१०७

श्रीबद्रीप्रियोवाच-
नरनारायण विष्णो कृष्ण केशव माधव ।
कलौ चार्धे गते धर्माः पाल्या लोकैस्तु कीदृशाः? ॥१ ॥ द्रव्यह्रासे गुणह्रासे बलह्रासोऽपि जायते ।
कालह्रासे धर्मह्रासः श्रद्धाह्रासोऽपि जायते ॥२ ॥ प्रातिकूल्ये नेष्टसिद्धिस्ततो ह्रासाः समस्तकाः ।
प्रवर्तन्ते प्रजावर्गे नास्तिक्यप्रेरिता मुहुः ॥३ ॥ तदानीं शुद्धयः शौचं व्रतानि कीदृशानि वै ।
पूजादिकं कीदृशं च मखा वा कीदृशास्तदा ॥४ ॥ कलौ पालयितव्यान् मे सदाचारान् प्रकीर्तय ।
प्रायः केचन तिष्येऽपि पालयन्ति समास्तिकाः ॥५ ॥ श्रीनरनारायण उवाच-
बद्रिके निम्नवेगे वै तिष्ये निम्ना वृषा मताः ।
समासेन कथयामि शृणु सर्वान् तदास्थितान् ॥६ ॥ शीतोदकेन वै स्नानं कलौ नास्त्येव सर्वथा ।
उष्णोदकेन वै स्नानं क्वचित् क्वचित्तदा मतम् ॥७ ॥ भस्मस्नानं कलौ त्यागिवर्गे प्रायः कलौ युगे ।
करास्यक्षालनमात्रं प्रातःस्नानं कलौ युगे ॥८ ॥ मुखशुद्धिर्गण्डुषैश्च भस्मना कर्दमेन वा ।
क्वचित् काष्ठेन भवति धूम्रपानेन सर्वथा ॥९ ॥ तैलक्षेपः शिरःशुद्धिश्चूर्णेन मुखशुद्धिका ।
आचमनं कलौ मिष्टोदकपानात्मकं तदा ॥4.107.१० ॥ देवपूजा जलेनैव कलौ वा जायते न वा ।
नैवेद्यं कल्पनामात्रं मानसं वै कलौ न वा ॥११ ॥ आरार्त्रिकं चैकवर्त्तिवह्निनाऽद्भिश्च वा न वा ।
नमस्कारो दण्डवत् स जयशब्दः स्तुतिर्न वा ॥१२॥ मखस्तु चुल्लिकावह्नौ तैलबिन्दूपसर्पणम् ।
नैवेद्यं श्रीफलं मासे मासे वा वत्सरेऽथवा ॥१ ३॥ वेषदानं तथा मासे वत्सरे वा सुरादिषु ।
सिन्दूरदानकं वर्षे वस्त्रदानादि वा नवा ॥१४॥ स्नापनं वा तथैवेति मासे वा वत्सरेऽथवा ।
एवं देवविधिस्तिष्ये ह्रासं गतो विजायते ॥१५॥ आतिथ्यं जलमात्रेण कलौ वाचा च केवलम् ।
वैश्वदेवो मुखे नैजे कवलस्य प्रदानकम् ॥१ ६॥ सायम्पूजा तरूद्याने भ्रमणं नाटकेऽथवा ।
उत्सवः स्त्रीधनयोगः कलौ चास्ते गृहे गृहे ॥१७॥ केशप्रसाधनं स्त्रीणां सौभाग्यं चूर्णलेपनम् ।
रन्धितान्नं कणवद्वै न दुष्टं स वृषः कलौ ॥१८॥ अस्पृश्यं रन्धितान्नं न नाऽभक्ष्यं कस्यचिद् वृषः ।
सर्वविधं जलं पेयं पूतं जलं सदा वृषः ॥१ ९॥ पात्रेऽपि भ्रष्टता नास्त्युच्छिष्टं पात्रं सु पावनम् ।
उच्छिष्टजलधान्या वै क्षिप्तं धौतं सदा शुचि ॥4.107.२० ॥ वस्त्रेण मार्जितं पात्रं शुद्धं सर्वविधं तदा ।
ऊर्णावच्छुचि कार्पासाम्बरं सर्वत्र वै कलौ ॥२ १॥ मलत्यागोत्तरं स्नानं कलौ नास्त्येव नास्ति हि ।
करशुद्धिर्जलेनैव वस्त्रेण गुह्यशुद्धिकाः ॥२२॥ पादप्रक्षालनं नास्ति कलौ भूशोधनं नहि ।
प्रायश्चित्तं कलौ नास्ति राजदण्डो हि शोधनम् ॥२३॥ वायुना शोधनं सूर्यकिरणैः शोधनं कलौ ।
मार्जनेन च वा शुद्धिर्लेपनं न कलौ तदा ॥२४॥ पशुपक्ष्यादिसंस्पर्शो भोज्येषु नास्ति दूषणम् ।
उच्छिष्टदूषणं नैव पर्युषितस्य नैव च ॥२५॥ पात्रौष्ठस्पर्शदोषो न कलौ तदा गृहे गृहे ।
साङ्कर्यं सम्प्रदायानां सधर्मो वै कलौ गृहे ॥२६॥ शवस्पर्शे सूतकं तु स्नानात् तिष्ये गतं भवेत् ।
राहुस्पर्शः सूतकं न कलौ प्रायस्तु सर्वथा ॥२७॥ मरणं सूतकं तावद् यावच्छोकस्मृतिः खलु ।
कलौ चैकादशाहादिश्राद्धभोज्यं गृहे गृहे ॥२८॥ एकाहादूर्ध्वमपि तद् भोजनं गृह्यते कलौ ।
जन्मनः सूतकं यावन्मातुः स्वास्थ्यं न शोभनम् ॥२९॥ मातुरेवापि तत्तत्र नान्येषां सूतकं कलौ ।
राजस्वल्यं सूतकं न कलौ स्त्रीणां मतं तदा ॥4.107.३०॥ रजोदर्शनमात्रं तु मूत्रवद् गण्यते कलौ ।
मैथुनस्याऽप्यशुद्धिर्न कलौ कल्मषशालिनोः ॥३ १॥ मलत्यागे ह्मशुद्धिर्न गण्यते वमने यथा ।
मलवाहाः श्वपचाश्च शुद्धाः कलौ पुरे पुरे ॥३२॥ मृतमांसादनाश्चापि शुद्धा कलौ गृहे गृहे ।
यवनाः श्वपचाश्चर्मकारा भृत्या गृहे गृहे ॥३३॥ पाचकास्ते सूदकास्ते ब्रह्मक्षत्रालयादिषु ।
सूकरगर्दभश्वोष्ट्रस्पर्शदोषो कलौ नहि ॥३४॥ म्लेच्छानां मन्दिरे वासः पवित्रो वै कलौ तदा ।
व्यसनानां सुसम्मानं व्रतानां त्याग एव च ॥३५॥ सदान्नभोजनं धर्मः कलौ भवति शस्तिमान् ।
एकभुक्तं व्रतं तिष्ये गण्यते चोपवासवत् ॥३६॥ एकपत्नीव्रतस्तिष्ये गण्यते नैष्ठिकः स वै ।
गृहस्थधर्मवाँस्तिष्ये त्यागी प्रगण्यते तदा ॥३७॥ कामद्वेषभराचार्या गण्यन्ते मोक्षदाः कलौ ।
द्वेषमार्गप्रणेतारो गुरवो मोक्षदाः कलौ ॥३८॥ वैतण्डिकाः सुविद्वाँसः पूज्यन्ते चेशवत् कलौ ।
आज्ञायां किङ्करस्त्यागी गृहस्थस्य महागुरुः ॥३९॥ गृहस्थदास्यकर्मा च त्यागी कलौ प्रपूज्यते ।
गृहस्थः स्त्रीप्रदाता च त्यागिकृपापरः कलौ ॥4.107.४०॥ स एव भक्तराट् तिष्ये यौनसम्बद्ध उत्तमः ।
तिष्ये भिक्षान्नभोक्तारो गृहस्था धार्मिका इति ॥४१॥ साधुभ्यो भृत्यतां नैजां कारयन्ति गृहस्थिताः ।
निजसेवाकरः साधुः श्रेष्ठो गृहसुधर्मिणाम् ॥४२॥ कलौ तु गुरुशिष्याणां दारैक्यं धर्म उत्तमः ।
उदरार्थं तु नारीणां परभोग्यत्वमित्यपि ॥४३॥ कलौ कलौ जायते तु गृहे गृहे जने जने ।
मृत्तिकानां तु पात्राणां सदा शुद्धिः कलौ कलौ ॥४४॥ चर्मस्पर्शो दूषणं न पत्त्राणस्पर्श इत्यपि ।
मलस्पर्शो दूषणं न कलौ सर्वप्राजासु वै ॥४५॥ श्मशानवसतिर्दोषो शवधूम्रोऽपि दूषणम् ।
कलौ न गण्यते तिर्यक्शवस्पर्शोऽपि दूषणम् ॥४६॥ मूत्रस्पर्शो दूषणं न गण्यते तिष्यगैर्जनैः ।
नासिकामलसंस्पृष्टनक्तकश्च कलौ शुचिः ॥४७॥ धोत्रं शुद्धं कटिवस्त्रं शुद्धं कलौ च घर्घरी ।
कौपीनकं कलौ शुद्धं सुरवालः सदा शुचिः ॥४८॥ वामहस्तः कलौ शुद्धो नासा शुद्धा मलान्विता ।
कलौ कलावती नाली शुद्धा वारिप्रदा प्रपा ॥४९॥ चर्मकोशः कलौ शुद्धः कूपपात्रं घटी तथा ।
तैलकारस्य यन्त्रं वै शुद्धं शुद्धश्च तैलकृत् ॥4.107.५० ॥ मदिराकृत् कलौ शुद्धः शुद्धं च रुधिरं कलौ ।
अस्थि शुद्धं कलौ सर्वं दन्तिदन्तनिभं तदा ॥५१ ॥ मज्जा शुद्धा तु मत्स्यानां सूकराणां घृतं शुचि ।
अण्डानि कुक्कुटादीनां शुद्धानि वै कलौ तदा ॥५२॥ जलपक्वं पिष्टकादि शुद्धं कलौ गृहे गृहे ।
नापितश्च क्षुरश्चापि शुद्धा वाटकिकाऽस्य च ॥५१३ ॥ म्लेच्छस्य दुग्धदध्यादिपात्रं शुद्धं कलौ सदा ।
औषधं मांसमद्याढ्यं शुद्धं कलौ जने जने ॥५४॥ भोज्यपात्रे रोमपातो भोजनेऽपि कलौ शुचिः ।
समुद्रपारयात्रादि शुचि सौधे च तालकम् ॥५५॥ पलाण्डुलशुनाद्यं च शुचि तिष्ये गृहे गृहे ।
पत्रकः कर्गदश्चापि शुचिस्तिष्ये च कर्दमः ॥५६॥ गृहकोणे तथा भित्तौ ष्ठीवनं द्वारि गोपुरे ।
चुल्लीभस्मनि शय्यायाः पार्श्वे तत्पावनं कलौ ॥९७॥ सूर्योदयनादूर्ध्वं जाग्रतिस्तु स कलौ वृषः ।
रात्र्यर्धेऽपि व्यवसायो धर्मो भवति वै कलौ ॥५८॥ दिवारात्रं तु यन्त्राणां गतिः कृतिश्च चालनम् ।
आयोधनं मिथः क्षुद्रलाभार्थं स वृषः कलौ ॥५९॥ गृहाश्रमोऽपि वृद्धानां शस्यते तु वृषः कलौ ।
अन्यायविजयो धर्मः कलौ क्लेशकरो महान् ॥4.107.६० ॥ यो मृषाऽऽन्दोलनकरस्तिष्ये धर्मगुरुर्हि सः ।
कलौ किञ्चित्प्रधीः प्राणी गुरुरेव स धर्मवित् ॥६१ ॥ अशास्त्रज्ञाश्च लुञ्चादाः कलौ वै धर्ममूर्तयः ।
ब्राह्मं मुहूर्तं निद्रायां केलिकर्मणि वा वृषः ॥६२॥ अदेवस्मरणं सायं गायत्रीवर्जनं दिवा ।
अजपश्चाप्यहोत्रश्च ग्राम्याध्ययनमित्यपि ॥६३॥ अपितृतर्पणं धर्माः द्यूतं भवन्ति सर्वशः ।
प्रतिमा पुत्तली स्पष्टा न भावस्तत्र वै कलौ ॥६४॥ नखकेशोत्कर्तनेऽपि नाऽशुद्धिर्हि कलौ मता ।
विष्टागृहोपशीलेऽपि नाऽशुद्धिस्तत्र गण्यते ॥६५ ॥ श्वशुरस्पर्शनं वध्वा दूषणं न कलौ तदा ।
परगोत्रस्वगोत्रादिसम्बन्धो भूषणं कलौ ॥६६ ॥ निम्नकन्याग्रहणं च प्रशंसाधर्म उत्तमः ।
यज्ञोपवीतकं कण्ठी दैवचिह्नं सचन्द्रकम् ॥६७॥ तिलकं दूषणं भाले कलौ धर्मो विचन्द्रकः ।
पितरि जीवति पुत्रश्मश्रुमुण्डनमित्यपि ॥६८ ॥ धर्मः कलौ प्रशस्तो वै वह्निं विना विवाहनम् ।
विप्रं विना च दातारं विना कन्यार्पणं वृषः ॥६९ ॥ आपणे तु महीमानभोजनं चोत्तमो वृषः ।
संस्काराऽकरणं धर्मो व्ययहीनो वृषः कलौ ॥4.107.७० ॥ हत्यागृहाणि तिष्ये तु पुण्यस्थानानि वै तदा ।
धेनूनां तु कलौ तत्र शकट्यां योजनं वृषः ॥७ १ ॥ बहूनामेकपत्नी च कलौ धर्मो मतस्तदा ।
प्रातस्तु वाचनं ग्राम्यपत्राणां च वृषस्तदा ॥७२॥ विधवाग्रहणं तिष्ये परोपकार उत्तमः ।
पापिनां स्वीकृतिस्तिष्ये धर्मः श्रेयस्करस्तदा ॥७३ ॥ अगालितानां पानं च रसानां च कलौ वृषः ।
अधवायाः पुत्रवत्त्वं सगर्भात्वं वृषः कलौ ॥७४॥ कुमार्या अपि बालस्य जननीत्वं वृषः कलौ ।
गणिकायाश्च पूज्यत्वं भाण्डस्यापि कलौ वृषः ॥७५॥ मौनिश्लोकमयी चेष्टा व्यवहारः कलौ बहुः ।
शाठ्यमैतिह्यमेवापि प्रथमं निर्णये कलौ ॥७६ ॥ त्यागिनश्च कलौ सर्वे व्यापारिणो मठे मठे ।
बहुस्त्रीमण्डलाध्यक्षाः सन्न्यासकल्पिनः कलौ ॥७७॥ भृत्यद्वारा सुरपूजाक्षेपकास्त्यागिनः कलौ ।
गृहस्थाः पूजया हीना अपत्यार्चापरायणाः ॥७८ ॥ शासकानामुभयतोमुखवत्त्वं वृषं कलौ ।
धर्मलक्ष्मीप्रभोक्तृत्वं कलौ धर्मो गृहस्थितेः ॥७९॥ कलौ धर्मदासंस्थाया भक्षणं मानवो वृषः ।
दानं स्वल्पं बहुलं चाऽऽदानं धर्मो हि देहिनाम् ॥4.107.८ ० ॥ उत्सवेषु कृपणता कन्याधनस्य भक्षणम् ।
प्रजाशोषणं बहुलं कलौ धर्मोऽभितस्तदा ॥८ १ ॥ अन्याययुद्धकरणं सेवा च कर्मचारिता ।
स्वल्पाऽऽशाबहुला लब्धेर्धर्मः कलौ तदाऽभितः ॥८२॥ मर्यादानां विलोपश्च राजसी मानसी स्थितिः ।
पदे पदेऽनृतता च कलौ वृषोऽभितस्तदा ॥८३ ॥ सर्वजातीयलोकानां सर्वकार्यप्रकारिता ।
सर्ववेषाद्यभिधृतिर्धर्मः कलौ समानता ॥८४॥ औरसाः क्षेत्रजा दासीपुत्राः कलौ समाः सदा ।
दायभागे समास्ते च पुत्र्यश्चापि समास्तथा ॥८५॥ धिष्ण्याधिकारवान् यः स समुदायप्रतिष्ठितः ।
शिष्यः पुत्रश्च मित्रं वा कलौ सङ्घकृतो महान् ॥८६ ॥ विप्रत्वं तनुमात्रं वै तिष्यान्ते तन्तुनाशनम् ।
क्षत्त्रत्वं बलवत्त्वं वै तिष्यान्ते बलनाशनम् ॥८७॥ वैश्यत्वं धनवत्त्वं वै तिष्यान्ते धननाशनम् ।
शूद्रत्वं भृत्यता तिष्ये तिष्यान्ते भृत्यतालयः ॥८८॥ एकाकारं समस्तं वै समधर्माः कलौ जनाः ।
बद्रिके तत्र पापं न कलेर्बलाज्जनेषु वै ॥८९॥ स्वल्पं दानं साधवेऽपि स्वर्गमोक्षप्रदं तदा ।
हरेः कीर्तनमात्रं वै कलौ मोक्षस्य साधनम् ॥4.107.९० ॥ मालिकया जपः कृष्णनारायणेति मोक्षदः ।
जपः पापौषधं तिष्ये नाशकं चाघहारकम् ॥९१ ॥ कल्मषाणां क्षालनं सेवनं सतां गुरोर्हरेः ।
आन्तरे स्मरणं विष्णोः शोधकं पावनं परम् ॥९२॥ भावशुद्धिर्महाशुद्धिस्तिष्ये शुद्धिस्तु नेतरा ।
बाह्यशुद्धिः कलौ काचित् सत्त्वशुद्धिस्तु वै क्वचित् ॥९३ ॥ कर्मशुद्धिः कलौ नास्ति पुण्यशुद्धिर्न सर्वथा ।
जपशुद्धिः कलौ तत्र शस्यते धार्मिकी हि सा ॥९४॥ सर्वार्पणं हरौ कृष्णे गुरौ सनातने प्रभौ ।
कलौ धर्मः प्रशस्तो वै मोक्षदस्तत्र चान्तिमः ॥९५॥ औदासीन्यं परकृत्ये स्वकृत्ये शान्तवृत्तिता ।
कृत्यार्पणं हरौ कृष्णे कलौ मोक्षस्य साधनम् ॥९६॥ सर्वेषां देहिनां तिष्ये षट्कं वै मोक्षसाधनम् ।
सेवनं चार्पणं भक्तिर्ध्यानं दानं च कीर्तनम् ॥९७॥ कृष्णस्य सद्गुरोः सेवा महाशीर्वाददायिनी ।
पावनी स्नेहकर्त्री च परधामप्रदायिनी ॥९८॥ श्रीहरौ वा गुरौ सर्वार्पणं निष्कर्मरूपि तत् ।
नैष्कर्म्यं भोगवर्ज्यं तच्छुद्धिदं मोक्षदं तदा ॥९९॥ भक्तिः स्नेहेन दास्यं वै यथाज्ञावर्तनं सदा ।
हरौ गुरौ हि कैङ्कर्यं स्नेहकृन्मोक्षदं तदा ॥4.107.१०० ॥ ध्यानं मूर्तेर्धारणं श्रीहरेस्तु हृद्ये सदा ।
गुरोर्ध्यानं च हृद्ये तन्मयत्वप्रदायकम् ॥१०१ ॥ तदात्मकता मोक्षो वै नारायणस्वरूपवान् ।
नारायणसमा या तु स्थितिः सा ध्यानसत्फला ॥१०२ ॥ विशिष्यते ततो ध्यानं दिव्यवृषः कलौ सदा ।
ध्यानं मोक्षप्रदं तस्मान्नारायणाङ्गवासदम् ॥१०३ ॥ दानं नारायणे साधौ दीने विप्रे गुरौ द्विजे ।
सत्यां साध्व्यां च विद्यायां परोपकरणादिषु ॥१ ०४॥ सर्वाऽन्तर्यामिरूपे वै कृष्णे दानं प्रमोक्षदम् ।
अक्षय्यफलकं दानं स्वल्पं तच्छाश्वतं हरौ ॥१ ०५॥ दानं सकामनादत्तं स्वर्गदं सम्पदाम्प्रदम् ।
कृष्णबुद्ध्याऽर्पितं सर्वं निर्गुणं मोक्षदं कलौ ॥१० ६॥ कीर्तनं सततं विष्णोर्नाम्नां कृष्ण हरे प्रभो ।
नारायण महाविष्णो पुरुषोत्तम सद्विभो ॥१ ०७॥ स्वाम्यनादिकृष्णनारायणश्रीकृष्णमाधव ।
प्रभोकृष्ण पाशवतीकृष्ण लक्ष्मीश वल्लभ ॥१०८ ॥ भजनं मोक्षदं तिष्ये पापहं च प्रमोददम् ।
बद्रिके तै स्मासाद्वै मयोक्तं तिष्यवर्तनम् ॥१०९ ॥ न विस्तारो हि धर्माणां ह्रासशीले कलौ तदा ।
कल्पिताश्चानुकूलाश्च धर्मास्तत्र कलौ कृताः ॥4.107.११० ॥ स्वल्पधर्मोऽपि तिष्ये वै त्रायते महतो भयात् ।
पठनाच्छ्रवणादस्य तिष्यस्थो निर्भयो भवेत् ॥१११ ॥ इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने कलिधर्माणां सङ्क्षेपतो वर्णनं सेवार्पणभक्तिध्यानदानकीर्तनेतिषट्काऽन्यतमं मोक्षसाधनमित्यादिनिरूपणनामा सप्ताधिकशत-
तमोऽध्यायः ॥१०७ ॥