०९९

श्रीनरनारायण उवाच-
बद्रिके भगवान् कृष्णनारायणो मुहूर्ततः ।
सत्यपारं ययावष्टावरणान्यप्यलङ्घयत् ॥१ ॥ महातेजोमयेनातिदिव्यविमानकेन सः ।
वैराजलोकमासाद्य वैराजेन समं हरिः ॥२ ॥ वैराजभवने तत्र पूजितः समुवास सः ।
सिषवे चाति वैराजो वैराज्ञीसहितस्तदा ॥३ ॥ वैराजीयप्रजाश्चाप्यानर्चुर्दिव्योपचारकैः ।
आरार्त्रिकं हरेश्चक्रुर्महोपदा न्यधुः पुरः ॥४ ॥ हरिं प्रसादयामासुः सर्वार्पणैर्मुहुर्मुहुः ।
ईश्वराणां दिव्यरीत्या सेवयामासुरच्युतम् ॥५ ॥ वैराजस्य सुताश्चापि ब्रह्मविष्णुमहेश्वराः ।
ब्रह्माणोऽष्टाननाश्चापि शतास्या अयुताननाः ॥६ ॥ लक्षाननास्तथा कोट्याननाः सिषेविरे हरिम् ।
त्र्यक्षाश्च शङ्कराश्चैकपञ्चाशन्नेत्रकाः शिवाः ॥७ ॥ नवनवतिनेत्राश्चैकसहस्रादिनेत्रकाः ।
अयुतैकादिनेत्राश्च लक्षैकादिसुचक्षुषः ॥८ ॥ कोटयेकचक्षुषश्चापि सदाशिवाः सिषेविरे ।
तथाविधाश्च ब्रह्माण्यः शिवाश्चापि तथाविधाः ॥९ ॥ सिषेविरे ब्रह्मनारीर्नारायणं सिषेविरे ।
विष्णवोऽष्टभुजाश्चापि शतायुतभुजास्तथा ॥4.99.१ ०॥ लक्षकोटिभुजाश्चापि वैष्णव्यश्च तथाविधाः ।
सिषेविरेऽनादिकृष्णनारायणं समर्पिताः ॥११ ॥ नैजलोकेषु सर्वेषु कार्तिके मार्गशीर्षके ।
पौषे चाप्यनयन् कृष्णं चतुर्दशस्तरेषु च ॥१ २॥ अष्टाविंशतिकक्षेषु षट्पञ्चाशत्क्षितिष्वपि ।
ततो द्विगुणकक्षेषु निन्युर्नारायणं हरिम् ॥१ ३॥ स्वागतं चक्रिरे पूजां चक्रिरे चोपदा ददुः ।
भोजयामासुरिष्टानि दिव्यानि भोजनानि च ॥१४॥ भ्रामयामासुरेतेषां राज्येषु विविधेष्वपि ।
विदायं प्राप्य भगवान् महाविष्णोर्महास्पदम् ॥१५॥ हैरण्यं धाम सुभगं ययौ श्रीपरमेश्वरः ।
यत्राश्चर्यमभूद् दिव्य बद्रिके प्रवदामि ते ॥१६॥ महाविष्णुस्तदा श्रीमद्गोपालकृष्णमूर्तिमान् ।
स्वपितृरूपोऽदृश्यत पितृदेहे तिरोभवत् ॥१७॥ महालक्ष्मीस्तथा श्रीमत्कम्भरावर्ष्मणि स्थिता ।
श्रीकम्भरास्वरूपेणाऽदृश्यत च तिरोऽभवत् ॥१८॥ मातापितृस्वरूपाभ्यां पूजितः पुत्र ईश्वरः ।
बालकृष्णोऽतिभावेन प्राविर्भवद्भ्यां यत्ततः ॥१९॥ आश्चर्यं तत्परं वीक्ष्य तदा ब्रह्मप्रियादिकाः ।
मेनिरे तु तयो रूपौ श्वश्रूं श्वशुरमित्यपि ॥4.99.२०॥ पद्मावतीप्रिये वीक्ष्य श्वश्रूश्वशुरौ रूपिणौ ।
महासन्तोषमाप्ते ते ववन्दाते स्नुषात्मिके ॥२१ ॥ मासमासं समस्तं वै महाविष्णोर्गृहे हरिः ।
समस्तसार्थसहितश्चोवास पितृमानितः ॥२२॥ पित्रोः सेवां कृष्णनारायणश्चकार सर्वदा ।
ब्रह्मप्रियाद्याः सर्वाश्च सिषेविरे च तौ मुदा ॥२३॥ विदायं जगृहे कृष्णस्ततः श्रीपुरमाययौ ।
ललिताया महालक्ष्म्या दिव्यं धाम मनोहरम् ॥२४॥ पूजितो वन्दितः कृष्णः सेवितश्च प्रसादितः ।
उपदाभिस्तोषितश्चोवास तत्रापि पक्षकम् ॥२५॥ ललितायाः स्वरूपे च तदा श्रीललिताऽऽविशत् ।
अन्याश्च कोटिशः सख्योऽपश्यन्निजसुविग्रहान् ॥२६॥ आश्चर्यं मेनिरे ताश्च वीक्ष्य नैजां तु दिव्यताम् ।
पूजां च भोजनं लब्ध्वा प्राप्य विदायमित्यपि ॥२७॥ परस्परं प्रसम्मिल्य कृष्णेन सह सत्वरम् ।
विमानं च समारुह्य भूम्नोऽव्याकृतमाययुः ॥२८॥ अनादिश्रीकृष्णनारायणं वीक्ष्याऽऽगतं तदा ।
भूमा नारायणस्तूर्णं स्वागतं महदाचरत् ॥२९॥ महेश्वराधिराजार्हमानं ददौ सुसैन्ययुक् ।
तत्पत्न्यश्च रमाद्याश्चाऽऽगायन् कृष्णस्य गीतिकाः ॥4.99.३०॥ अव्याकृते शुभे धाम्नि भूमसौधे हरिं तथा ।
भूमा न्यवासयन्नित्यं मासमेकमपूजयत् ॥३ १॥ अभोजयत् सदा कृष्णं ससार्थं चामृतादिकम् ।
ततो हरिर्विदायं च लब्ध्वा विमानमास्थितः ॥३२॥ वासुदेवाऽमृतं धाम ययौ सार्थसमन्वितः ।
वासुदेवो हि भगवानाचरत् स्वागतं हरेः ॥३३॥ फाल्गुनार्धोत्तरे तत्रोवास कृष्णनरायणः ।
वासुदेवालये रम्येऽसङ्ख्यवैष्णवपूजितः ॥३४॥ चैत्रे कृष्णो ययौ तूर्णमनिरुद्धालयं तथा ।
प्रद्युन्नमन्दिरं चापि सङ्कर्षणालयं ह्यपि ॥३५॥ तैः सर्वेश्चातिदिव्यैः स्वैः सैन्यैश्च पार्षदादिभिः ।
सम्मानितः स्वागताद्यैः पूजितश्चोपदार्पणैः ॥३६॥ भोजितश्चाऽमृतभोगैः सेवितो भावभक्तिभिः ।
विदायं प्राप्य भगवान् नैजं विमानमास्थितः ॥३७॥ गोलोकं श्रीकृष्णधाम वैशाखे प्रययौ द्रुतम् ।
श्रीकृष्णेन निजे धाम्नि परकृष्णः प्रपूजितः ॥३८॥ सर्वगोलोकमुक्तादिसैन्यैः सन्मानितो हरिः ।
राधादिभिरसङ्ख्याभिर्ब्रह्मप्रियाश्च सेविताः ॥३९॥ पूजिता भोजिताश्चापि वन्दिताश्च प्रसादिताः ।
श्रीकृष्णभवने कृष्णनारायणोऽवसन्मुदा ॥4.99.४०॥ राधाद्याः स्वस्वरूपेषु तिरोऽभवँस्तदा द्रुतम् ।
आश्चर्यं परमं वीक्ष्य विज्ञाय निजरूपकम् ॥४१॥ ततः प्राविरभवँश्च महानन्दं प्रपेदिरे ।
सिषेविरे सुरत्यर्थं कृष्णेशं कृष्णयोषितः ॥४२॥ श्रीकृष्णश्च तथा गोपा गोप्यश्चाप्यर्बुदाऽर्बुदाः ।
हरिं प्रसादयामासुस्तोषयामासुरच्युतम् ॥४३॥ श्रीकृष्णोऽपि तदा नैजं मूलं परमकारणम् ।
अस्तौच्छ्रीपरमात्मानमवताराऽवतारिणम् ॥४४॥ ‘यतो वयं चावतारास्तव मूर्तेः पृथक्स्थिताः ।
स्मोऽत्र धामाधिपतयस्तस्मै पित्रे नमः सदा’ ॥४५॥ यतो राधादयश्चापि भवन्मूर्तेः प्रशक्तयः ।
अस्मदर्धाङ्गतां प्राप्तास्तस्मै पित्रे नमो नमः ॥४६॥ यतश्चाऽन्येऽसङ्ख्यरूपा अवतारा भवन्त्यपि ।
तस्मै मूलपरब्रह्मपित्रे नमोऽवतारिणे ॥४७॥ प्रसन्नो भव कृष्णेश निजरूपेषु सर्वथा ।
यदाज्ञां प्रवहामोऽत्र तस्मै पित्रे मुहुर्नमः ॥४८॥ सदा त्वत्पूजनं चात्र करोमि सर्वथा पितः ।
अनुग्रहं सदेच्छामि पावितोऽहं ससार्थकः ॥४९॥ एवं स्तुत्वा हरिं नत्वा लब्ध्वा प्रसादमुत्तमम् ।
विदायं प्रददौ कृष्णः कृष्णनारायणाय वै ॥4.99.५०॥ चैत्रे त्वन्यानि धामानि ह्यवतारकृतानि च ।
हरिर्ययौ विमानेन त्रयोविंशतिकानि च ॥५१ ॥ त्रयोविंशत्यवतारैस्तत्तद्धामसु धामिपः ।
परब्रह्म पूजितः सेवितो भक्त्या प्रपूसादितः ॥५२॥ भोजितश्चोपदाभिश्चार्पितः स्तुतः क्षमां प्रति ।
हरिर्विदायमासाद्य वीक्ष्याऽक्षरस्य सीमगम् ॥५३॥ मात्स्यं धाम च कौर्मं च वाराहं धाम वीक्ष्य च ।
कापिलं च हरेर्धाम वासुदेवीयकं तथा ॥५४॥ पृथोर्धाम तथा दत्तात्रेयधाम प्रवीक्ष्य च ।
हंसधाम च वीक्ष्यापि नृहरेर्धाम वीक्ष्य च ॥५५॥ आर्षभं वामनं धाम पर्शुरामालयं तथा ।
याज्ञीयं रामधामाऽपि कौमारं धाम वीक्ष्य च ॥५६॥ हायग्रीवं नारदीयं राजराजीयमित्यपि ।
व्यासीयं कार्ष्णमन्यं च बौद्धं धामाऽभिवीक्ष्य च ॥५७॥ तथा चाऽसङ्ख्यघामानि वीक्ष्य प्रमिल्य तत्प्रभून् ।
तत्प्रदत्ताऽर्हणां गृह्य प्रसाद्य तान्निजात्मजान् ॥५८॥ सर्वधामिन आपृच्छ्य विमानेन निजेन सः ।
वैकुण्ठलोकं वैशाखे ययौ नारायणालयम् ॥५९॥ लक्ष्मीनारायणस्तत्र स्वागतं प्रसमाचरत् ।
सर्वपार्षदवृन्दैश्च पार्षदानीसमन्वितः ॥4.99.६०॥ सर्वभक्तयुतः कृष्णं पुपूज परमादरात् ।
हारकेयूरमुकुटैस्तथा कौस्तुभभूषणैः ॥६१ ॥ दिव्याम्बरविभूषाद्यैरक्षतैश्चन्दनादिभिः ।
आनर्च परमात्मानं वासयामास मन्दिरे ॥६२॥ सर्वा लक्ष्म्यो दासिकाश्च पुपूजुः श्रीरमादिकाः ।
व्रह्मप्रियाद्याः सर्वाश्च भोजयामासुरुत्सुकाः ॥६३ ॥ पादसंवाहनाद्यैश्च सेवयामासुरच्युतम् ।
स्तवनाद्यैश्चोपकारैश्चक्रुः प्रसन्नमच्युतम् ॥६४॥ आरार्त्रिकं प्रचक्रुश्च नारायणश्रियोऽपि च ।
विदायं प्रददौ नारायणः कृष्णाय वै ततः ॥६५॥ हरिर्निजविमानेन प्रकृतेर्धाम चाययौ ।
महामाया चकारापि सर्वतत्त्वान्विताऽर्हणम् ॥६६॥ प्रधानपुरुषाद्याश्च पुपूजुर्धामिधामिनम् ।
पादजलं पपुश्चाथ भोजनानि ददुस्तथा ॥६७॥ विदायं प्रददुश्चाथ ज्येष्ठे कृष्णनरायणः ।
विमानेनाऽऽययौ तूर्णं सदाशिवमहालयम् ॥६८॥ नित्यकैलासधामाख्यं तत्र सदाशिवः प्रभुः ।
स्वागतं स्वेष्टदेवस्य व्यधाद् गणसमन्वितः ॥६९॥ पुपूज परया प्रीत्या सेवयामास तं हरिम् ।
उपदाः प्रददौ चापि व्यधात् प्रसन्नमच्युतम् ॥4.99.७०॥ विदायं श्रीहरिर्लब्ध्वा विमानेन निजेन वै ।
तैजसावरणप्रान्ते जलावरणमस्तके ॥७१ ॥ स्थिते वैकुण्ठसञ्ज्ञे वै सिद्धसाध्यादिसेविते ।
आषाढे चाययौ तत्र पद्मेशश्चाक्षराधिपम् ॥७२॥ पुपूज परया भक्त्या कृत्वा स्वागतमुत्तमम् ।
अथाऽन्ये चावरणानामीश्वरस्तत्त्वचिन्तकाः ॥७३ ॥ पुपूजुः परमात्मानं स्वस्वावासेषु भावतः ।
तानि स्थानानि चाऽऽलोक्य सेवां लब्ध्वा विदायकम् ॥७४॥ आययौ स्वविमानेन प्रविध्याऽन्धतमो महत् ।
सत्यलोकं मुहूर्तेन मुहूर्तेन तु भूतलम् ॥७५॥ कुङ्कुमवापिकाक्षेत्रेऽवाततार निजालये ।
द्वैतभावं तिरोभाव्य त्वेकभावं जगाम ह ॥७६॥ कृष्णनारायणस्वामिभगवत्परमेश्वरः ।
कोट्यर्बुदाब्जपत्नीभ्यो दर्शयामास सर्वशः ॥७७॥ सर्वधामानि चैशानि सर्वलोकाँश्च मायिकान् ।
सर्वराज्यानि भूपानां सर्वद्वीपान् भुवस्तथा ॥७८॥ समुद्राऽद्रिवियत्स्वर्गविहाराँश्च यथायथम् ।
तन्मिषेण ददौ लाभं सर्वेभ्यः स्वस्य सर्वगः ॥७९॥ बद्रिके प्रार्थितः कृष्णनारायणो महेश्वरैः ।
धामिभिः सिद्धसाध्यैश्च मुनिभिः पितृभिस्तथा ॥4.99.८ ० ॥ लोकपालैर्नृपैश्चापि सर्वलोकाधिपैरपि ।
अर्थितः स्वालये नेतुं तन्मिषेण प्रभुः स्वयम् ॥८१ ॥ सर्वकुटुम्बसहितो ययौ ददौ स्वदर्शनम् ।
सृष्ट्यारम्भे पृथिवीं स पावयामास तन्मिषात् ॥८ २॥ पातालानि समस्तानि स्वर्गाणीश्वरभूमिकाः ।
अवतारालयाँश्चापि पावयामास लीलया ॥८ ३ ॥ सर्वत्र व्यापकस्याऽस्य सर्वान्तर्यामिणः प्रभोः ।
सर्वशरीरकस्याऽस्य गन्तव्यं नैव विद्यते ॥८४॥ यत्र यत्र प्रयात्येव स्थितोऽस्त्यग्रे परः प्रभुः ।
अन्येषां जायते बुद्धिश्चायं गतस्तथाऽऽगतः ॥८५॥ सर्वत्र व्यापकस्याऽस्य दूरं किञ्चिन्न विद्यते ।
सर्वत्र संस्थितस्याऽस्य निरोधः कोऽपि नास्ति च ॥८६॥ सर्वशरीरिणश्चाऽस्य नाऽपथ्यं किञ्चिदस्ति वै ।
नाऽगम्यं चापि नाऽसह्यं नाऽप्राप्यं किञ्चिदस्ति च ॥८७॥ नाऽविधेयं च नाऽयोग्यं नाऽकार्यं किञ्चिदस्त्यपि ।
यस्य सर्वाणि तत्त्वानि क्षेत्राणि भवनानि च ॥८८॥ सृष्टयो जडरूपाश्च चिद्रूपा यस्य सन्ति च ।
कालो येन कृतो दीर्घः क्षणो येन च ह्रस्वितः ॥८९॥ गतयः पारहीनाश्च सुपारा येन निर्मिताः ।
व्योमाऽनन्तं तथा सान्तं येन कृष्णेन निर्मितम् ॥4.99.९ ० ॥ यत्सङ्कल्पे प्रलम्बन्ते ह्रस्वायन्ते दिनादयः ।
अक्षरे प्रकृतिं धत्तेऽक्षरं धत्ते तनावपि ॥९१ ॥ प्रकृतौ सर्वतत्त्वानि धत्ते मायामयेऽक्षरम् ।
एवं कर्तुं चाप्यकर्तुमन्यथाकर्तुमीश्वरः ॥९२॥ यो हि सर्वाऽधिकश्चैको भगवतां परेश्वरः ।
सोपि लीलावशो नैजान् दर्शयामास भूतिकाः ॥९३॥ जीवसृष्टीश्चेशसृष्टीर्दर्शयामास सर्वथा ।
सर्वाभ्यो निजशक्तिभ्यः स्वाऽभिन्नाभ्यः पृथक्तया ॥९४॥ तदिदं मोहनं बद्रि चाद्वैते द्वैतवद् यथा ।
एवं विदित्वा निर्लेपं निष्क्रियं च निरञ्जनम् ॥९५॥ निजनाथं कृपानाथं सद्यः सृष्टेर्विमुच्यते ।
सर्वधामेशपूज्यं स्वं पतिं श्रीवल्लभङ्गुरुम् ॥९६॥ विदित्वा ब्रह्मरूपास्ता ब्रह्मप्रियादिकाः स्त्रियः ।
परं भावं हरौ प्राप्ताः सर्वोत्कर्षं निजं विदुः ॥९७॥ तृप्तास्तासां समस्ताशा विभाव्य सर्वतोधिकम् ।
निजं कान्तं परमेशं विरामं ताः परं ययुः ॥९८॥ कृष्णनारायणस्वामी तासां मनांस्यपूरयन् ।
भक्तमनःपूर्णताऽऽनुषङ्गिकत्वेन लीलया ॥९९॥ चर्मनेत्रा जना लोके न जानन्ति कलां हरेः ।
चिकीर्षितं न जानन्ति चतुःपुमर्थसम्भृतम् ॥4.99.१० ०॥ बद्रिके स्वप्रियाद्यैश्च सेवितो भगवत्तमः ।
चातुर्मास्ये वसन् क्षेत्रेऽक्षरे कुङ्कुमसञ्ज्ञके ॥१०१ ॥ जन्मजयन्तिकां चक्रे षड्विंशां स्वस्य शोभनाम् ।
आययुस्तत्र सर्वे वै सर्वसृष्टिनिवासिनः ॥१०२॥ इति श्रीलक्ष्मीनारायणीयसहितायां चतुर्थे तिष्यसन्ताने वैराजादीश्वरलोकेषु चावतारधामादिषु गत्वा भगवान् ससार्थः कुङ्कुमवापिकामाययावित्यादिनिरूपणनामा नवनवतितमोऽध्यायः ॥९९ ॥