०९७

श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि भगवान् भूतभावनः ।
कुङ्कुमवापिकाक्षेत्रे यदागमत् तदा द्रुतम् ॥१ ॥ विमाने यानि रूपाणि पत्नीनां द्वैतवन्ति च ।
तानि सर्वाणि तत्रैव तिरोभावयदच्युतः ॥२ ॥ विमानस्थानि रूपाणि भूस्थेष्वाविविशुस्तदा ।
दासदासीस्वरूपाणि भूस्थेष्वाविविशुस्तथा ॥३ ॥ लोमशादेः स्वरूपाणि भूस्थेष्वाविविशुस्तदा ।
द्वैतभावे विलीने च निजरूपे हरिः स्वयम् ॥४ ॥ एकभावं गतस्तत्र विमानं चाऽणुतां गतम् ।
रत्नभूषाम्बरहारा उपदाः स्वर्णशोभनाः ॥५ ॥ सर्वा यथायथं कृष्णो ददौ योग्येभ्य एव च ।
विप्रेभ्योऽनाथदीनेभ्यः श्रीभ्यो ददुर्यथायथम् ॥६ ॥ चातुर्मास्यमुवासाऽपि हरिः कुङ्कुमपत्तने ।
त्रयोविंशं हरेर्जन्मदिनं प्राप्तं शुभप्रदम् ॥७ ॥ प्रातरेव कृतस्नानोऽष्टम्यामूर्जस्य चाऽसिते ।
कृतशृङ्गारकः कृष्णोवल्लभोऽयात् स्वसंसदि ॥८ ॥ तदा वाद्यान्यवाद्यन्त गीतयश्चाभवन् शुभाः ।
नर्तनानि विचित्राणि देवतानां तदाऽभवन् ॥९ ॥ सर्वोत्कृष्टा सभा पूर्णा सर्वसूष्टिनिवासिभिः ।
जाता सा बद्रिके तत्र लोमशः समुपाययौ ॥4.97.१ ०॥ पुपूज परमात्मानं चिरं जीवेति चाह तम् ।
श्रीमद्गोपालकृष्णाद्याः पुपूजुः परमेश्वरम् ॥११ ॥ अवतारा ईश्वराश्च मुक्ताः सिद्धाः सुरास्तथा ।
ऋषयः पितरो देवा मानवाश्च नराः स्त्रियः ॥१२॥ पुपूजुः कम्भरालालं चाशीर्वादान् ददुस्तदा ।
आरार्त्रिकं व्यधुः सर्वे महोत्सवमकारयन् ॥१ ३॥ प्रज्ञापद्मावतीलक्ष्मीराधाद्याश्चक्रुरुत्सवम् ।
अतलादिनिवासाश्च दैत्यदानवराक्षसाः ॥१४॥ नागाः सर्पा भोगिनश्चार्थयामासुर्हरिं प्रति ।
भगवन् पावयाऽस्मान् स्वान् पातालादीनि दर्शनात् ॥१५॥ तथाऽस्त्विति हरिः प्राह भोजयामास तान् हरिः ।
महीमानान् समस्ताँश्च विदायं प्रददावपि ॥१६॥ ययुः सर्वे निजलोकान् कृष्णः पातालवासिभिः ।
सह गन्तुं समियेष सर्वपूर्वानुगैर्युतः ॥१७॥ सर्वस्त्रीदासदास्यादियुतश्च लोमशान्वितः ।
स्वतःप्रकाशप्रभृतिमुनिभिः साधुभिर्युतः ॥१८॥ हेमन्ताद्यैः पार्षदैश्च युतो द्वेधा समस्तकः ।
सर्वरूपोऽभवत् कृष्णो द्वेधा वेषादिभूषितः ॥१९॥ विमानं यदणु त्वासीन्महत्तत् तत्र संव्यधात् ।
सर्वान् संस्थाप्य सर्वाश्च तत्र कुङ्कुमक्षेत्रके ॥4.97.२०॥ सर्वान् सर्वाः सह नीत्वा चैकादश्यां विमानके ।
आरुरोह ससार्थाढ्यो हरिर्गोपालनन्दनः ॥२१ ॥ सुपर्णवासुकिशङ्कुकर्णनमुचिभिः सह ।
विमानमैरयत्तूर्णं शृण्वन् हर्षजयध्वनीन् ॥२२॥ अतले तु सुपर्णस्य सौधवर्ये महाप्रभुम् ।
सुपर्णाद्या हरिं तत्र पुपूजुः परमादरात् ॥२३॥ महाराज्ये च सर्वत्र भ्रामयित्वोपदा ददुः ।
मणिरत्नानि बहूनि भोजनान्युत्तमानि च ॥२४॥ यक्षा दैत्या दानवाश्च नामुचेया नरायणम् ।
पुपूजुः परया प्रीत्या मनुं हरेश्च जगृहुः ॥२५॥ विदायं प्रददुश्चापि मार्गशीर्षे ततो हरिः ।
प्रययौ वितलं लोकं विमानेन द्रुतं प्रयुः ॥२६॥ जम्भकश्चापि प्रह्लादः कम्बलश्चेति ते तदा ।
स्वागतं श्रीहरेश्चक्रुर्बहुमानपुरःसरम् ॥२७॥ दैत्या भक्ता भक्तिमन्तो पुपूजुः परमेश्वरम् ।
प्रह्लादो रक्षयामास प्रभुं मासान्तमेव ह ॥२८॥ स्वगृहे निजराज्ये च भ्रामयामास सर्वशः ।
दैत्यानां काटयः कृष्णं निन्युर्निजालयानपि ॥२९॥ सस्त्रीकं सर्वसार्थाढ्यं कृष्णं पुपूजुरादरात् ।
दैत्यस्त्रियो दीनचित्ता लक्ष्म्यादीरार्चयन्मुदा ॥4.97.३०॥ ददू रत्नानि बहूनि मणीन् श्रेष्ठाँश्च वै तदा ।
भोजनानि ददुश्चापि विदायं प्रददुस्ततः ॥३ १ ॥ पौषमासे ययौ कृष्णः सुतलं लोकमुत्तमम् ।
विरोचनगृहे तत्रोवास श्रीपतिरीश्वरः ॥२२॥ दैत्याः कृष्णं बहुप्रीत्या पुपूजुश्चोपदादिभिः ।
भोजयामासुरत्यर्थं सिषेविरेऽर्बुदा जनाः ॥३ ३॥ पुपूज शतसाहस्रो गणो हालाहलाभिधः ।
दानवानामर्बुदानि पुपूजुः श्रीपरमेश्वरम् ॥३४॥ विप्रचितिप्रधानास्ते हरये चोपदा ददुः ।
शङ्कुकर्णादयश्चापि निन्युर्नारायणं गृहम् ॥३५॥ हयग्रीवादयश्चापि पुपूजुर्माधवीपतिम् ।
शारभाः शाम्बराश्चापि पुपूजू राधिकेश्वरम् ॥३६॥ कालनाभादयो दशसहस्राणि तु भूभृतः ।
पुपूजुः कमलाकान्तं हिरण्यपुरवासिनः ॥३७॥ कालकेया दानवाश्च निन्युर्नारायणं गृहम् ।
पुपूजुश्चापि दानव्यो भोजयामासुरीश्वरम् ॥३८॥ ददौ तेभ्यो हरिर्मन्त्रं ‘श्रीहरिः शरणं मम’ ।
विदायं गृह्य सं माघे तलातलमुपाययौ ॥३९॥ वैनतेयालये वासं चकार भगवान् स्वयम् ।
वैनतेया हरिं सार्थयुतमानर्चुरादरात् ॥4.97.४०॥ गरुत्मता चतुर्दशसहस्राणि तु भूभृताम् ।
हरिं निन्युर्निजराज्येष्वानर्चुर्मणिभूषणैः ॥४१ ॥ कालनेम्यादयश्चापि दैत्येशा ललितापतिम् ।
निन्युर्निजप्रदेशेष्वानर्चुः सरस्वतीश्वरम् ॥४२॥ कोटिशोऽपि तथा देवराक्षसा निजराष्ट्रके ।
निन्युः श्रीभूपतिं कृष्णं पुपूजुः परमादरात् ॥४३॥ उपदाश्च प्रददुस्ते तेभ्यो ददौ मनुं हरिः ।
नामधुन्यं ददौ चापि विदायं जगृहे ततः ॥४४॥ फाल्गुने श्रीहरिर्नैजविमानेन महातलम् ।
उपाययौ च तत्रापि मुचुकुन्दादिमन्दिरे ॥४५॥ उवास भगवाँस्तस्य सेवां जग्राह भाववित् ।
अनन्ताद्या महासर्पाः कामरूपधराः सुराः ॥४६॥ पुपूजुः परमेशानं सेवयामासुरादरात् ।
उपदाश्च ददुः श्रेष्ठा मणिरत्नात्मिका मुदा ॥४७॥ भोजयामासुरत्यन्तं दिव्यान्नानि बहून्यपि ।
आरार्त्रिकं प्रचक्रुश्च विदायं प्रददुस्ततः ॥४८॥ चैत्रेऽनादिकृष्णनारायणो रसातलं ययौ ।
बलेर्गृहे निवासं स्वं चकार तेन पूजितः ॥४९॥ वामनेनेडितः कृष्णो रसाराज्यानि सर्वशः ।
बभ्राम सर्वदेशेषु भक्तानां मोक्षकाङ्क्षया ॥4.97.५० ॥ राजाधिराजवद् राजा बलिर्नारायणं हरिम् ।
पुपूज मानयामास भोजयामास मिष्टकम् ॥५१ ॥ विदायं प्रददौ चापि ततोऽन्ये दैत्यपुङ्गवाः ।
राक्षसास्तारकाद्याश्च हिरण्याक्षास्तथाऽपरे ॥५२॥ कोट्यर्बुदाधिका नित्युर्नारेश्वरं निजालयान् ।
पूजयामासुरत्यन्तं सर्वस्वदानकैर्हरिम् ॥५३॥ तन्मन्त्रं जगृहुश्चापि विदायं प्रददुस्ततः ।
वैशाखे श्रीकृष्णस्वामी पातालं समुपाययौ ॥५४॥ तत्रत्याः शेषजातीया सर्पा नारायणं गृहे ।
ररक्षुर्बहुमानाद्यै पूजयामासुरुत्सुकाः ॥५५॥ अन्ये सर्वे महासर्पाः सर्वकामस्वरूपिणः ।
नागिन्यश्च महादेव्यो हरिं लक्ष्मीः सिषेविरे ॥१६॥ अनन्तः फुलिकश्चापि वासुकिस्तक्षकस्तथा ।
कर्कोटको महापद्मः शङ्खपालादयोऽपि च ॥५७॥ निन्युर्नारायणं नैजराज्येष्वानर्चुरुत्सुकाः ।
पुपूजुर्मणिरत्नाद्यै सेवयामासुरत्यति ॥५८॥ भोजयामासुरीशेशं विदायं प्रददुस्ततः ।
हरिर्मन्त्रं ददौ तेभ्यस्ततो विमानमास्थितः ॥५९॥ वाद्यघोषादिभिश्चोत्तेजितः सम्मानितो ह्यति ।
क्षीरसागरमध्ये वै यत्र शेषासनो हरिः ॥4.97.६०॥ आययौ तत्र भगवान् महोत्साहभरः प्रभुः ।
ज्येष्ठे मासे हरिं शेषासनो विष्णुः पुपूज ह ॥६१ ॥ पायसै रससारैश्च भोजयामास वै मुदा ।
लक्ष्मीः समस्तलक्ष्मीनां सेवां चकार भावुकी ॥६२॥ मणिरत्नानि विष्णुर्वै नारायणाय सन्ददौ ।
विदायं प्राप्य भगवान् श्वेतद्वीपमुपाययौ ॥६३॥ आषाढे कमलाकान्तः प्रज्ञानारायणं हरिम् ।
ररक्ष पूजयामास भोजयामास चाऽमृतम् ॥६४॥ सिषेविरेऽति बहुधा कमलाः कमलादिकाः ।
विदायं जगृहे कृष्णो विमानेन ततः परम् ॥६५॥ श्वेतमुक्तेभ्य ईशेशो मनु ददौ निजं परम् ।
प्रेषयामास वै धामाऽक्षरं निजं च तानथ ॥६६॥ विमानेनाऽऽययौ तूर्णं श्रावणे बद्रिकाश्रमम् ।
नरनारायणावावां यूयं बद्र्यस्तथर्षयः ॥६७॥ तन्वाद्यास्तापसा नद्य हिमाद्रिस्तीर्थमण्डलम् ।
अपूपुजाम सर्वेशं बह्वादरसमन्विताः ॥६८॥ पादजलं पपुः सर्वे ददुर्महोपदाः शुभाः ।
हरिस्तत्र मासमात्रमुषित्वा भाद्रमासि वै ॥६९॥ आययौ स्वविमानेन वाराणसीं शुभां पुरीम् ।
तीर्थं कृत्वा धेनुपालं नृपं वीक्ष्य ततः परम् ॥4.97.७०॥ प्रयागराजे संस्नात्वा भारद्वाजं प्रणम्य च ।
द्रुतं सौराष्ट्रदेशे स्वमाययौ चाक्षरीं भुवम् ॥७१ ॥ द्वैतरूपणि सर्वाणि तिरोभावयदच्युतः ।
एकरूपस्ततो भूत्वाऽऽविवेश निजमन्दिरम् ॥७२॥ कुङ्कुमवापिकाक्षेत्रे विरराम निजालये ।
एवं बद्रीप्रिये सर्वपातालानां पवित्रता ॥७३॥ विधत्ता हरिणा नैजकृपया मोक्षिता जनाः ।
अथोर्जकृष्णपक्षस्याऽष्टमी जन्मजयन्तिका ॥७४॥ हरेस्तिथिर्मङ्गलाढ्या चतुर्विंशा समागता ।
प्रातः स्नात्वा कृतसर्वशृङ्गारः कुङ्कुमेश्वरः ॥७५॥ मण्डपे चाययौ नैजे गजासने सुशोभिते ।
उपाविबेश मुनिभिः पूजितः कृतमङ्गलः ॥७६॥ लोमशस्तिलकं चन्द्रं कृष्णभालेऽक्षतान्वितम् ।
कौङ्कुमं सुभगं चक्रे पुपूजाऽऽशीःपरायणः ॥७७॥ पिता माता भ्रातरश्च महर्षयः सुरेश्वराः ।
पुपूजुः परमात्मानं मुक्ता मुक्तानिकास्तथा ॥७८॥ ईश्वरा अवताराश्च ह्याशीर्वादपरायणाः ।
पितरो यक्षगन्धर्वाः किम्पुमांसश्च किन्नराः ॥७६॥ देवाश्च दानवाः सिद्धाः साध्व्यः सूताश्च चारणाः ।
द्विजा नृपाः श्रेष्ठिनश्च दासाः पुपूजुरच्युतम् ॥4.97.८ ०॥ देव्यः सरांसि सरितस्तीर्थानि देवमातरः ।
लोकपाला दिशाम्पालाः पुपूजुः परमेश्वरम् ॥८ १ ॥ अतलादिनिवासाश्च भूवासा मानवाः प्रजाः ।
नरा नार्यो हरिकृष्णमर्चयामासुरुत्सवे ॥८२॥ उपदाश्च न्यधुर्दिव्या हररेग्रे सुवर्णजाः ।
मणिरत्नादिरूपाश्च चिरं जीवेति ते जगुः ॥८३॥ आरार्त्रिकं प्रचक्रुश्च प्रसादं जगृहुस्ततः ।
परिहारं सभायाश्चाकरोच्छ्रीलोमशस्ततः ॥८४॥ महीमानान् समस्ताँश्च भोजयामास लोमशः ।
दत्वा दानानि बहूनि विदायं प्रददौ ततः ॥८५॥ सप्तद्वीपनृपाद्याश्च समागन्तुं निजालयान् ।
प्रार्थयामासुरत्यर्थं हरिं सर्वसमन्वितम् ॥८६॥ तथाऽस्त्विति प्राह तांश्च ततोऽन्ये प्रययुर्मुदा ।
निजलोकान्निजदेशान् सप्तद्वीपेतरस्थिताः ॥८७॥ अथ श्रीभगवान् प्राप्ते त्वेकादशीदिने निजान् ।
दासीदासान् प्रमदाश्च सज्जीचकार पूर्ववत् ॥८८॥ विमाने स्वे विधायैव द्वेधारूपाणि तानि वै ।
न्यषादयत् समस्ताँश्च नारीनरात्मकान् हरिः ॥८९॥ वाद्यघोषैर्जयनादैरम्बरे स्वविमानके ।
अनादिश्रीकृष्णनारायणः समारुरोह च ॥4.97.९०॥ लोमशाद्याः ऋषयश्च ब्रह्मप्रियादियोषितः ।
आरुरुहुविमानं च सप्तद्वीपान् विलोकितुम् ॥९१॥ नवद्वीपेश्वराश्चापि स्वस्वविमानमास्थिताः ।
स्वागतार्थं ययुस्ते तु पुरतः श्रीहरेस्तदा ॥९२॥ स्वस्वदेशान्नगराणि प्रासादान् समशोभयन् ।
शृङ्गारितान् रम्यरूपानकारयन्मुदान्विताः ॥९३॥ सेवौपयिकीः सरसाः सामग्रीः प्रत्यपादयन् ।
मण्डपान् सुभगाँश्चापि सभास्थानान्यकारयन् ॥९४॥ गोपुराणि सप्रभाणि दीपतोरणभाञ्जि च ।
अकारयन्नृपास्ते च प्रजाः शोभा अवर्धयन् ॥९५॥ जम्बूद्वीपेऽपि च ये ते खण्डेश्वरा हरिं मुदा ।
सम्प्रार्थयन् पुरा नैजान् खण्डान् पावयितुं ततः ॥९६॥ हरिस्तथाऽस्त्विति प्राह ते च सर्वे तदाज्ञया ।
पुरैव प्रययुर्नैजान् खण्डान् शृङ्गारहेतवे ॥९७॥ पृथ्व्यां सर्वत्र चोद्घोषः सुमहान् समजायत् ।
अनादिश्रीकृष्णनारायणश्चायाति सृष्टिपः ॥९८॥ दर्शनीयः स भगवान् पापहा दुःखहा प्रभुः ।
अर्चनीयो वन्दनीयो हरिर्गोपालनन्दनः ॥९९॥ इत्येवं बद्रिके भूमौ प्रतीक्षन्ते समुत्सुकाः ।
अद्य वा श्वः परश्वो वाऽऽगमिष्यति नरायणः ॥4.97.१ ० ०॥ बालकृष्णोऽथ भगवान् प्रादक्षिण्येन वर्त्मना ।
विमानमैरयत्तूर्णमम्बरे पश्चिमोत्तरम् ॥१ ०१ ॥ इति श्रीलक्ष्मीनरायणीयसहितायां चतुर्थे तिष्यसन्ताने त्रयोविंशजन्मोत्सवोत्तरम् अतलादिसप्तपातालेषु तत्तद्राजन्यप्रजादि पावयित्वा क्षीरोदधिं श्वेतद्वीपं बद्रिकाश्रमं पावयित्वा च भगवान् कुङ्कुमवापीमागत्य चतुर्विंशतितमं स्वजन्मदिनोत्सवं चकारेत्यादिनिरूपणनामा सप्तनवतितमोऽध्यायः ॥९७ ॥