१००

श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि श्रीहरेः परमात्मनः ।
षड्विंशायां स्वजन्मनो जयन्त्यां प्रातरेव ह ॥१ ॥ कार्तिकस्याऽसिताऽष्टम्यां कृतस्नानादिमङ्गलः ।
भूषावेषादिसम्पन्नो भगवान् पुरुषोत्तमः ॥२ ॥ सभायां कानके दिव्ये गजासने महासने ।
व्यराजत हरिस्तत्र लोमशेन महर्षिणा ॥३ ॥ पूजितो वर्धितश्चाशीर्वादैरक्षतकुङ्कुमैः ।
चन्दनैः पुष्पहाराद्यैर्गन्धसारैः समर्चितः ॥४ ॥ पित्राभ्यां न्यस्तमुकुटो मस्तके कुण्डले तथा ।
कर्णयोर्मणिहारादिशोभितश्च गलोरसोः ॥५ ॥ ततो मुक्तैराक्षराद्यैरवतारैस्तथेश्वरैः ।
सिद्धैर्मुनिभिः पितृभिः सुरैश्च मानवादिभिः ॥६ ॥ नृपैर्यक्षैः किन्नरैश्च साध्यैश्च चारणैस्तथा ।
गन्धर्वैः फणिभिर्दिव्यदेहिभिः पूजितः प्रभुः ॥७ ॥ आशीर्भिर्वर्धितश्चापि शुशुभे भगवाँस्तथा ।
विप्रैश्च साधुभिः साध्वीभिश्च योगिभिरर्चितः ॥८ ॥ नीराजितः क्रमात् सर्वैरुपदाभिः प्रतोषितः ।
गीतिभिश्चाप्सरोवृन्दैर्नर्तनैर्नृत्यवेदिभिः ॥९ ॥ नर्तकीभिश्च भगवान् प्रसादितः प्रहर्षितः ।
आगता ये महीमाना लोकालोकनिवासिनः ॥4.100.१ ०॥ धामाऽधामनिवासाश्च धन्यवादैः प्रतोषिताः ।
गुरुणा लोमशेनापि पित्रा गोपालयोगिना ॥११ ॥ पारितोषिकदानैश्च पूजिता मानिता अपि ।
सभायाः परिहारान्ते भोजिता दिव्यभोजनैः ॥१ २॥ उपदाभिस्तोषिताश्च पूजिताः सर्व एव ते ।
विदायं प्राप्य ते सर्वे ययुर्नैजान् महालयान् ॥१ ३॥ परिहारे समुत्पन्ने सुखं चोवास सत्पतिः ।
आनन्दयन् प्रियाः सर्वा आवसन्तं निजालये ॥१४॥ बद्रिके तत्र चायान्ति प्रतियन्ति सहस्रशः ।
वीक्षणार्थं हरेर्नित्यं नरा नार्यो मुदान्विताः ॥१५॥ बालिकापुत्रसंयुक्ताः पतिबान्धवशोभिताः ।
स्त्रीकुटुम्बादिसहितास्तीर्थार्थं समयान्ति हि ॥१ ६॥ क्वचिद् देवाश्च पितरो मुनयोऽप्यभियन्ति च ।
पुत्रपुत्र्यादिसहिताः सापत्या योषितोऽपि च ॥१७॥ सौभाग्यवत्यः सुन्दर्यो रामयन्त्यो निजात्मजान् ।
आयान्ति कृष्णवीक्षार्थं तीर्थं कृत्वा प्रयान्ति च ॥१८॥ भक्ता नार्यश्च ताः पुत्रं पुत्रीं कृत्वा कटिस्थले ।
प्रमोदन्ते प्रशोभन्ते स्तन्यपानं ददत्यपि ॥१९॥ चूम्बन्ते च स्पृशन्ति द्राक् प्राप्नुवन्ति सुखानि हि ।
रमन्ते बालकैः स्वैश्च समयन्ति च तत्पराः ॥4.100.२०॥ मातः पितः प्रवदन्ति समाह्वयन्ति बालकाः ।
श्रुत्वा काकलिकां भाषां प्रमोदन्तेऽति मातरः ॥२१ ॥ पतिस्पर्शप्रमोदाश्च सम्पद्भोगसुखानि च ।
पुत्रस्पर्शप्रमोदानां कलां नार्हन्ति षोडशीम् ॥२२॥ अपुत्रा चाऽसुता माता शोभते नैव चैकला ।
अनपत्या चाऽफला च कदलीव न शोभते ॥२३॥ सापत्या सफला वल्ली मृगीव शोभते सदा ।
शुष्कायते त्वनपत्या रूक्षायते विषायते ॥२४॥ गृहं चापत्यविहीनं चाऽङ्कोऽपत्यं विनाकृतः ।
उत्सवो भोजनं चेति शोभन्ते न कदाचन ॥२५॥ एवं ब्रह्मप्रिया नित्यं विचारयन्ति स्वान्तरे ।
वीक्ष्य वीक्ष्याऽपत्यवतीर्मातॄः स्वतुल्यविग्रहाः ॥२६॥ बद्रिके श्रीकृष्णनारायणेन सह भूतले ।
पातालेषु भुवर्लोके स्वर्गे सत्ये जने तथा ॥२७॥ यत्र यत्र ययुः कृष्णपत्न्यस्तत्र च तत्र च ।
दृष्ट्वा सापत्यवनिता अकुर्वन्त सुतेषणाः ॥२८॥ ईशलोके देवलोके मेरौ द्वीपेषु सप्तसु ।
यत्र विमानके स्थित्वा पत्या समं ययुस्तु ताः ॥२९॥ ब्रह्मप्रियाद्याः सर्वा वै तत्र तत्र विलोक्य ताः ।
सापत्यसुखरसिकाश्चक्रुर्वाञ्च्छा सुतार्थिनीम् ॥4.100.३०॥ पुत्रवत्याः समानायाः सन्निधौ पुत्रवर्जिता ।
म्लायते बद्रिके लोकेऽनपत्या शोकमेत्यपि ॥३ १ ॥ वन्ध्यात्वं दूषणं लोके निरयो मूर्तरूपधृक् ।
यत्र बालपदं नास्ति बालदोला न विद्यते ॥३२॥ बालकाकलिका नास्ति तद्गृहं प्रेतवासितम् ।
यत्र गर्भवती नारी नास्ति नास्ति च सूतिका ॥३३॥ नास्ति स्तन्यप्रपात्री च तद्गृहं डाकिनीगृहम् ।
यत्र माता पिता शब्दौ न स्तो न स्तश्च पुत्रकः ॥३४॥ पुत्री शब्दोऽपि नास्त्येव तद्गृहं चाऽवधूतिकम् ।
यत्र बालस्वरूपं स्वं प्रतिबिम्बं न विद्यते ॥३५॥ तद्गृहं त्वन्धतमसा व्याप्तं चामङ्गलं सदा ।
यत्र बालो न वा पुत्री सम्पद्भृतं गृहं तु तत् ॥३६॥ अरण्यसदृशं बोध्यं फेरुराजगृहोपमम् ।
गार्हस्थं विफलं तस्या यस्यांऽके बालकं नहि ॥३७॥ कामना विफला तस्या या तु गर्भवती नहि ।
भूषाशृङ्गारवेषाश्च विफला रूपसम्पदः ॥३८॥ विफलं सपतिकत्वं यस्या अङ्के न बालकम् ।
विनाऽपत्यं पितृऋणं नापगच्छति कर्हिचित् ॥३९॥ यौवनस्य फलं बालैः ऋणापाऽऽकरणं यतः ।
विफला धातवस्तस्या रणे नद्याः प्रवाहयत् ॥4.100.४०॥ शरीरमस्या रणवद् गृहं श्मशानवत्तथा ।
पतिः पाषाणवच्चापि पत्नी सा शुष्कगर्तिका ॥४१ ॥ वंशविस्तारहीनानां परलोको न विद्यते ।
स्वर्गे वंशविहीनानां वासो देवेषु नैव च ॥४२॥ अत्र लोकेऽनपत्यानां मुखं पश्यति नेतरे ।
प्रातस्तद्दर्शने जाते गण्यते चाऽत्ममङ्गलम् ॥४३॥ सम्पदां तु फलं भोगो भोगानां बालकाः फलम् ।
बालकानां फलं वंशो वंशः पितृप्रशान्तिदः ॥४४॥ अपि गावश्च पशवः पक्षिणो जलजन्तवः ।
आरण्यकाश्च वा ग्राम्याः शोभन्तेऽपत्यसंयुताः ॥४५॥ मानमर्हन्ति सापत्या निरपत्यास्तिरस्कृतिम् ।
जातिभावो हि सापत्ये पुरुषार्थोऽपि तत्र वै ॥४६॥ तस्मात् पुत्रवती पत्नी सत्या पत्नी न चान्यथा ।
पुत्रवतीभिरस्माभिर्भाव्यं ब्रह्मप्रियादिभिः ॥४७॥ कृष्णनारायणः कान्तः स्वयं दास्यति नः सुतान् ।
समयोऽयं सुतार्थोऽस्ति कदा दास्यति नः सुतान् ॥४८॥ कदा कान्तस्य बिम्बानि प्रतिबिम्बानि वै मुदा ।
द्रक्ष्यामः स्वांऽकसंस्थानीत्येवं चिन्तां प्रचक्रिरे ॥४९॥ ज्ञात्वा कृष्णः सतीनां वै मानसानि यथायथम् ।
विकसन्तं वसन्तर्तुमालोक्याऽचिन्तयत्तदा ॥4.100.५०॥ आम्रमये महारण्ये विहर्तुं यामि चैत्रके ।
कोट्यर्बुदाब्जपत्नीनां पूरयिष्ये मनोरथान् ॥५१॥ निश्चित्यैवं तृतीयायां शुक्ले चैत्रे स्वयोषितः ।
सह नीत्वा विहर्तुं स ययावाम्रवणानि तु ॥५२॥ अशोकानां च कुन्दानां बकुलानां वनानि च ।
चम्पकानां कदलीनां रैवताद्रिवनानि च ॥५३॥ कर्मदानां च वंशानां क्षीरिकाणां वनानि च ।
जम्बूनां किंशुकानां च स्थलपद्मवनानि च ॥५४॥ कदम्बानां पुष्पवतीवल्लीनां सुवनानि च ।
पुष्पितानां स्तबकानां स्तम्बानां प्रवणानि च ॥५५॥ अश्वपट्टसरसश्च दक्षिणे पश्चिमे तथा ।
मधुकानां चामृतानां जम्बीराणां वनानि च ॥५६॥ इक्षूणां सरसानां च बिल्वानां सुवनानि च ।
श्रीवृक्षाणां श्रीफलानां महोद्यानानि यान्यपि ॥५७॥ नास्पतीनां सन्तराणां बदराणां वनानि च ।
दाडिमानां खर्जुराणां खारिकाणां वनानि च ॥५८॥ शर्कराकन्दजातीनां भूतलानि शुभानि च ।
द्राक्षाणां च लविङ्गानामेलानां सुवनानि च ॥५९॥ पूगीनां नागवल्लीनां कर्पूराणां वनानि च ।
त्वक्साराणां तिन्तिडीनां चाऽञ्जिराणां वनानि च ॥4.100.६० ॥ चिकूराणामरण्यानि नवरङ्गवनानि च ।
महोद्यानानि रम्याणां बदामानां वनानि च ॥६१॥ कस्तूरीमृगवासानां क्षेत्राणि सस्यवन्ति च ।
चणकानां गोधूमानां यवानां शालिशाकिनाम् ॥६२॥ पत्रिणां शिम्बिकानां चोत्तेजकानां वनानि च ।
कमलीनां कुमुदानां सुकल्मानां सरांसि च ॥६३॥ शाद्वलानि विचित्राणि भूतलारण्यकानि च ।
वीक्षितुं च विहर्तुं च दर्शयितुं निजप्रियाः ॥६४॥ रन्तुं गन्तुं सुखं रामयुतुं पूरयितुं मनः ।
विमानेन ययौ कृष्णनारायणोऽद्रिसन्निधौ ॥६५॥ पश्चिमोदधिपर्यन्तं वनेषूपवनेष्वपि ।
भद्रातीरे तथा स्वर्णरेखातीरे च भूतले ॥६६॥ गोमतीसागरे चौजस्वतीतीरे तथा ययौ ।
हरिणीसागरे शत्रुञ्जितायाः सन्निधावपि ॥६७॥ व्याघ्रारण्ये तथा सिंहारण्ये गोकर्णसन्निधौ ।
सर्वसौराष्ट्रभागेषु विहरन् स्त्रीः प्रमोदयन् ॥६८॥ पूरयँस्तन्मनांस्येव रेमे कृष्णनरायणः ।
यावत्यः प्रमदा नैजास्तावद्रूपाणि धारयन् ॥६९॥ रेमे समस्तनारीभिः कृष्णनारायणः प्रभुः ।
ऊर्ध्वरेता ब्रह्मचारी शीलं रेमे प्रपोषयन् ॥4.100.७०॥ कोकिलानां कूजनानि केका मयूरघोषिताः ।
मेनानां मिष्टगीतानि गुञ्जारवान् द्विरेफिणाम् ॥७१॥ शुकानां चिञ्चकीर्वाणीर्वन्यानां विमला गिरः ।
शृण्वन्नुत्तेजिका रेमे रामाभी रमणीश्वरः ॥७२॥ सुगन्धान् विविधान् गृह्णन् पुष्पशय्यासु भूतले ।
आस्वादयन् रसान् श्रेष्ठान् भक्षयन् सुमधूनि च ॥७३॥ फलान्यास्वादयन् कृष्णो रेमे रामाभिरुत्सुकः ।
पिबन् प्रियाननरसान् ददत् ताम्बूलसद्रसान् ॥७४॥ प्रियामुखेषु भगवान् रेमे ताभिर्वने वने ।
भोजयन् भक्षयन् गुन्द्रान् गुन्द्रपनसपेशिकाः ॥७५॥ उत्तेजयन् हावभावै रेमे ताभिर्वने वने ।
कुञ्जे निकुञ्जके वृक्षतले वल्लीसुगह्वरे ॥७६॥ तृणपुञ्जे स्तम्बमध्ये रेमे राजीवलोचनः ।
आश्लेषचुम्बनस्पर्शैर्धारणैर्मर्दनैरपि ॥७७॥ आह्लादकैर्दृढैः कामै रेमे रामाभिरच्युतः ।
अप्रस्खलितभावैश्च रामयामास ताः प्रियाः ॥७८॥ बद्रिके तृप्तिमापन्ना यावत्तावद् रराम ह ।
रामयन्तं तोषयन्तं चानन्दयन्तमच्युतम् ॥७९॥ वीक्ष्य सम्प्रार्थनाकालं प्रसन्नं परमेश्वरम् ।
पतिं प्रियामयं कान्तं कान्ताः परीक्ष्य चान्तरम् ॥4.100.८०॥ विहस्य प्रणिपत्याऽपि समाश्लिष्य मुहुर्मुहुः ।
प्रचूम्ब्य .हृदये धृत्वा प्रार्थनां चक्रिरे प्रियाः ॥८ १ ॥ कान्त रमण योगीन्द्रपूज्य योगेश कामद ।
ब्रह्मचारिन् परब्रह्म निर्लेप कामवर्जित ॥८२॥ निरीह सर्वशक्तीश चाऽनासक्त निरञ्जन ।
सर्वकामप्रपूर त्वं जयसे प्रियकारक ॥८३॥ अप्रस्खलितभावस्तं जयसे सुखशेवधे ।
नित्यस्वानन्दमग्नोऽसि भक्ताशापूरकोऽप्यसि ॥८४॥ शीलव्रतं तव मूर्तौ सदा संवर्तते हरे ।
वयं मुग्धा भवामोऽत्र बीजदानं न विद्यते ॥८५॥ पुत्रवत्यः कथं स्यामो नारायणनरायण ।
कृष्णकृष्णेश राधेश लक्ष्मीश्च चात्मसम्भृत ॥८६॥ सर्वगर्भेश गोपीश ब्राह्मीकान्त रमापते ।
आत्मपते प्रियपते प्रियापतेऽक्षरेश्वर ॥८७॥ मुक्तमुक्तानिकास्वामिन् बीजं दत्से न चेद् यदि ।
कथं स्यामः पुत्रपुत्रीवत्यो वयं तवाऽङ्गनाः ॥८८॥ सापत्येच्छावतीनां नः समीहाः पूरय प्रभो ।
पुत्रपुत्रीमातरश्च स्यामो वयं तथा कुरु ॥८९॥ अनपत्यप्रमदानां मुखं चाऽमङ्गलं सदा ।
नाऽयं लोकः परश्चापि सुखदो विरतिप्रदः ॥4.100.९०॥ लोकाश्चाऽपत्यहीनस्य षण्ढत्वं कल्पयन्त्यपि ।
अनपत्यगृहे कृष्ण देवा नायान्ति पूजने ॥९ १ ॥ गृहस्थाश्चापि नाऽऽयान्ति नैजाऽमङ्गलतामयात् ।
तस्मात् समर्थ भगवन् सर्वासां कामपूरक ॥९२॥ देहि युग्मफलं पुत्रीपुत्रयुगलरूपकम् ।
सर्वाभ्यो युगलं चैकं चैकं निजस्वरूपवत् ॥९३॥ लोकपङ्क्तिगणनायै गार्हस्थ्यशोभनाय च ।
वंशविस्तारसिद्ध्यर्थं देह्येकं युगलं पृथक् ॥९४॥ समर्थं त्वत्समं कृष्ण पितृतारणशक्तिकम् ।
ब्रह्मशक्त्यन्वितं दिव्यमेकैकं युगलं शुभम् ॥९५ ॥ अपत्यरूपं वात्सल्यस्थानं मानसबन्धनम् ।
सर्वमङ्गलसंवासं देह्येकैकं सुतासुतम् ॥९६॥ सहायकृत् पितुः पुत्रो मातुः पुत्रीं सहायिनी ।
पुत्रस्य न्यूनता पुत्र्या पूरयितुं न शक्यते ॥९७॥ न पुत्र्या न्यूनता पुत्रैः पूरयितुं प्रशक्यते ।
तस्मात् पुत्रीं शुभां चैकां चैकां चैकैककं सुतम् ॥९८॥ प्रदेहि श्रीस्वामिकृष्णनारायणाऽऽर्यसत्पते ।
सर्वरतिपतेऽनङ्गपते गर्भपते विभो ॥९९॥ धर्मार्थकाममोक्षाधिपते श्रेयःपते प्रभो ।
प्रेयःपतेऽर्थितभावपते देहि सुतां सुतम् ॥4.100.१० ०॥ इत्येवमर्थयामासुः सर्वास्ताः कृष्णयोषितः ।
अवैषम्येन वै पुत्रीं पुत्रं च युगलात्मकम् ॥१०१ ॥ श्रीकृष्णो बद्रिके तासां भावान् ज्ञात्वा रतिप्रियान् ।
पुनः पुनश्च रेमे वै ता रेमुश्च सुतेच्छया ॥१ ०२॥ मूर्च्छान्तं परमानन्दं ताभ्यो ददौ हरिः पतिः ।
ऊर्ध्वरेता ब्रह्मचारि स्वामिश्रीवल्लभः प्रभुः ॥१ ०३॥ भानं विसृज्य देहानां कृष्णतादात्म्यमूर्छिताः ।
अभवँस्ताः प्रियाः सर्वा बद्रिके द्रविता हरौ ॥१ ०४॥ दिव्या लीला इमाः स्मृत्वा बद्रिके पापिनो जनाः ।
नरा नार्योऽपि निष्पापा भूत्वा यान्ति परां गतिम् ॥१ ०५॥ इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने वसन्ते श्रीहरिः सौराष्ट्रीयनदनदीपर्वतारण्यसमुद्रपुलिनादिषु विहारार्थं गतस्तत्र स्वपत्नीभिः पुत्रपुत्र्यर्थं प्रार्थितो रमणं रेमे
चेत्यादिनिरूपणनामा शततमोऽध्यायः ॥१०० ॥