श्रीनरनारायण उवाच-
ततः श्रीभगवान् बद्रि ज्ञात्वा भावान् स्वयोषिताम् ।
रञ्जयँस्तास्तदा प्राह सर्वकामार्थकृद्वचः ॥१ ॥
यथेष्टं वः प्रदास्यामि युगलं युगलानि वा ।
पुत्रीसमूहमात्रं वा पुत्रसमूहमात्रकम् ॥२ ॥
पुत्रपुत्र्युभयं चापि न्यूनपुत्र्यधिकात्मजम् ।
न्यूनपुत्राऽधिकपुत्रीं बह्वपत्यानि वाऽर्पये ॥३ ॥
यासां यस्या यथा यादृङमनो वा तृप्तिमर्जयेत् ।
तथा तावदपत्यानि दास्ये सर्वाभ्य एव ह ॥४ ॥
सृष्टिः सङ्कल्पजा श्रेष्ठा धामेश्वरादिलोकगा ।
सूष्टिर्दर्शनजा चान्या देवपित्रादिलोकगा ॥५ ॥
सृष्टिः स्पार्शनजन्या तु तापसानां च योगिनाम् ।
सृष्टिर्मैथुनजा लोके मनुष्यपशुपक्षिणाम् ॥६ ॥
सत्ये सकल्पजा सृष्टिस्त्रेतायां दर्शनोद्भवा ।
द्वापरे स्पर्शमात्रोत्था कलौ मिथुनकर्मजा ॥७ ॥
गर्भे बीजप्रदानोत्था सूतकादिमयी हि सा ।
सृष्टिस्तु मलिना सैषा नेदानीं वर्तते भुवि ॥८ ॥
स्पर्शमात्रोद्भवा चापि गर्भाधानात्मिका हि सा ।
सापि तद्वत्सु मलिना न श्रेष्ठा सूतकान्विता ॥९ ॥
सृष्टिर्दर्शनजा चापि नारीगर्भोद्भवा हि सा ।
पत्नी पत्युर्वीक्षणेन सगर्भा जायते यतः ॥4.101.१०॥
सूतेऽपि च ततो गर्भजन्या सापि न चोत्तमा ।
तस्मात् पत्न्यो भवत्यो वै यदि वाञ्छथ मानसीम् ॥१ १॥
सङ्कल्पजां प्रजां दिव्यां मालिन्यसूतकोज्झिताम् ।
ददामि प्रत्येकपत्न्यै युगलानि शुभानि वै ॥१ २॥
कन्या मातृसमाकाराः पुत्रान् मद्रूपरूपिगः ।
यथेष्टं प्रददाम्यत्र प्रब्रुवन्तु यदर्थितम् ॥१ ३॥
अयोनिजानां बालानां सङ्कल्पोत्थसुदेहिनाम् ।
पितृसङ्कल्पवत्तेषामवस्था जायते क्षणात् ॥१४॥
जातमात्रा युवानश्च किशोरा जरठाश्च वा ।
यथेच्छन्ति पितरश्च तथा भवन्ति वै द्रुतम् ॥१५॥
जातकर्मादिसंस्काराश्चोपवीतादयस्तथा ।
वेदाध्ययनयत्नाश्च ब्रह्मचर्यव्रतादिकम् ॥१६॥
सर्वे तेषां स्वपितॄणां सङ्कल्पोत्थं क्षणार्जितम् ।
जायते एव तत्राऽस्ति बलं पितृकृतं परम् ॥१७॥
न गर्भसूतकं तेषां न संस्कारसमाऽऽगमः ।
न कालाऽपेक्षणं तेषां प्राकट्यं दिव्यमेव यत् ॥१८॥
सङ्कल्पोत्थाः प्रजा ईशेश्वर्यो भवन्ति सर्वदा ।
स्वभावसिद्धयः सर्वा जरामरणवर्जिताः ॥१९॥
तत्त्वपराभवशून्याः शाश्वताऽऽनन्दसम्भृताः ।
विष्णुतुल्याः प्रजाः सर्वा जायन्ते मानसोद्भवाः ॥4.101.२०॥
परब्रह्मस्वरूपेण मया कृष्णस्तु मानसः ।
गोपीपतिः कृतो दिव्यो गोलोकाधिपतिः पुरा ॥२१ ॥
परब्रह्मस्वरूपेण मया व्यूहेश्वरस्तथा ।
वासुदेवो मानसश्च कृतोऽमृताऽधिपः प्रभुः ॥२२॥
परब्रह्मस्वरूपेण मया नारायणः पुरा ।
कृतो वैकुण्ठनाथश्च लक्ष्मीपतिर्हि मानसः ॥२३॥
परब्रह्मस्वरूपेण महाविष्णुः पुरा मया ।
कृतः श्रीधामनाथश्च महालक्ष्मीपतिर्हृदा ॥२४॥
परब्रह्मस्वरूपेण मयाऽव्याकृतपालकः ।
भूमा कृतो न्यायदाता मानसश्चेश्वराधिपः ॥२५॥
परब्रह्मस्वरूपेण मया वै मानसाः सुताः ।
अवतारा असङ्ख्याता धृता हर्यादयः पुरा ॥२६॥
परब्रह्मस्वरूपेण मया मन्मूर्तिशक्तयः ।
राधारमाद्या वामाङ्गरूपा धृता निजप्रियाः ॥२७॥
मानस्यस्ताः समस्ता वै माणिकीकमलादिकाः ।
ब्रह्मप्रिया यूयमत्र हरिप्रियाश्च मे स्त्रियः ॥२८॥
असङ्ख्यातास्तथा मुक्तानिका मन्मानसोद्भवाः ।
महाकालो महामाया विद्या मन्मानसोद्भवाः ॥२९॥
मुक्ता मे मानसोद्भूताकाराः सन्त्यपि धामनि ।
एषा ये मानसी सृष्टिरगर्भोत्थोत्तमोत्तमा ॥4.101.३०॥
योनिकोशोज्झिता पाकरहिता सा ह्ययोनिजा ।
दिव्यसच्चित्सुखपूर्णा सर्वा मत्सदृशी मता ॥३ १॥
तादृशीं सुप्रजां पत्न्यो यदि वाञ्च्छथ तां ददे ।
प्रब्रुवन्तु द्रुतं चात्र ददामि तत्र मा चिरम् ॥३२॥
कृतं पयोव्रतं वर्षमदित्या वामनाप्तये ।
नात्र पयोव्रतापेक्षा सर्वसिद्धिप्रदे मयि ॥३३॥
इत्युक्ता बद्रिके पत्न्यो वव्रिरे मानसीः प्रजाः ।
समानन्याययोगिन्यः प्रत्येकं युगलं शुभम् ॥३४॥
एकां पुत्रीमेकपुत्रं युगपद् ऋणमुक्तये ।
वन्ध्यात्वादिनिवारार्थं नाधिकं न्यूनमेव न ॥३५॥
अनादिश्रीकृष्णनारायणः प्राह तथास्त्विति ।
वनेष्वेवाऽभवन् पत्न्यस्तूर्णं युगलशोभिताः ॥३६॥
पुत्रीपुत्रान्विताः सर्वा मातापितृपदास्पदाः ।
प्रत्येकस्याः पुरस्तत्र प्रज्ञाकृष्णेच्छया द्रुतम् ॥३७॥
अपत्यं युगलं जातं युवावस्थं विभूषितम् ।
सूर्याऽयुतादिभाव्याप्तं हारमुकुटशोभितम् ॥३८॥
मातापितृगुणरूपैश्वर्याकृत्यादिराजितम् ।
कृतविद्यं कृतसर्वशृङ्गारं सहसंस्कृतम् ॥३९॥
कोट्यर्बुदाब्जपत्नीनां युगपद् युगलानि वै ।
कोट्यर्बुदाब्जपत्नीनां सरूपाणि शुभानि च ॥4.101.४० ॥
कोट्यर्बुदाब्जसङ्ख्यानि प्राविरासन् वनान्तरे ।
बद्रिके ध्यानयोगा ये सुरा गान्धर्वकोटयः ॥४१॥
अप्सरसः किन्नराद्या ज्ञात्वा कृष्णचमत्कृतिम् ।
दिव्यदृष्ट्या द्रुतं तत्राऽऽपेतुरम्बरमार्गतः ॥४२॥
पुष्पवृष्टिं चान्दनीं च वृष्टिं व्यधुस्तथाऽऽक्षतीम् ।
दध्यङ्कुरादिवृष्टिं च जयनादान् प्रचक्रिरे ॥४३॥
दिव्यवाद्यानि चादायाऽऽगत्वा वादनयोगिनः ।
वादयन्ति स्म वाद्यानि महोत्साहसमन्विताः ॥४४॥
गान्धर्वा गायनं चक्रुर्नर्तक्यो नर्तनं व्यधुः ।
मङ्गलानि व्यधुर्नार्यस्तुष्टुवुर्जगदीश्वराः ॥४५॥
मुक्तानिकाः सामगीतीर्जगुः प्रमोदसम्भृताः ।
आशिषः प्रददुः सिद्धाः साधवश्च महर्षयः ॥४६॥
वनदेव्यो मङ्गलानि जगुश्चानर्चुरादरात् ।
इत्येवं बद्रिके तत्राऽपत्यजन्ममहोत्सवाः ॥४७॥
अभवन् बहुधाऽरण्ये वने ग्रामे गृहे गृहे ।
आययुः श्रीहरिणा ताः सापत्याः कृष्णयोषितः ॥४८॥
स्वस्वापत्ययुतास्तूर्णं स्वस्वप्रासादकेषु वै ।
अश्वपट्टसरोवारिजलैः कृष्णोऽभिषेचनम् ॥४९ ॥
तन्निमित्तं महाहर्षभरं चकार तत्र ह ।
जातसंस्कारमेवापि लोमशो वै समाचरत् ॥4.101.५० ॥
प्रियःकृष्णो ददौ तत्र दानानि कानकानि च ।
मणिरत्नराजतानि धनाऽन्नाऽम्बरकाण्यपि ॥५ १ ॥
गृहगोऽश्वविभूषाश्च भूपात्रोपस्कराणि च ।
विप्रेभ्यो यतिसाधुभ्यो दीनानाथेभ्य इत्यपि ॥५२॥
योषिद्भ्यो बालबालाभ्यो ददौ दानानि वै तदा ।
भोजनानि सुमृष्टानि भिक्षुकेभ्यो ददौ तदा ॥५३ ॥
प्रजाः पुत्रादिवीक्षार्थं चाययुः कृष्णमन्दिरम् ।
वीक्ष्य वीक्ष्य हरेः पुत्रान् पुत्रीर्युगलरूपिणः ॥५४॥
प्रमोदं मोदमासाद्याशीर्वादान् प्रददुश्च ते ।
जन्मोत्सवोत्तरं तूर्णं सद्यःसंस्कारयोग्यताम् ॥५५॥
वीक्ष्य श्रीलोमशस्तेषां युगलानां तदैव हि ।
कर्मप्रवाहसिद्ध्यर्थं संस्कारान् स व्यधात् परान् ॥५६॥
हवनानि व्यधात्तत्तन्निमित्तानि च लोमशः ।
श्राद्धकर्माणि सर्वाणि दानानि भोजनानि च ॥५७॥
नामकरणसंस्कारं चकार लोमशो मुनिः ।
दिव्यनामानि सर्वाणि पुराणानि व्यनिश्चयत् ॥५८ ॥
तत्राऽष्टकृष्णपत्नीनां मुख्यानां पुत्रपुत्रिकाः ।
नामभिस्ते कथयामि बद्रिके शृणु चादितः ॥५९ ॥
सर्वज्येष्ठा शिवस्वामिसुता या काशिकोद्भवा ।
सर्वाग्र्या सुखदालक्ष्मीस्तस्याः पुत्रस्तु नामतः ॥4.101.६० ॥
मुकुन्दविक्रमो ज्येष्ठो मुक्तिबाला तु पुत्रिका ।
तयोर्युगलं नित्यं वै मोदते हरिमन्दिरे ॥६१ ॥
अथेतरा अष्टपत्न्यो लक्ष्मीः क्षीरोदपुत्रिका ।
कल्पद्रुमसुता श्रीश्च सूर्यपुत्री प्रभाऽऽत्मिका ॥६२॥
दिशां पुत्री पाशवती ललिता ब्रह्मणः सुता ।
जया सदाशिवपुत्री माणिकी दिव्यभूतिजा ॥६३ ॥
वैराजनाभिजा पुत्री कमला तत्प्रजाः शृणु ।
लक्ष्म्याः पुत्रो वासुदेवः पुत्री तु दिव्यवासवी ॥६४॥
श्रियाः पुत्रो रासकृष्णः पुत्री रासेश्वरीति च ।
प्रभायाश्च प्रभुः पुत्रो ब्रह्मकान्तिः सुता तथा ॥६५॥
पाशवत्यात्मजोऽनन्तः पुत्री च बृहतीश्वरी ।
ललितायाः सुतो लालः सुता लीलेश्वरी तथा ॥६६॥
जयाया विजयः पुत्रो विजयेशी तु पुत्रिका ।
माणिक्याः कौस्तुभमणिः सुतः सुता मणीश्वरी ॥६७॥
कमलायाः पद्मनाभः सुतः सुता नभोवती ।
इत्येवमष्टपत्नीनां युगलाऽपत्यकाभिधाः ॥६८॥
अथाऽपराः शतं पत्न्यस्तासां नामानि वै शृणु ।
तिस्रस्तथाऽधिकाश्चापि त्र्यधिकं शतमेव ताः ॥६९॥
तिस्रो मुख्या रमा राधा नारायणीति नामभिः ।
रमायास्तु सुतो रामः पुत्री रामायणी तथा ॥4.101.७०॥
राधायास्तु सुतो रायः सुता ऋद्धिरया मता ।
नारायण्या नरः पुत्रः पुत्री नरोत्तमी तथा ॥७१॥
शतपत्न्यभिधानानि शृणु बद्रीप्रियेऽधुना ।
ब्राह्मी भागवती धामा भार्गवी च सरस्वती ॥७२॥
मङ्गला मानसा रेवा भक्तिर्गङ्गा रतिः कृतिः ।
मुक्तिरेकादशी पुण्या कामदुघा च तूलसी ॥७३॥
सती मूर्तिर्गोमती च स्वर्णरेखा च नन्दिनी ।
सावित्री विरजा दुर्गा दोला पुष्पा कलावती ॥७४॥
बदरी माधवी पम्पा षष्ठी प्रीतिः ऋतध्वजी ।
कुशला काशिका चान्द्री मणिर्ज्योत्स्ना प्रभावती ॥७५॥
आर्षी सुरसा नन्दा च काञ्चनी हरिणी हनूः ।
विश्वा वितस्तिः रसिका सुपर्णा च हिरण्मयी ॥७६॥
प्रभूतिः करिणी पद्मा पिङ्गला च सरोजिनी ।
पूर्णिमा वल्लभा कार्ष्णी जोष्ट्री ज्योत्स्ना च पद्मिनी ॥७७॥
सुदुघा योगिनी विद्योतिनी शान्तिश्च मालती ।
रक्ता चोरुक्रमा वैश्वी देवता कुमुदा शिवा ॥७८॥
तरला रेणुमिश्रा च कानकी नलिनी परी ।
सुनन्दा कलिका साध्वी सुधाऽम्बा प्रकृतिः शमी ॥७९॥
श्यामा बाला मञ्जुला च पल्लवा वल्लवीश्वरी ।
वेदी मोघवती श्वेता वैष्णवी मालिनी स्तवा ॥4.101.८०॥
अमरी चारणी शीला दुग्धेति शतपत्निकाः ।
तासां युगलापत्यानां नामानि बद्रिके शृणु ॥८ १ ॥
क्रमशस्तत्र वै ब्राह्म्या ब्रह्मरातः सुतः खलु ।
सुता बृंहणिकानाम्नी मातृरूपगुणान्विता ॥८२॥
भागवत्याः सुतो भर्गो पुत्री भाग्येश्वरी शुभा ।
सुधामायाः सुतश्चोर्जबलः सुता च धामिनी ॥८३ ॥
भार्गव्या बह्वृचः पुत्रः पुत्री ब्रह्मरुचिस्तथा ।
सरस्वत्याः सुताः शार्ङ्गधरः सुता तु कौमुदी ॥८४॥
मङ्गलायाः सुतः प्रभासकः सुता तु भास्वरा ।
मानसायाः सुतः सम्मानेशः सुता सुधोदरी ॥८५॥
रेवाया वारिजाक्षश्च सुतः सुता तु वारुणी ।
भक्तेः सुतस्तु सर्वज्ञः सुता शेमुषिका शुभा ॥८६॥
गङ्गायास्तारकः पुत्रः पुत्री चातुरदीक्षिका ।
रत्याः पुत्रो महानन्दः पुत्री सन्तर्पिणी सती ॥८७॥
कृतेः सुतस्तु सूद्योगः सुता तु नयराजती ।
मुक्तेः सुतः सुनिर्वाणः सुता द्युशाश्वती शुभा ॥८८॥
एकादश्याः सुतः पुण्यव्रतः सुता पतिव्रता ।
पुण्याया वृषविद्यश्च सुतः सुता सतीश्वरी ॥८९॥
सुतः कामदुघायास्तु विष्णुः सुता सुरार्हणा ।
तुलस्याः कृष्णमालस्तु सुतः सुताऽर्कमञ्जरी ॥4.101.९०॥
सत्याः सुतः ऋतवार्द्धिः सुता ऋतम्भरा शुभा ।
मूर्तेः सुतश्चानिरुद्धः सुताः सुदर्शनेश्वरी ॥९ १॥
गोमत्याः पावनः पुत्रः पुत्री पीयूषवर्षिणी ।
सुतः सुवर्णरेखायाः श्रीवत्सः प्रोज्ज्वला सुता ॥९२॥
नन्दिन्याश्चाषुतोषश्च सुतः सुता विरामिणी ।
सावित्र्या ब्रह्मद्युम्नश्च सुतः सुता गिरीश्वरी ॥९३॥
विरजायाः सुतः सङ्कर्षणः सुता त्वजेश्वरी ।
दुर्गाया देवगणपः पुत्रः पुत्री कृषीश्वरी ॥९४॥
दोलायाः स्वर्णलतिका पुत्री पुत्रश्च तोरण ।
पुष्पायास्तु परागो वै पुत्रः सरघा पुत्रिका ॥९५॥
कलावत्याः कारुनाथः सुतः सुता चमत्कृतिः ।
बदर्या बदरः पुत्रः पुत्री पत्रावली शुभा ॥९६॥
माधव्या मधुकृत् पुत्रो मधुकी पुत्रिका शुभा ।
पम्पायाः सारसी पुत्री वीर्यसेतुस्तु पुत्रकः ॥९७॥
षष्ठीदेव्याः सुता रक्षावती पुत्रस्तु रक्षणः ।
प्रीत्याः सुतः सुमेलार्यः सुता प्रोन्मीलनी शुभा ॥९८॥
ऋतध्वज्याः सुता शान्ता सुतः सत्यव्रतः शुभः ।
कुशलायाः सुतो योगीश्वरः सुता सुयोगिनी ॥९९॥
काशिकायाः सुतः प्राज्ञः सुता तु तैजसी शुभा ।
चान्द्र्याः सुतस्तु धवलः सुता पायसभासुरी ॥4.101.१० ०॥
मणेः विश्वप्रभा पुत्री परिधिश्च सुतः शुभः ।
ज्योत्स्नायास्तु सुता विश्वज्योतिर्भूमा सुतः शुभः ॥१० १॥
प्रभावत्याः सुता दृश्यादेवी सुतस्तु गोचरः ।
आर्ष्याः सुता तु गायत्री सुतः प्रणवसत्तमः ॥१० २॥
सुरसायाः सुता स्वादवती पुत्रः प्रमापतिः ।
नन्दाया नन्दनः पुत्रः पुत्री तु नान्दिनीसती ॥१ ०३॥
काञ्चन्यास्तु सुतश्चामीकरः सुता सुवर्णिनी ।
हरिण्यास्तु सुता सम्पद्वती सुतोऽर्थवेदनः ॥१ ०४॥
हन्वाः सुता तु हसिनी सुतश्चिबुककेसरः ।
विश्वायास्तु सुतश्चाश्ववाहनश्च सुता श्रुतिः ॥१ ०५॥
वितस्त्यास्तु सुतो हस्तीश्वरः सुता प्रमेश्वरी ।
रसिकायाः सुतः प्रेमानन्दः सुता महोत्सवी ॥१० ६॥
सुपर्णायाः सुता शुक्लवर्णा सुतः सुलोकनः ।
हिरण्मय्याः सुता पिङ्गाक्षिणी पुत्रस्तु मौक्तिकः ॥१ ०७॥
प्रभूतेस्तु सुता विपञ्चिका पुत्रः प्रणादनः ।
करिण्यास्तु सुता स्वर्णदन्ता सुतो गजाननः ॥१ ०८॥
पद्मायास्तु सुतो नालः सुता रजतपत्रिणी ।
पिङ्गलायाः सुतः पिताम्बरः सुताऽऽत्मबोधिनी ॥१ ०९॥
सरोजिन्या रक्तगर्भः सुतः सुता सुकौशिकी ।
पूर्णिमायाः सुतः सुधाकरश्चन्द्रकला सुता ॥4.101.११० ॥
वल्लभायाः सुतः कार्ष्णवाल्लभिः शलभा सुता ।
कार्ष्ण्याः कृशोदरः पुत्रः पुत्री मिष्टस्वरा शुभा ॥१११॥
जोष्ट्र्याः पुत्रः स्वप्रकाशकः सुपुत्री विवेकिनी ।
ज्योत्स्नायास्तु सुताऽनङ्गलतिका सुकविः सुतः ॥१ १२॥
पद्मिन्याः सलिला पुत्री पुत्रस्तु मूलकर्दमः ।
सुदुघायाः सुता साध्वीव्रता पुत्रः पयोनिधिः ॥११ ३॥
योगिन्यास्तु सुतो ब्रह्मसमाधिर्मुक्तराट् सुतः ।
विद्योतिन्याः सुतः स्वर्गपतङ्गः कृतिनी सुता ॥१ १४॥
शान्तेः सुतो विरामर्षिः सुता निर्मोहिनी शुभा ।
मालत्यास्तन्तुधृक् पुत्रः सुता सन्तानिका शुभा ॥१ १५॥
रक्ताया रञ्जनः पुत्रः पुत्री स्मितानना शुभा ।
उरुक्रमायाः पुत्री तु सङ्क्रमा वामनः सुतः ॥१ १६॥
वैश्व्या विश्वावसुः पुत्रः पुत्री तु वैश्वदेविका ।
देवतायाः सुतो देवेश्वरः सुता दिवस्पदा ॥१ १७॥
कुमुदायाः सुता प्रमोदिनी सुतः प्रमोदकृत् ।
शिवायाश्चात्मजो जाम्बूवर्णः सुता सुखङ्करी ॥१ १८॥
तरलायाः सुता क्षिप्रधीषणा धीश्वरः सुतः ।
राजराजः सुतो रेणुमिश्रायाः रायणी सुता ॥१ १९॥
कानक्या भूषणः पुत्रः पुत्री चूडामणिसती ।
नलिन्या भ्रामरी पुत्री पुत्रः षडङ्गवैद्युतः ॥4.101.१२० ॥
पर्याः पुत्रः परमेशः पुत्री पारविलासिनी ।
सुनन्दायाः सुतो नन्दः सुता नारनिवासिनी ॥१ २१॥
कलिकाया विकासास्यः सुतः सुता प्रफुल्लिका ।
साध्व्याः सुतः सन्तजनः सुता सुवासिनी शुभा ॥१२२॥
सुधायाः शङ्करः पुत्रः पुत्री तथाऽम्बिका सती ।
अम्बाया आम्बलिः पुत्रो बालिकेशी तु पुत्रिका ॥१ २३॥
प्रकृतेः कृतिमान् पुत्रः पुत्री यत्नेश्वरी शुभा ।
शम्याः पुत्रो दिव्यगर्भः पुत्री विश्वर्द्धिसत्तमा ॥१२४॥
श्यामाया नीलराजश्च सुतः सुता निलायनी ।
बालाया बहुलार्काख्यः सुतः सुता प्रवालिका ॥१२५॥
मञ्जूलायाः सुता मातङ्गिनी सुतो महेश्वरः ।
पल्लवायाः सुता पत्रानना सुतो दलेश्वरः ॥१२६॥
वल्लवायाः सुतो भारवाटो वाघेश्वरी सुता ।
वेद्याः सुतो मखधर्मा सुता तु स्वर्णकेशिनी ॥१२७॥
मोघवत्याः सुतः शार्ङ्गधरः सुता तलायना ।
श्वेतायाः पाण्डुरकेशी सुता पुत्रो हिमध्रुवः!। १ २८॥
वैष्णव्याः काण्डिका पुत्री पुत्रः सर्वक्रमाभिधः ।
मालिन्या जिष्णुदेवश्च सुतः सुता तु रोहिणी ॥१ २९॥
स्तवायास्तापहा पुत्री पुत्रस्तपनकः शुभः ।
अमर्या अमृतः पुत्रः पुत्री तु ध्रुवशेमुषी ॥4.101.१ ३०॥
चारण्या ग्रन्थवित् पुत्रः पुत्री ब्रह्मरुतानना ।
शिलायास्तु सुतो वित्तिः सुतो रहस्यवेदनः ॥१३ १॥
दुग्धाया धारिणी पुत्री धाता पुत्रः शुभक्रियः ।
इत्येतासां प्रजाः प्रोक्तास्तथाऽन्यासां तु योषिताम् ॥१ ३२॥
चत्वारिंशत्तथा तासां शतं सङ्ख्यातमेव तु ।
तासां प्रजा युगलात्मरूपा जाताः शुभक्रियाः ॥१ ३३॥
अन्यासां चापि कोट्यर्बुदाब्जसङ्ख्याधियोषिताम् ।
युगलात्मप्रजाः प्राविष्कृताः सङ्ख्या न विद्यते ॥१ ३४॥
मुख्यानां द्वादशानां च शतसङ्ख्याजुषामिह ।
योषितां चार्वपत्यानां नामान्युक्तानि चात्र वै ॥१३५॥
श्रवणादर्थभानाच्च दिव्यतां मोक्षमाप्नुयात् ।
भुक्तिं मुक्तिं लभेच्चापि परमेशे च भक्तिमान् ॥१ ३६॥
प्रातरुत्थाय नामानि य इमानि समुच्चरेत् ।
विध्ननाशः कार्यसिद्धिस्तस्य वै स्यात् पदे पदे ॥१ ३७॥
किम्वत्र बहुनोक्तेन हरेर्वंशो हरिर्हि सः ।
हृत्वा पापानि चात्मानं हरत्यक्षरमच्युतः ॥१३८॥
इति श्रीलक्ष्मीनाराणीयसंहितायां चतुर्थे तिष्यसन्तानेऽनादिश्रीकृष्णनारायणभगवतो द्वादशोत्तरशतमुख्यपत्नीनां चैत्रशुक्लतृतीयायां युगलात्माऽपत्योद्भवाभिधानानि, तथा तदधिकाऽष्टाविंशतीपत्नीनां तथा कोट्यर्बुदाब्जादिपत्नीनां युगलात्मकप्रजावत्त्वोद्देशनिरूपणनामैकाऽधिकशततमोऽध्यायः ॥१०१ ॥