प्रासादा दिव्यकलशाः सन्ति कृष्णालया यथा ॥२ ॥ मुक्ता मुक्तानिका भूत्वा सेवन्ते कान्तमच्युतम् ।
विहारो यत्र सौधेषु भवन्ति ब्रह्मयोषिताम् ॥३ ॥ कोटिकोट्यर्बुदपत्न्यो मुक्तानिका हरिं पतिम् ।
विहारमण्डले नैजसौधेषु दिव्यविग्रहाः ॥४ ॥ सेवन्ते परमात्मानं सुखशय्यास्वहर्निशम् ।
शृङ्गारा यत्र वर्तन्ते नवा दिव्याश्च शाश्वताः ॥५ ॥ पानभोजनभोगाश्च वर्तन्तेऽमृतसम्भृताः ।
यत्र कामदुघा गावो विद्यन्ते मानसेष्टदाः ॥६ ॥ यत्र शय्याः कोमलाश्च नित्यसुगन्धिसम्भृताः ।
मानसेष्टप्रदाः सर्वाः सुखस्पर्शाश्चिदात्मकाः ॥७ ॥ दिव्यरूपस्पर्शगन्धशब्दरसरतिप्रदाः ।
कल्पताम्बूलवल्ल्यादिपत्रचर्वणगन्धिकाः ॥८ ॥ सुगन्ध्युत्तरसुरभिकेसरादिविराजिताः ।
कामपूरास्तथा सर्वोपकरणोत्तमाञ्चिताः ॥९ ॥ स्नानशालास्तापशाला रसशालाश्च यत्र वै ।
भोज्यशाला रहःशालाः स्वापशालाश्च यत्र वै ॥4.115.१० ॥ द्रवशाला नाट्यशाला दृश्यशालाश्च यत्र वै ।
गीतशाला नृत्यशाला वेषशालाश्च यत्र वै ॥११ ॥ सर्वशृङ्गारशालाश्च कामशालाश्च यत्र वै ।
भोगशालाश्चाङ्गप्रसाधनशालाश्च यत्र वै ॥१ २॥ रेखाशालास्तथा कान्ताश्लेषशाला भवन्ति च ।
प्रासादा कलशैर्युक्ता दिव्या स्वर्णविनिर्मिताः ॥१३ ॥ शोभन्ते कोटिशो यत्र विहारमण्डलोऽभितः ।
नगराणि विचित्राणि विचित्रमन्दिराणि च ॥१४॥ वर्तन्ते मुक्तकोटीनां निवासा यत्र चाभितः ।
वसतयः सेवकानां सेविकानां भवन्त्यपि ॥१५ ॥ दासानां चापि दासीनां पुंरूपाणां भवन्त्यपि ।
सुहृदां मित्रवर्गाणां मुक्तानां सुगृहाणि च ॥१६ ॥ भवन्ति श्रीहरेः सौधभाऽऽभभावन्ति तत्र ह ।
एवं विहारिमुक्तानां वीक्ष्य विहारमण्डलम् ॥१७॥ विमानगा ययुरग्रे राष्ट्रप्रदेशभूमिषु ।
हरिद्वर्णाऽतिरसभृन्मिष्टकणिशवन्ति वै ॥१८ ॥ यासु सस्यानि सर्वाणि राजन्ते ऋद्धिमन्ति च ।
दिव्यब्रह्ममयान्येवाऽक्षतशालिभिधानि च ॥१ ९॥ गोधूमयवनिवारचणकादीनि सन्ति वै ।
दिव्यब्रह्मस्वरूपाणि कामरूपाणि तानि वै ॥4.115.२०॥ मुक्तरूपाणि सस्यानि धामिनां सुखदानि हि ।
इक्षुक्षेत्राणि परितः शाकक्षेत्राढ्यवाटिकाः ॥२१।
राजन्ते दीर्घिकावापीकूपतडागवन्ति च ।
सरितो दिव्यजलदा वहन्ति चित्स्वरूपिकाः ॥२२॥ सीमभूमिप्रदेशाश्च विद्यन्ते फलिपादपाः ।
अनेकपुष्पिवृक्षाणां वृतिभिर्वर्तुलीकृताः ॥२३॥ रक्षिताः सर्वतो दिग्भ्यो महासस्यसमृद्धयः ।
मुद्गमाषै राजमाषैः कङ्गूभिः शोभिताः शुभाः ॥२४॥ राजिकाकेसरैर्युक्ता दुग्धिकाबृहतीयुताः ।
अनेकान्नेरसङ्ख्यैश्च भाजीशाकैः समन्विताः ॥२५॥ कन्दपुष्पदलाद्यैश्च समृद्धाः शोभना ह्यति ।
कर्षुकाख्यप्रमुक्तानां नगराणि च तत्र वै ॥२६॥ सन्ति ग्रामाश्च खेटाश्च खर्वटा गोपकर्मणाम् ।
पुराणि दिव्ययोगानि दिव्यव्यापारवन्त्यपि ॥२७॥ भवन्ति दिव्यसौवर्णवर्णानि प्रोज्ज्वलानि च ।
यत्र मुक्ता महामुक्ता वसन्ति ब्रह्मरूपिणः ॥२८॥ तथा परममुक्ताश्च वसन्ति ब्रह्मयोगिनः ।
अनादिश्रीकृष्णनारायणख्यपरायणाः ॥२९॥ येषां कर्मकलापा वै दिव्याः कृष्णपरायणाः ।
भवन्ति सर्वथा बद्रि ताँस्ते व्यलोकयन् मुदा ॥4.115.३ ०॥ आलयानाश्रमानावसथान् सौधान् कुटीस्तथा ।
गृहाणि कोटरान् मन्दिराणि कुञ्जान् निकुञ्जकान् ॥३१ ॥ सौधान् शाला निवासाँश्च भवनानि च गर्भकान् ।
विद्यालयान् कलाशाला गोशाला गोपुरान् शुभान् ॥३२॥ दुर्गान् भित्तिस्तम्भशृङ्गाण्यपि वृत्तसुमण्डपान् ।
उपगृहाणि चारामान् छत्राणि तूपकाँस्तथा ॥३३॥ सभागृहाणि च न्यायनृत्यगान्धर्वभूमिकाः ।
मल्लनाट्येन्द्ररमणान् महानसानि यान्यपि ॥३४॥ मखालयान् राजसौधानापणान् व्योमकोष्ठकान् ।
त्रिवरान् द्वारदेशाँश्च वीक्ष्य सौवर्णशोभनान् ॥३५॥ समाकाररचनाँश्च स्वर्णकलशराजितान् ।
नैसर्गिकप्रकाशाँश्च सर्वर्द्धिप्रदभित्तिकान् ॥३६॥ कल्पकुम्भीकल्पचुल्लीकल्पपात्रविराजितान् ।
अक्षय्येष्टप्रदान् वीक्ष्य भोज्यपानर्द्धिसम्भृतान् ॥३७॥ सर्वोपकरणैर्युक्तान् दिव्यशाश्वतविग्रहान् ।
सच्चिदानन्दरूपाँश्च सर्वरङ्गर्द्धिशोभनान् ॥३८॥ ध्वजैः पताकिकाभिश्च वावातादिभिरन्वितान् ।
दिव्यमुक्तगणैर्युक्तान् वीक्ष्य प्राप्य समर्हणाम् ॥३९॥ अग्रे विमानगा देशानुल्लङ्घ्याऽर्बुदयोजनान् ।
मुक्तवसतीन् संवीक्ष्य ययुः सुराष्ट्रमुत्तमम् ॥4.115.४०॥ यत्र मार्गा दीर्घतमा ब्रह्मसमुद्रयोगिनः ।
वनपर्वतवसतीनभिव्याप्य च मण्डपान् ॥४१॥ मण्डलानि पुरग्रामान् समायान्ति सुराष्ट्रकम् ।
छायावृक्षैः फलिवृक्षैर्युताः पन्थान उत्तमाः ॥४२॥ सर्वयात्रिकसुखदाः सुभगा रमणीयकाः ।
प्रवासिनां सर्वभोग्यप्रदाः सच्चिद्रसप्रदाः ॥४३॥ विद्यन्ते ते मृदुस्पर्शा गतिश्रमविवर्जिताः ।
शीतोष्णानुकूलसर्वतत्त्वाऽऽनन्दप्रदाः शुभाः ॥४४॥ पार्श्वनदीनदवारिसुधावलीद्रुशोभिताः ।
तरुसूच्चफलवालुमृदुपार्श्वसुशोभिताः ॥४५॥ पुष्पीवृक्षकृतराजिकदम्बराजिराजिताः ।
लताप्रतानितछत्रच्छायाद्रुमसुपार्श्वकाः ॥४६॥ शर्कराफलवल्लीनां कृत्रिमनदपार्श्वकाः ।
चञ्चद्दिव्यमहामूल्यमणिगर्भातिशोभनाः ॥४७॥ कूष्माण्डवल्लिकाव्याप्तकुटीयुक्क्षेत्रमध्यगाः ।
त्र्यमृतस्तम्बक्षेत्रान्तःप्रविष्टदीर्घयायिनः ॥४८॥ मधुस्राविमहावृक्षशाखारसाभिषेकिनः ।
ब्रह्मचन्दनवृक्षाणां रसवृष्ट्या सुगन्धिताः ॥४९॥ देवपुष्पविकीरैश्चाञ्चिताः शय्याभसौख्यदाः ।
मुक्तमुक्तानिकावृन्दपादपद्मातिपावनाः ॥4.115.५ ०॥ नैकधातुप्रचूर्णोत्थलहरीवलिशोभिताः ।
पार्श्वविश्रान्तिवेदीभिर्मनोहराऽऽश्रयप्रदाः ॥५१॥ नदीनदमहासेतुसङ्कलनाऽद्वितीयकाः ।
मुक्तिसौख्यप्रदा मार्गास्तृप्तिदा नित्यसौख्यदाः ॥५२॥ मध्यक्षेत्रीयसृतिभिः सङ्गताश्चत्वरान्विताः ।
तानप्रतानमार्गैश्च मिलिता देशदर्शकाः ॥५३॥ सुधापर्वात्मकशालाऽमृतदानप्रमोददाः ।
ब्रह्मराष्ट्राऽऽविद्धमध्या परब्रह्मगृहान्तगाः ॥५४॥ अनादिमुक्तविहराः शाश्वतानन्दसम्भृताः ।
अपुनरावर्तनाश्च गतानां मुक्तिसङ्गिनाम् ॥५५॥ माङ्गलिकरसद्रव्यैः सिक्ताः श्रेयोरसादिभिः ।
कल्याणपदवीयुक्ता विशाला बहुविस्तराः ॥५६॥ एतादृशान्मोक्षमार्गान् वीक्ष्याऽऽश्चर्यगतास्तु ते ।
अग्रे विमानगा देशानसङ्ख्ययोजनायतान् ॥५७॥ वीक्ष्य तुल्यर्द्धिसम्पद्भिः शोभनान् ययुरुत्सुकाः ।
अपश्यन् दूरतस्ते चाऽक्षरधामपुरं महत् ॥५८॥ परार्धयोजनदीर्घदिव्यचिद्भूविराजितम् ।
असङ्ख्याऽक्षरमुक्तानामावासमन्दिरात्मकम् ॥५९॥ सर्वसृष्टिमहातेजोऽधिकतेजोऽम्बरान्वितम् ।
सर्वसृष्टमहानन्दाधिकानन्दाऽम्बरान्वितम् ॥4.115.६०॥ सर्वसौरभवासं च सर्वरूपाभिरूपवत् ।
सर्वरसाऽधिमिष्टं च सर्वमिष्टस्वरान्वितम् ॥६१ ॥ सर्वलावण्ययुक्तं च सर्वमाधुर्यसम्भृतम् ।
असङ्ख्यानादिमुक्तानां महामन्दिरशोभनम् ॥६२॥ कोटिकोट्यब्जसूर्याणां तेजोवत्कलशान्विताः ।
दिव्यशृङ्गयुता यत्र शोभन्ते मुक्तसंश्रयाः ॥६३॥ कामरूपधराऽनादिमुक्तवृन्दा वसन्ति च ।
दिव्यरत्नहीरकाणां मणीनां मन्दिरेषु ह ॥६४॥ असङ्ख्यपारं तद्धाम सर्वधामोत्तमोत्तमम् ।
असङ्ख्यदिव्यसंयानविमानैरुपशोभितम् ॥६५॥ असङ्ख्यनगरैर्ग्रामैः पत्तनैः खेटखर्वटैः ।
उद्यानारामवाटीभिः क्षेत्रभूविस्तरैर्युतम् ॥६६॥ सच्चिदानन्दतत्त्वैस्तैर्ब्रह्मपुरैरलङ्कृतम् ।
सर्वगोपुरदुर्गाद्यैर्वनपर्वतराजिभिः ॥६७॥ आक्षरैश्च नदीसरोवरैर्नदैः सुशोभितम् ।
कौस्तुभानां दीर्घशृङ्गैः पर्वतैरतिशोभनम् ॥६८॥ असङ्ख्यदिव्यदुग्धानां कुल्याभिरभितो युतम् ।
सुधापीयूषभोज्यानां कुल्याभिरभिरामकम् ॥६९॥ यानवाहनशय्यानामुपस्कारैः समृद्धिमत् ।
कामरूपधरमुक्तमुक्तानिकाकृताश्रयम् ॥4.115.७०॥ सर्वसमानरूपैश्च कृष्णनारायणाश्रितैः ।
कृतावासमनन्तं चाऽपारमसीमकं महत् ॥७१ ॥ सर्वसस्यर्द्धिसंयुक्तं फलान्नकणसिद्धिमत् ।
सर्वदिव्यसुसौवर्णभूमिगृहादिपत्तनम् ॥९२॥ असङ्ख्यस्तम्भसंशोभन्महासौधालिसत्प्रभम् ।
निसर्गधामतत्त्वोत्थसर्वभोग्यसुहेतुकम् ॥७३॥ यस्य पारो न वै चास्ति गन्तॄणां व्योमचारिणाम् ।
दिव्यचक्षुष्मतां कृष्णदृष्ट्या मनाक् सुगोचरम् ॥७४॥ यत्र मुक्ता असङ्ख्याता राजाधिराजरूपिणः ।
कृष्णनारायणतुल्या वृन्दात्मानो भजन्ति तम् ॥७५॥ बद्रिके केचन मुक्ताः सभाऽऽत्मानश्च कोटिशः ।
ध्यायन्ति परमात्मानं श्रीकृष्णं पुरुषोत्तमम् ॥७६॥ अन्येऽब्जसङ्ख्यका मुक्ताः कथां शृण्वन्ति शार्ङ्गिणः ।
अपरे पद्मसङ्ख्याश्च स्तुवन्ति स्वामिनं हरिम् ॥७७॥ तथाऽन्ये स्वामिनो वाद्यैः कीर्तनं विदधत्यपि ।
अर्चयन्ति शतवस्तुभिश्चेतरे हरिं पतिम् ॥७८॥ तथाऽन्ये दास्यमेवाऽपि कुर्वन्ति परमात्मनः ।
आत्मनिवेदनं मुक्तानिकाः कुर्वन्ति सत्पतौ ॥७९॥ रमन्ते श्रीहरेरग्रे सेवन्ते तन्मनोऽनुगाः ।
यज्ञे तथा हरिं मुक्ता आराधयन्ति तन्मयाः ॥4.115.८०॥ भोजयन्ति स्नापयन्ति संवाहयन्ति तं हरिम् ।
नीराजयन्ति तं नाथं प्रसादयन्ति चाऽर्पणैः ॥८ १ ॥ रञ्जयन्ति गन्धीयन्ति शृङ्गारयन्ति माधवम् ।
आनन्दयन्ति बहुधा पाययन्ति सुधामृतम् ॥८२-॥ धूपयन्ति दीपयन्ति यथा तद्रूपधारिणः ।
एवं विविधरूपाँश्च परार्धाऽधिकमुक्तकान् ॥८३॥ विमानगा विलोक्यैवाऽऽश्चर्यं प्रापुः परं तदा ।
सेवाभक्तिप्रकाराँश्च वीश्य निर्मानतां गताः ॥८४॥ अक्षरः पुरुषः सोऽपि निजालये परेश्वरम् ।
अनन्तमुक्तसहितः सेवते स्वामिनं हरिम् ॥८५॥ सर्वदेहकृताभिश्च क्वचिन्नारी क्वचिन्नरः ।
भूत्वा भूत्वा क्रियाभिश्च सेवते स्वामिनं निजम् ॥८६॥ अक्षरस्य महासौधे कोट्यर्बुदादितोरणे ।
कोट्यर्बुदस्तम्भतोलये कोट्यर्बुदादिशृङ्गके ॥८७॥ असङ्ख्यभोग्यवस्त्वाढ्येऽसङ्ख्यदासीसमन्विते ।
असङ्ख्यमुक्तमुक्तानीसेविते ब्रह्मरूपिणि ॥८८॥ ब्रह्महोलसञ्ज्ञे स्वे सेवते स्वपतिं हरिम् ।
वीक्ष्येदं सेवनं बद्रि ब्रह्मप्रियास्तु सर्वथा ॥८९॥ स्तब्धा निर्गर्वभावं च प्राप्ताः स्वस्वामिनं प्रति ।
एवंविधं तु तद्धामाऽक्षरं तद्वसतीन् शुभान् ॥4.115.९०॥ भुक्तावसतीन् सेवां च वीक्ष्याऽक्षरगृहं तथा ।
अक्षरं सेवकं वीक्ष्य महानन्दं प्रलेभिरे ॥९ १॥ अक्षरस्य गृहे बद्रि विशालेऽसङ्ख्ययोजने ।
ईश्वराणां समस्तानां मुक्तानां दिव्यवर्म्मणाम् ॥९२॥ ब्रह्माण्डानां च सर्वेषामुद्धयः सौक्ष्म्यतः स्थिताः ।
अक्षरे वद्रिके सर्वमेतज्जगच्चराचरम् ॥९३॥ विद्यते संस्थितं बद्रि सर्वसृष्टिस्वरूपकम् ।
यदक्षरगृहे चास्ते तद् ब्रह्माण्डेषु वर्तते ॥९४॥ यदक्षरगृहे नास्ति सृष्टिषु तन्न विद्यते ।
एकैकस्मिन् मणौ दिव्ये वसन्ति भिन्नसृष्टयः ॥९५॥ एतादृशा हि मणयः सन्त्यक्षरगृहे शुभाः ।
मायाधामानि सर्वाणि विद्यन्ते चैकके मणौ ॥९६ ॥ गोलोकाद्या महाभौमा विद्यन्ते चैकके मणौ ।
वैकुण्ठाद्या आलयाश्च विद्यन्ते चैकके मणौ ॥९७ ॥ वासुदेवादयो व्यूहाः सर्वर्द्धिसहिता मणौ ।
वर्तन्ते चैकके कर्तुं वर्णनं नैव शक्यते ॥९८ ॥ एतादृशं ब्रह्मपदं धामाऽक्षरं सुशोभनम् ।
असङ्ख्यर्द्धिभृतं वीक्ष्य लब्ध्वा पूजां च तत्कृताम् ॥९९ ॥ अवतारालयान् दिव्यान् मन्दिराण्युत्तमानि च ।
असङ्ख्यान् मुक्तरूपाँश्च कृष्णनारायणांशजान् ॥4.115.१०० ॥ कृष्णनारायणरूपान् कृष्णनारायणात्मकान् ।
असङ्ख्यसृष्टिसञ्जातान् तदक्षरे सदा स्थितान् ॥१०१ ॥ ब्रह्मशीलपरान् सर्वावतारान् श्रीप्रभुप्रभान् ।
असङ्ख्यैश्वर्यसम्पन्नान् वीक्ष्य धामोत्तरस्थितान् ॥१० २॥ अयं स्वामी ह्ययं स्वामी कृष्णनारायणो ह्ययम् ।
इत्येवं प्रतिपन्नास्ते विमानगाः क्षणं तदा ॥१०३ ॥ असङ्ख्यकृष्णरूपाणि प्रभून् कृष्णानसङ्ख्यकान् ।
मुक्तात्मकान् विलोक्यैव विलोक्य दिव्यचक्षुषा ॥१ ०४॥ सारूप्यभावमापन्नान् मुक्तान् विज्ञाय तादृशान् ।
प्रतिपत्तिं मुक्तरूपां प्राप्याऽऽनन्दं प्रलेभिरे ॥१ ०५॥ आश्चर्यं परमं प्राप्ता अदृष्टदर्शनात् खलु ।
प्रशशंसुर्विमानस्था ब्रह्मप्रियादयो भृशम् ॥१०६ ॥ अहो भाग्यं हरेर्योगाद् यददृश्यादिदर्शनम् ।
लभामहे कृपालेशात् स्वामी नः परमो यतः ॥१ ०७॥ बद्रिके चाऽवताराद्यैः कृतां लब्ध्वा समर्हणाम् ।
प्रभुः कृष्णो हरिश्चाग्रेऽपासरत् माधवीपतिः ॥१०८ ॥ जयनादैस्तोषशब्दैरक्षतादिसुवर्धनैः ।
पुष्पाञ्जलिप्रदानैश्चाशीर्भिः सहाग्र उद्ययुः ॥१० ९॥ विमानानि समस्तानि दिव्याम्बराभियोगिनाम् ।
मुक्तानां श्रीहरेः पत्युर्मन्दिरं परमं प्रति ॥4.115.११० ॥ तद्गत्या तद्वायुयोगात् परधामप्रभांशकात् ।
महानन्दकृतां मूर्छां सुखाढ्यां प्रापुरेव ते ॥१११ ॥ इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने विमानगा हरेर्विहारमण्डलं राष्ट्रप्रदेशान् सुराष्ट्रमण्डलम् अक्षरधामपुरम् अनादिमुक्तपुराणि दिव्यभक्तिकलापान् अक्षरब्रह्ममहोलम् असङ्ख्यावतारमहोलानि वीक्ष्य परमं धाम प्रति चापासरन्नित्यादिनिरूपणनामा पञ्चदशाऽधिकशततमोऽध्यायः ॥११५ ॥