१०६

श्रीनरनारायप उवाच-
बद्रिके धर्मराजस्तं सनत्कुमारकं मुनिम् ।
विनयेन नृपस्यैव चेष्टितं प्राह चाऽघभृत् ॥१ ॥ दण्डपात्रं स्वयं राजा सनत्कुमार! सर्वथा ।
न मोक्तव्योऽतिपापात्मा महापापकरो हि सः ॥२ ॥ मद्यं मांसं घसाशित्वं कृतवानयमुल्बणम् ।
देवानां निन्दनं मूर्तिनाशं मखविघातनम् ॥३ ॥ देवद्विजधनानां चापहारं कृतवानयम् ।
उच्छेदं दानयज्ञानां कृतवान् स्तैन्यमुल्बणम् ॥४ ॥ कन्याशीलविहन्ताऽयं व्यवायं कृतवानयम् ।
परदाररतश्चायं पशुपक्षिप्रभक्षकः ॥५ ॥ धर्मकार्यविहन्ताऽयं हरिम्मन्योऽतिगर्ववान् ।
नारायणस्य भागान् वै भुक्तवान् स्वयमेव ह ॥६ ॥ यादसां भक्षकश्चाऽयं लुञ्चादो लुण्टकोऽप्ययम् ।
सतीसाध्वीधर्षयिता स्नानतीर्थादिलोपनः ॥७ ॥ देवानां देवतानां च मन्दिराणां विनाशकः ।
निन्दकश्च सतां धर्मकर्मणां पापवाचनः ॥८॥ पापश्रवणकारश्च नास्तिकोऽधर्मवर्त्तनः ।
वृत्तिहा जीविकाहन्ता प्रसह्य शीलनाशकः ॥९ ॥ शरणागतहन्ताऽयं स्वर्गमार्गनिरोधकः ।
देवहविर्विरोधी च वह्निपूजाविनाशनः ॥4.106.१ ०॥ साधूनां नाशकश्चाऽयं न मोक्तव्यः कथञ्चन ।
कोटिवर्षसहस्राणि कोटिवर्षाऽर्बुदान्यपि ॥१ १॥ भुञ्जानस्य स्वपापानां निस्तारोऽत्र तथापि न ।
एवंविधोऽयं पापिष्ठो भगवन्निन्दकः सदा ॥१२॥ कृष्णधिष्ण्यस्थितो नित्यं नैवेद्यं भुक्तवानयम् ।
यावत् क्षितिर्भवेद् याम्यलोको यावच्च विद्यते ॥१ ३॥ तावच्च निजपापानि भुञ्जानस्यापि नाऽवधिः ।
एवं पापतमश्चाऽयं मोक्तव्यो न कथञ्चन ॥१४॥ साधो राजा स्वयं पापी प्रजानां पापयोगदः ।
प्रजानां पापमार्गेषु प्रेरकोऽयं यतः सदा ॥१५॥ अतः प्रजानां पापात्मा प्रजापापफलाश्रयः ।
ब्रह्मणो वर्षपर्यन्तं मोक्तव्योऽयं न वै क्वचित् ॥१६॥ सर्वपापैर्मुच्यतेऽपि देवद्रोहान्न मुच्यते ।
विश्वासघातकर्तुश्च द्रोग्धुर्देवस्य सद्गुरोः ॥१७॥ धर्मघातकिनश्चापि निष्कृतिर्नैव विद्यते ।
देवानां निन्दकस्यापि यज्ञनाशकरस्य च ॥१८॥ मूर्तेर्हर्तुर्न वै चास्ति निष्कृतिस्तु मुने क्वचित् ।
तस्मादयं न मोक्तव्यो ब्रह्माण्डपापवानयम् ॥१९॥ श्रीसनत्कुमार उवाच-
योग्यं दण्डप्रदानं वै यमस्य दण्डशासितुः ।
योग्यं दण्डान्मोचनं वै साधोर्दयावतस्तथा ॥4.106.२०॥ पापिनां पापनाशार्थं साधवो निर्मिताः पुरा ।
ब्रह्मणा निर्मितश्चाऽहं पापनाशाय मुक्तये ॥२१ ॥ ऋभुश्च सनकाद्या मे भ्रातरोऽपि तथा कृताः ।
दयालवोऽघहन्तारो मुक्तिदाः सर्वदेहिनाम् ॥२२॥ राजा तु प्राप्तवान् दण्डं बहुधा शिक्षणाय वै ।
प्रजादुःखं महच्चापि विद्यते कामरूपके ॥२३ ॥ अनावृष्टिकृतं रोगकृतं दैवापराधजम् ।
मोक्तव्यास्ताः प्रजाश्चापि मया वृष्टिविधापनात् ॥२४॥ द्रुतं मोचय राजानं नीत्वा प्रयामि नान्यथा ।
स्वस्ति तेऽस्तु सदा धर्म साधोर्वाक्यानि पालय ॥२५॥ हरेर्वाचः सतां वाचो नोल्लङ्घ्या वै कदाचन ।
अप्रसन्नेषु सत्स्वत्र हानिर्महती चापतेत् ॥२६॥ श्रीधर्मराज उवाच-
अस्य पापानि कस्मैश्चिद् देयानि तु मुने त्वया ।
राज्ञे देयानि शेषाणि ततो मुक्तिं प्रयास्यति ॥२७॥ पापदानं कष्टदानं दुष्टदानं हि विद्यते ।
पापशुद्धिं ऽ ना कर्ता न विमोक्तुं समर्हति ॥२८॥ पुत्रो वा प्रमदा पुत्री भ्राता गुरुश्च वा सखा ।
पापं चेन्नृपतेः सर्वं गृह्णीयान्मुच्यते तदा ॥२९॥ श्रीसनत्कुमा उवाच-
तिष्ठ धर्म क्षणं पत्नी विद्यतेऽस्य नयाम्यहम् ।
उक्त्यैवं क्षणमात्रेणाऽनयद् राज्ञीं मुनिर्यमम् ॥4.106.३० ॥ वद राजा मुच्यतेऽत्र पापं गृहाण भूभृतः ।
सा प्राह नाऽहं गृह्णामि पापं कष्टप्रदं यतः ॥३१ ॥ पुण्यं गृह्णामि पत्युश्च न पापं कष्टद्ं क्वचित् ।
मया कृतानि पापानि तानि गृह्णातु भूपतिः ॥३२॥ राज्ञः पापेन मे पुत्राः पुत्र्यो नष्टाः शतं शतम् ।
प्रजानाशो वर्तते च पापं गृह्णामि नैव ह ॥३३ ॥ रुग्णाऽहं दुःखसंव्याप्ता कथं गृह्णामि पापकम् ।
पुण्यस्य भागिनी स्यां वै न स्यां पापस्य भागिनी ॥३४॥ इत्युक्त्वा विररामाऽसौ पत्नी मौनं दधार ह ।
धर्मराजस्तदा बद्रि प्राह सनत्कुमारकम् ॥३१॥ गृहाणर्षेऽस्य पापानि नय तं निजराष्ट्रकम् ।
ओमित्याह दयालुः स पापं जग्राह वारिणा ॥३ ६॥ राजा निर्दोषतां प्राप्तो यमेन मोचितस्तदा ।
सनत्कुमारो भगवान् पूजितोऽथ यमादिभिः ॥३७॥ नृपं नीत्वा च यावत् सः प्रस्थितस्तावदेव तु ।
नारकाश्चासङ्ख्य जीवाश्चक्रुराक्रोशमुल्बणम् ॥३८ ॥ प्रत्वलामो वयं साधो माऽस्मान् विहाय याहि वै ।
तवाऽऽगमेन कुण्डस्था वयं त्वद्वायुना तथा ॥३ ९॥ दर्शनेन तव साधो परा शान्तिं गतास्त्विह ।
दुःखानि देहसंस्थानि याम्यविषोल्बणानि च ॥4.106.४०॥ तैजसानि ज्वलनानि नष्टानि चान्तराण्यपि ।
तस्मादायाहि साधो त्वं रक्षयाऽत्र च नः सदा ॥४१ ॥ इत्येवं नारकाः साधु प्रार्थयामासुरुत्सुकाः ।
सनत्कुमारो भगवान् दयां प्राप्य पुनस्तदा ॥४२॥ धर्मराजं समुवाच राजन्नेताँश्च नारकान् ।
विमोचय महादुःखान्नरकान्मम वाञ्च्छया ॥४३।.।
साधोः समागमो नित्यं दुःखिनां दुःखनाशकः ।
शान्तिदश्चाऽघहश्चापि परमोद्धारकारकः ॥४४॥ यमराज महाबाहो दयां कृत्वा विमोचय ।
नाऽन्यथाऽहमितो यामि तिष्ठाम्यत्रैव ते गृहे ॥४५॥ इत्युक्तो यमराजश्च प्रत्युवाच मुनिं शनैः ।
मुने समर्थ एवाऽसि किन्तु न्यायो न विद्यते ॥४६॥ पापिनां मोचनं नैव योग्यं यमालयात् क्वचित् ।
पापभोगं विना नैव त्यक्तव्या निगडस्थिताः ॥४७॥ यद्येवं मोचये दुष्टान् न्यायालयो निरर्थकः ।
साधूनादाय बहवश्चायास्यन्तीह मानवाः ॥४८॥ निजान् विमोचयिष्यन्ति नारकान् वा तथाऽपरान् ।
अन्धन्यायप्रवाहोऽयं प्रवर्त्स्यते ततः परम् ॥४९॥ तस्मादिमे समस्ता वै त्यक्तव्या नारका नहि ।
नृपं नीत्वा मुने याहि यथेष्टं कुरु भूतले ॥4.106.५० ॥ इत्युक्तो बद्रिके साधुः सनत्कुमार आचरत् ।
निषद्य भगवन्नामरटनं धुन्यमुत्तमम् ॥५१ ॥ ‘बालकृष्ण हरेकृष्ण कृष्णनारायण प्रभो ।
अनादिश्रीकृष्णनारायण विष्णो हरे विभो’ ॥५२॥ सततं श्रावयामास भ्रमित्वाऽखिलतत्पुरम् ।
नारकाश्च समाकर्ण्य मुक्तबन्धास्तदाऽभवन् ॥५३॥ यमदूता ययुर्दूरं श्रुत्वा नाम हरेस्तदा ।
नारका नरकं त्यक्त्या ययुः स्वर्गं तदोत्तरम् ॥५४॥ सनत्कुमारः सततं बभ्राम दशवारकम् ।
यमलोके मुहुः संश्रावयन् कृष्णनरायण ॥५५ ॥ अनादिश्रीकृष्णनारायण गोपालबालक ।
कम्भराश्रीमहालक्ष्मीनन्दनाऽच्युत केशव ॥५६॥ प्रभोकृष्ण परस्वामिन् कृष्णनारायणाऽच्युत ।
स्वामिन्नारायणविष्णो पुरुषोत्तम माधव ॥५७॥ तालिकां वादयित्वैवं मुनिर्धुन्यं यमालये ।
चकार परितस्तत्र विचरन् मोक्षयन् जनान् ॥५८॥ नारका नरकान् हित्वा हित्वा भयं च दूतजम् ।
निर्गत्य दिव्यदेहाश्च भूत्वा भूत्वा दिवं ययुः ॥५९॥ कुण्डानि प्रायशस्तत्र रिक्तानि चाऽभवँस्तदा ।
मुनेर्भजनवेगेन कुण्डानि रिक्ततां ययुः ॥4.106.६ ०॥ नैकोऽपि नारकी तत्र दृश्यते तु यमालये ।
एवं वै कृतवान् चानुग्रहं सनत्कुमारकः ॥६ १ ॥ मायापालो नृपश्चापि व्यधाद् भजनमुत्तमम् ।
अन्तरात्मन् हरे स्वामिन् कृष्णनारायणेति च ॥६ २॥ तालिकां वादयित्वैव चक्रे धुन्यं प्रवेगतः ।
नारकाः सुखितास्तेन मोचिताश्च यमालयात् ॥६३ ॥ धर्मराजस्तथा दूताश्चित्रगुप्तादयोऽपि च ।
यमाश्च भृत्यवर्गाश्चाऽभवन् गलितगर्वकाः ॥६४॥ याम्यलोके न चैकोऽपि शिष्यते दण्डदोषवान् ।
सनत्कुमारो भगवान् प्रेषयामास तान् दिवम् ॥६९॥ यमो विस्मयमापन्नो पूजायामास तं मुनिम् ।
अहो साधोः प्रमाहात्म्यं हरेरिव महत्तमम् ॥६६॥ अन्यथाकर्तुमेवाऽपि समर्थोऽस्ति हरिर्यथा ।
राजा प्रसन्नतां प्राप्तो यथा निगडबन्धिनः ॥६७॥ विमोचयति तूर्णं स्वेच्छया तद्वन्महामुनिः ।
समर्थानां प्रभावाऽग्रे नियमा यान्ति सङ्क्षयम् ॥६८ ॥ पापिनां पापनाशाय समर्थाः सन्त एव ह ।
भाग्यरेखासुसंव्यत्यासेऽपि शक्ता हि साधवः ॥६९॥ शापाऽनुग्रहशक्ताश्च तारकाः पापवारकाः ।
पुण्यपुञ्जप्रदातारः समर्थाः साधवोऽन्वहम् ॥4.106.७ ० ॥ यत्र नारायणकृष्णस्वामीश्रीर्वर्तते हृदि ।
सर्वा हि शक्तयस्तत्र वसन्ति साधुमाधवे ॥७ १ ॥ इत्युक्त्वाऽऽह यमेशस्तं क्षन्तव्योऽहं सदा त्वया ।
साधुनाऽभ्युदयायाऽपि क्षन्तव्या गृहधर्मिणः ॥७२॥ इत्यभ्यर्थ्य ददौ पूजां मुनये यमराट् स्वयम् ।
पुष्पमालां चन्दनं च नीराजनं च दण्डवत् ॥७३ ॥ नैवेद्यं मिष्टमिष्टं च क्षीरामृतं सुभोजनम् ।
जलामृतं शुभं चापि मुखवासं तथोत्तमम् ॥७४॥ पादौ प्रक्षाल्य दुग्धेन पपौ धर्मः स्वयं मुनेः ।
धूम्रोर्णाऽपि च तत्पत्नी पपौ पादजलं मुनेः ॥७५॥ चित्रगुप्तादयश्चापि ब्रह्मपुत्राश्च लेखकाः ।
पपुर्मुनेः पादवारि प्रसादं जगृहुस्ततः ॥७६॥ यमदूता समस्ताश्च श्रवणा पितरस्तथा ।
अन्येऽपि भृत्यवर्गाश्च यमराजकुटुम्बिनः ॥७७॥ सर्वे चक्रुर्दण्डवच्च सनत्कुमारकं मुनिम् ।
विदायं चार्पयामासुर्जयशब्दैः सुघोषितैः ॥७८॥ सनत्कुमारस्तान् सर्वानाशीर्वादैः प्रयुज्य च ।
व्योममार्गेण राजानं नीत्वा कामाक्षिणीं ययौ ॥७९॥ राजपत्नी च राजानं चास्थापयत्तदालये ।
सदेहौ तौ प्रवीक्ष्यैव याम्यदुःखानि सर्वथा ॥4.106.८ ० ॥ जातौ तदास्तिकौ सर्व दैवकार्यपरायणौ ।
यज्ञारम्भं चक्रतुश्च विप्रैर्महर्षिभिः शुभम् ॥८ १ ॥ विष्णुयागे ददतुस्तौ दक्षिणां कोशरिक्तताम् ।
सर्वस्वं नाणकं स्वर्णं रौप्यं ददतुर्भावतः ॥८२॥ सनत्कुमारो भगवान् वर्तयामास चाऽध्वरम् ।
मेघो ववर्ष चात्यर्थं रोगा नष्टाः समन्ततः ॥८ ३॥ राजयक्ष्मा नृपतेश्च नष्टो निर्मूल एव ह ।
मुनेः कृपया राष्ट्रं च सस्यसम्पत्सुशोभनम् ॥८४॥ जातं यावच्च वै तावत् साधुर्ददौ नृपाय तु ।
अक्षयां तुम्बिकां दिव्यां मिष्टान्नपूरितां शुभाम् ॥८५॥ साच्छादनां तथा चाऽन्यामक्षय्यवारिसम्भृताम् ।
आज्ञां च दत्तवान् राज्ञे राज्ञ्यै सनत्कुमारकः ॥८ ६॥ अरिक्ताभ्यां तुम्बिकाभ्यामन्नवारि प्रपूर्णकम् ।
आच्छाद्य दक्षहस्तेन दातव्यं च निरन्तरम् ॥८७॥ अक्षयं तज्जलमन्नं वर्षमात्रं भविष्यति ।
ततस्ते तुम्बिके मह्यं स्वयमेवाऽऽगमिष्यतः ॥८८॥ ‘ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा’ ।
मन्त्रं ददौ नृपायाऽपि राज्ञ्यै प्रजाभ्य इत्यपि ॥८ ९॥ इत्युक्त्वा दक्षिणां लब्ध्वा प्रदत्वा तुम्बिके ततः ।
मुनिर्ययौ व्योमपथा सत्यलोकं सुखाश्रयम् ॥4.106.९० ॥ मृतानां च तदा राजाऽवभृथे श्राद्धमाचरत् ।
तेऽपि पीत्वा च भुक्त्वा च पितरः प्रेतसञ्ज्ञकाः ॥९१ ॥ ब्रह्मपुत्रीजले स्नात्वा मुक्ता भूत्वा ययुर्दिवम् ।
कामाक्षी सुप्रसन्ना च सञ्जाता सर्वकामदा ॥९२।
राजा तां प्रत्यहं राज्ञी चापि पुपूज मातरम् ।
देवालयान् समस्तांश्च कारयामास वै पुनः ॥९३ ॥ प्रतिष्ठां कारयामास मायापालः पुनस्तथा ।
जीविकां दापयामास योजयामास भूसुरान् ॥९४॥ अहिंसां ब्रह्मचर्यं चाऽस्तेयं ररक्ष भूपतिः ।
मांसमद्यादिसन्त्यागं चकार सर्वथा नृपः ॥९५॥ कथोत्सवान् सुबहुलान् कारयामास वै नृपः ।
अन्नसत्राणि रम्याणि विद्याशालाः सुशोभनाः ॥९ ६॥ साध्वाश्रमाँश्च विपुलान् कारयामास शोभनान् ।
धर्मकृत्यानि दादानि सतीसाध्व्यादिसेवनम् ॥९७॥ अनाथदीनरक्षां च कारयामास भूपतिः ।
भजनार्थं मण्डलानि क्लृप्तयामास राष्ट्रके ॥९८॥ ‘बालकृष्ण हरिकृष्णाऽनादिकृष्णनरायण ।
राधालक्ष्मीपते मुक्तपते मोक्षपरायण’ ॥९९॥ एवं धुन्यं प्रजाश्चक्रुर्मन्त्रजापं प्रचक्रिरे ।
कृपया परमेशस्य वैष्णवं राष्ट्रमेव तत् ॥4.106.१०० ॥ सञ्जातं भगवन्मार्गपरायणं समस्तकम् ।
मोक्षमार्गगतं सर्वं प्रजाः कालेन मोक्षणम् ॥१०१ ॥ प्रापुर्नृपोऽपि कालेन सनत्कुमारतारितः ।
विमानेन स्त्रिया साकं ययौ धामाऽक्षरं हरेः ॥१ ०२॥ एवं बद्रीप्रिये! साधुः सर्वपापप्रणाशकः ।
सर्वपुण्यप्रदश्चाऽपि कृपालुः सेवितो यदि ॥१० ३॥ मोक्षं दद्याद् दिवं दद्याद् व्यसनानि विनाशयेत् ।
कलिकालमहादोषान्नाशयेत् क्षणमात्रतः ॥१ ०४॥ निगडानि नाशयेच्च मायाबन्धं विमोचयेत् ।
प्रापयेत् परमात्मानं कृपापात्रं निजाश्रितम् ॥१ ०२॥ साधुर्वै साधनं तस्मात् कलौ मोक्षप्रदं महत् ।
दिव्यं पात्रं परेशस्य साधुः सर्वार्थसम्प्रदः ॥१ ०६॥ बद्रिके चातिपापानां नाशकः साधुसत्तमः ।
सेवनीयः कलौ लोकैः सर्वेच्छापूरको हरिः ॥१ ०७॥ इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने कामरूपभूपतेर्नाम्ना मायापालस्य सदेहयमलोके यातनाभोगः, सनत्कुमारसाधुना कृतस्तस्योद्धारश्चेत्यादिनिरूपणनामा षडधिकशततमोऽध्यायः ॥१०६ ॥