०९५

श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि भगवान् पौषमासके ।
जनलोकं साध्यदेवाश्रितं समाययौ ततः ॥१ ॥ तत्र देवाः साध्यसञ्ज्ञा जयाख्याः पितरस्तथा ।
यज्ञभाजः परदेवाः स्वागतं श्रीहरेर्व्यधुः ॥२ ॥ ब्रह्मणो ये मुखाज्जाता जया देवाः प्रजेप्सवः ।
सर्वे मन्त्रशरीरास्ते हरेः स्वागतमाचरन् ॥३ ॥ दर्शाख्यः पूर्णमासाख्यो बृहद्वर्यो रथन्तरः ।
चितिश्चापि विचित्तिश्च आकूतिः कूतिरित्यपि ॥४ ॥ विज्ञातश्च मनो यज्ञश्चैते जयाख्यदेवताः ।
यज्ञनारायणसौधे राजाधिराजशोभिते ॥५ ॥ यज्ञदेवो हरिं तत्र निवासं समकारयत् ।
पुपूज परया प्रीत्याऽऽरार्त्रिकं च व्यधात्तथा ॥६ ॥ भोजयामास पीयूषं सेवयामास भावतः ।
तुषिता नाम देवाश्च ततो निन्युर्निजालये ॥७ ॥ पुपूजुः परया प्रीत्या नीराजनं व्यधुर्हरेः ।
ततश्च हरयो देवा निन्युर्नारायणं प्रभुम् ॥८ ॥ आनर्चुर्बहुसम्पत्त्या भोजयामासुरच्युतम् ।
वैकुण्ठा नाम वै देवा जनलोकनिवासिनः ॥९ ॥ निन्युः स्वमन्दिरे कृष्णं पुपूजुः परमादृताः ।
हंसः प्राणः प्रभवश्चारार्त्रिकं श्रीहरेर्व्यधुः ॥4.95.१ ०॥ अष्टापि वसवः कृष्णं निन्युर्निजालायन् प्रति ।
धरो ध्रुवश्च सोमश्च आपश्चाप्यनिलोऽनलः ॥१ १॥ प्रत्यूषश्च प्रभासश्चाऽऽनर्चुः श्रीपुरुषोत्तमम् ।
मणिरत्नानि बहूनि प्रददुः परमात्मने ॥१२॥ अथ निन्युविश्वदेवाः क्रतुर्दक्षः श्रवः स्तवः ।
कामः सत्यो धुनिः कालः कुरुः प्रभुश्च रोचनः ॥१३॥ पुपूजुः परमीशानं श्रीकान्तं कम्भरात्मजम् ।
आरार्त्रिकं व्यधुश्चापि भोजयामासुरच्युतम् ॥१४॥ विष्णुर्वै मानसाख्यश्चाऽजितश्चापि हरिस्तथा ।
सत्यो विष्णुश्च वैकुण्ठः साध्यो विष्णुस्त्रिविक्रमः ॥१५॥ त एते विष्णवः सर्वे जनलोके कृतालयाः ।
अनादिश्रीकृष्णन रायणमाहूय मन्दिरे ॥१६ ॥ पुपूजुर्विष्णुयन्तारं परब्रह्म पुमुत्तमम् ।
अभिषेकं प्रचक्रुस्ते श्रीगोपालात्मजस्य वै ॥१७॥ शृङ्गारं शोभनं पूजामारार्त्रिकं ततो व्यधुः ।
भोजनानि प्रददुश्च ताम्बूलकानि वै ततः ॥१८॥ वैष्णवाश्च जनाः सर्वे तथाऽऽनर्चुः परेश्वरम् ।
वैष्णव्य इन्दिराः सर्वाः पुपूजुः श्रीरमाप्रियाः ॥१९॥ लक्ष्मीराधाब्रह्मप्रिया हरिप्रियाश्च योषितः ।
इन्दिराभिश्चार्पिताश्चोपदा लक्ष्म्यादिसन्निधौ ॥4.95.२० ॥ भोजिताः पूजिताश्चापि सेविता मातरोऽखिलाः ।
प्रददुर्विष्णवश्चापीन्दिराद्या भूषणानि ह ॥२१ ॥ सौवर्णं मुकुटं दिव्यं साग्रं रत्नादिसम्भृतम् ।
कुण्डले शोभने दिव्ये कर्णपूरौ च कानकौ ॥२२॥ कण्ठहारान् कौस्तुभाढ्यान् मणिरत्नादियोजितान् ।
भुजबन्धौ हीरकाद्यैः खचितौ कानकौ ददुः ॥२३॥ प्रकोष्ठशृङ्खले स्वर्णमौक्तिकादिविभूषिते ।
कटके कानके चाप्यङ्गुलीयकानि चोर्मिकाः ॥२४॥ पद्मानि रशना हारान् सुदर्शनानि वै ददुः ।
वेत्रं यष्टिं कानकीं च नक्तकं दिव्यतन्तुजम् ॥२५॥ पादुके पादभूषे च सौवर्णे दिव्यकानके ।
प्रददुर्हरये बद्रि विष्णवस्ते हरिप्रियाः ॥२६॥ हरिप्रियाभ्यः प्रददुरिन्दिराद्या महोपदाः ।
कुचलीः कुतलध्रीश्च शाटिका कञ्चुकीस्तथा ॥२७॥ घर्घरीश्चान्तरपटान्यपि ददुः सुभाविताः ।
केशभूषाश्चन्द्रकानि चिपिटिकाः सुगुच्छकान् ॥२८॥ वेणीवेषान् कानकाँश्च धम्मिलध्रान् सुवर्णजान् ।
चूडामणीन् तैजसाँश्च नन्दमौक्तिकभूषितान् ॥२९॥ दिव्या ललन्तिकाश्चापि गण्डपद्मललन्तिकाः ।
चिबूकचन्द्रिकाश्चापि कर्णशृङ्खलिकाः शुभाः ॥4.95.३ ०॥ श्रावणीः कानकीश्चाप्याऽऽलम्बराणीः सुशोभिताः ।
पुष्पकाणि कानकानि स्थलकानि शुभान्यपि ॥३ १ ॥ तारका वर्धिकाश्चापि चन्द्रिका प्रददुः स्त्रियः ।
पत्रिकाः पञ्चसरिकाः सूक्ष्मतिलाँश्च कानकान् ॥३२॥ मुद्गमालाः स्वस्तिमाला बदरीमालिका ददुः ।
यवमालाः स्वर्णमाषाः सुवर्णकण्ठिका ददुः ॥३३॥ पत्रमालाः शृङ्खलाश्च मणिमौक्तिकमालिकाः ।
ददुरिन्दिवरश्यामा वैष्णव्यः पद्ममालिकाः ॥३४॥ स्फाटिकानां शुभान् हारान् सूर्यमुखीं ददुस्तदा ।
स्तनचन्द्रौ मणिरत्ननद्धकानकनिर्मितौ ॥३५॥ नत्थिका वालिकाः स्वर्णजन्या मणिविभूषिताः ।
पाटलीमालिकाश्चापि मणिहारान् ददुः स्त्रियः ॥३६॥ कण्ठवलयान् सौवर्णतिलस्रजश्च मादलीः ।
प्लक्षदलीं महाहारान् रशना मेखला ददुः ॥३७॥ स्वर्णगुच्छान् कन्दुकाँश्च सौवर्णान् चक्रकान् ददुः ।
सक्थिपट्टान् जानुपट्टान् प्रकोष्ठशृङ्खला ददुः ॥३८॥ झाञ्झरीः काम्बिकाश्चापि ददुः कदलिकाः शुभाः ।
पादभूषांऽगुलिभूषांऽगुष्ठभूषा ददुः स्त्रियः ॥३९॥ अलक्तकान् कज्जलानि शृङ्गारकुङ्कुमानि च ।
रङ्गान् द्रवान् द्रवसारान् तैलसाराणि वै ददुः ॥4.95.४०॥ रससारान् गन्धसारान् मिष्टसाराणि सन्ददुः ।
अम्बराणि भास्वराणि स्वर्णतारमयानि च ॥४१॥ दिव्यमौक्तिकनद्धानि ददुस्ताभ्यस्तु चेन्दिराः ।
पात्राणि कुन्दनजानि दिव्योपकरणान्यपि ॥४२॥ सर्वसारातिसाराणि गृहोपकरणानि च ।
इन्दिराः इन्दिराभ्यः सन्ददुः शय्याः समुज्ज्वलाः ॥४३॥ आसमानि विचित्राणि केशसाधनकान्यपि ।
आदर्शान् सौरभचूर्णान् पूजायां प्रददुः स्त्रियः ॥४४॥ पादत्राणानि रम्याणि कोमलानि मृदूनि च ।
आलेखनानि रम्याणि किरीटान् प्रददुः स्त्रियः ॥४५॥ इत्येवं जनलोकस्था विष्णवश्चेन्दिरास्तथा ।
हरये हरिपत्नीभ्य उपदाः सुभगा ददुः ॥४६ ॥ सेवयामासुरत्यर्थं जनलोके तु बद्रिके ।
पोषमासं जनलोके भगवान् पुरुषोत्तमः ॥४७॥ व्यत्ययामास जनिनां स्नेहाग्रहप्रसेवनैः ।
पर्वतोद्यानसरितो लोकयामास सर्वतः ॥४८ ॥ दर्शयामास भगवान् सर्वा भगवतीर्निजाः ।
जनलोकनिवासिभ्यो ददौ मन्त्रं हरिः स्वयम् ॥४९॥ ‘ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा ।
‘बालकृष्णाय विद्महेऽनादिकृष्णाय धीमहि ॥4.95.५० ॥ तन्नः श्रीशः प्रचोदयादि’तिमन्त्रं जगाद तान् ।
कृष्णनारायणकृष्णनारायण नरायण ॥५१ ॥ अनादिश्रीकृष्णनारायणस्वामिन् रमायण ।
इतिधुन्यं ददौ तेभ्यः पावयित्वा ततो हरिः ॥५२॥ बहुभ्यः प्रेषयामास धामाऽक्षरं निजं द्रुतम् ।
यज्ञदेवादयो देवा विदायं हरये ददुः ॥५३ ॥ हरिर्माघे जनलोकान्महर्लोकं समाययौ ।
कल्पाधिकारिदेवानां द्विजानां यत्र वासिता ॥५४॥ रुद्रा एकादश ये ते ब्रह्मपुत्रास्तु भालजाः ।
पूर्वकल्पोद्भवाः कल्पावसानिका महर्गताः ॥५५॥ तेषां राज्येषु भगवान् रुद्रार्थित उपाययौ ।
नीललोहितरुद्रस्य महापुर्यां जनार्दनम् ॥५६॥ नीललोहितरुद्रो वै पुपूज रुद्रिकायुतः ।
आरार्त्रिकं प्रचकार भोजयामास केशवम् ॥५७॥ वासमामास सौधे स्वे सेवयामास सप्रियः ।
ददौ कृष्णाय बहुलोपदा दिव्याः प्रपूजने ॥५८ ॥ मुकुटाऽम्बरभूषादि मणिरत्नविभूतिकाः ।
अथाऽन्ये ये रुद्रवर्या निन्युर्नारायणं हरिम् ॥५९॥ निजालयेषु विधिवत् पूजयामासुरच्युतम् ।
सहस्रैकवृषभाणां धवलानां प्रभाजुषाम् ॥4.95.६० ॥ ककुद्वतां सुरूपाणां गिरिशृङ्गाभदेहिनाम् ।
व्योमगानां हि धुर्याणां योजिते कानके रथे ॥६१ ॥ सहस्रैककलशाढ्ये सहस्रैकध्वजान्विते ।
शतकम्मानिकाजुष्टे वर्तुले पद्मसदृशे ॥६२॥ स्वर्णव्याघ्रासने कृष्णं रुद्रा न्यषादयन् हरिम् ।
अभ्रामयन्निजपुर्यां रौद्र्यां सर्वत्र मेश्वरम् ॥६३ ॥ गृहे गृहे च रथ्यासु चत्वरे चत्वरे तथा ।
उद्यानेषु निवासेषु रुद्रा निन्युर्हरिं प्रभुम् ॥६४॥ पुपुजुः परया प्रीत्या रुद्रास्तत्र स्थले स्थले ।
रुद्राण्यो धवलाभाश्च पुपूजुः पार्वतीश्वरम् ॥६५॥ चन्दनाक्षतगन्धैश्च फलपुष्पैर्विभूतिभिः ।
भूषावस्त्रनाणकैश्च दिव्यमानसभावनैः ॥६६ ॥ पूवकल्पान्तिका देवा अष्टाविंशतिकोटयः ।
नीत्वा नीत्वाऽऽलयान् नैजानानर्चुर्बहुरूपिणम् ॥६७॥ भोजयामासुरिष्टान्नान्यतिदिव्याऽमृतान्यपि ।
सेवयामासुरीशेशं देवास्ते देवतायुताः ॥६८॥ आनन्दाख्याश्च ये देवा भावदेवाश्च ये तथा ।
राम्भदेवा आर्तवाश्च आश्वराः पावकाः सुराः ॥६९॥ हव्यवाहाश्च सावित्रा औशिकाः कौशिकास्तथा ।
निन्युर्नारायणं स्वस्वमन्दिरेष्वभ्यपूजयन् ॥4.95.७० ॥ भोजयामासुरीशेशं सिषेविरे समादृताः ।
अथ गान्धारदेवाश्च षड्जना आर्षभाः सुराः ॥७ १ ॥ मार्जालीयास्तथा देवा माध्यमा निन्युरच्युतम् ।
दिव्ययाने हरिं नैजनगरेषु व्यवर्तयन् ॥७२॥ अपूजयँश्च विविधैरुपहारैरनुत्तमैः ।
अभोजयँश्च बहुधा दिव्यान्नैर्दिव्यभोजनैः ॥७३ ॥ अथ वैराजकाश्चान्ये नैषादा मेघवाहनाः ।
प्राणदेवाश्चिन्तकाश्चाऽऽकूतिका मानसाः सुराः ॥७४॥ निन्युर्नारायणं स्वस्वसौधेषु चाभ्यपूजयन् ।
राथन्तराः सुराश्चापि सद्योजाता हरास्तथा ॥७५॥ वीराश्च वामदेवाश्च पीतवासादयः सुराः ।
सितकल्पा अघोराश्च विश्वरूपाश्च ये सुराः ॥७६॥ निन्युस्ते परमात्मानं स्वस्वालयेषु भाविताः ।
अभ्रामयन् हरिं नैजे नैजे तु पत्तने गृहे ॥७७॥ अपूजयन् मणिरत्नैर्दिव्यैः सर्वोपचारकैः ।
अभोजयन् सुधान्नैश्चातर्पयन्नमृतैर्जलैः ॥७८॥ रुद्राश्चक्रुस्ताण्डवानि नारायणसमीपगाः ।
नीललोहितरुद्रो वै सुचक्रे ताण्डवं शुभम् ॥७९॥ श्रीबद्रीप्रियोवाच-
कीदृशं ताण्डवं चक्रे कीदृग्रूपो हरस्तदा ।
वद मे तत्स्वरूपं वै नारायणपरेश्वर ॥4.95.८० ॥ श्रीनरनारायण उवाच-
रुद्रो हरिं प्रपूज्याऽत्मानन्दमग्नो बभूव ह ।
प्रसन्नात्मा प्रणिपत्य स्वामिकृष्णनरायणम् ॥८ १ ॥ धन्योऽस्म्यद्य हरेः प्राप्तेः कृतकृत्योऽस्मि सर्वथा ।
यन्मे गृहे कृपासिन्धुः परमेश उपागतः ॥८२॥ इत्युक्त्वा हर्षपूर्णश्च स्मयन् ताण्डवमाचरत् ।
तत्र स्थिताः शृङ्गिभृङ्गिरीटिकिरीटिनामकाः ॥८३॥ अम्बाकार्तिकविघ्नेशा अभवन्नृत्ययोगिनः ।
रूपं दधार रुद्रोऽत्र चार्धनारीनरात्मकम् ॥८४॥ मन्दस्मिताननं भस्मगौरं यथार्हभूषणम् ।
वामपादाङ्गुष्ठसंस्थो दक्षपादं समुन्नयन् ॥८५॥ इषदूर्ध्वाननश्चोर्ध्वहस्तो वक्रश्च जानुनोः ।
समुद्भिन्नभालचक्षुर्जटासरत्सुरापगः ॥८६॥ नागराजाढ्यकण्ठश्च कृष्णबिन्दुगलोज्ज्वलः ।
भालनेत्रोद्भववह्निरेखाभासितभूतलः ॥८७॥ सिंहचर्मार्धसम्पन्नः शाटिकाऽर्धाऽऽवृतांऽगकः ।
हुङ्कारनादसङ्घुष्टसभास्थलः स्वरान्वितः ॥८८॥ प्रकोष्ठयोर्दधन्नागकुण्डले भुजयोरपि ।
पादप्रकोष्ठयोश्चापि घुर्घुरानद्धभूषणः ॥८९॥ महाकिङ्कणिकाव्याप्तरशनाकटिवर्तुलः ।
मुण्डास्थिमालिकाराजद्वक्षःस्थलातिशोभनः ॥4.95.९० ॥ कर्णयोः प्रान्तयोर्लम्बस्वर्णकुण्डलराजितः ।
कर्णयोः परितो यस्य भोगिबालौ भ्रमायितौ ॥९ १ ॥ भाले तिलकचन्द्राभ्यां सुशोभो मानसाऽऽहरः ।
नेत्रप्रान्तदधत्स्निग्धनीलकज्जलरेखकः ॥९२॥ फणिबद्धजटाजूटः स्कन्धयोः फणिविग्रहः ।
इषद्वक्राग्रनमनः कट्या धवलनीलया ॥९३ ॥ धृतार्धकौपीनश्चार्धबद्धान्तर्वस्त्रगुह्यकः ।
धृतार्धाऽलकमूर्धा च तथाऽर्धे जटया युतः ॥९४॥ वामे स्त्रीभूषणैर्युक्तो दक्षे पुम्भूषणान्वितः ।
सतीस्तनपटप्रान्तयोजितोत्तरकञ्चुकः ॥९५॥ कार्तिकस्य मयूरेण फुङ्कारितोऽतिभोगराट् ।
सुधां लिहन् नृत्यजातां स्वेदात्मिकां तु वक्षसि ॥९६॥ राजते रज्जुरूपोऽपि भ्रमन् कण्ठेऽस्य कर्बुरः ।
गणेशस्योन्दुरुर्यत्र चिञ्चिङ्करोति नृत्यवित् ॥९७॥ शिवाऽऽसनो मृगेन्द्रोऽपि करोति गर्जनां तदा ।
नृत्यमेलान्वितां चौजोवर्धिनीं दिङ्निनादनाम् ॥९८॥ धवलो वृषभो यत्र भां करोति तदन्विताम् ।
तेषां तालप्रदानोऽयं डमरूं वादयन् हरः ॥९९॥ हृष्टरोमा हृष्टगात्रः कम्पयन् धरणिश्रयम् ।
पाद विक्षेपयन् चैकपादांऽगुष्टेन तोलयन् ॥4.95.१० ०॥ ननर्त भ्रामयन् देहं भ्रमन् रराज नृत्यकृत् ।
प्रदक्षिणेन दक्षेण वामेनापि ततः पुनः ॥१०१ ॥ पृष्ठवंशेन चाग्रेण पार्श्वदानेन वै पुनः ।
पदेनापि च पादाभ्यां दत्तकृष्णेक्षणो हरिः ॥१० २॥ ननर्त चञ्चलस्त्यक्तलज्जः सर्वाङ्गकम्पनः ।
क्वचित् स्तनं क्वचिल्लिङ्गं क्वचित्कराग्रमात्रकम् ॥१ ०३॥ क्वचिन्नितम्बमात्रं च कम्पयन् शुशुभे हरः ।
क्वचिद् भुजां क्वचित् सक्थि क्वचिद् गण्डं च गालकम् ॥१ ०४॥ क्वचिद् भ्रुवं क्वचिज्जङ्घां कम्पयन् शुशुभे हरः ।
क्वचिद्वक्रां क्वचिन्नीचां दृष्टिं तु सरलां क्वचित् ॥१ ०५॥ क्वचिदूर्ध्वामभितश्च ददत् ननर्त शङ्करः ।
क्वचिल्लज्जां क्वचित् सार्धां क्वचित्तु द्विगुणां गतिम् ॥१ ०६॥ क्वचिन्मन्दां स्थिरां वापि दर्शयन् स ननर्त ह ।
क्वचिन्नमन् क्वचित्प्रेम्णा भावं स्नेहं च दर्शयन् ॥१० ७॥ आकर्षयन्निव कृष्णं स्वामिनाथं ननर्त सः ।
अर्धाङ्गे भामिनीरूपे प्रसन्नास्ये हिरण्यभे ॥१ ०८॥ दर्शयन् सेविकाभावं ननर्त शङ्करो मुदा ।
विशालनेत्रा सुभगा पद्मपत्रनिभेक्षणा ॥१ ०९॥ आरक्तकरचरणतला मिष्टस्वरा सती ।
सर्वाङ्गसुन्दरी भूतिसितस्तनाभिशोभना ॥4.95.११ ०॥ प्रियार्धं सस्वजाना च सर्वाङ्गरागभासुरा ।
चन्द्रचूडा रूपरूपाभिरूपकृतमोहिका ॥१११ ॥ ननर्ताऽङ्गगता देवी शिवा शिवमयी तदा ।
परमेशप्रसन्नत्वकृते ननर्त सा तदा ॥११२॥ लज्जां विहाय कृष्णाग्रे सर्वभावसमन्विता ।
हावभावयुता सर्वनृत्याङ्गरससम्भृता ॥११ ३॥ कण्ठे तु शम्भुवत् कण्ठीं तौलसीं दधती तदा ।
नारायणहरे विष्णो कृष्णनारायणेति च ॥१ १४॥ बालकृष्णेति तानेषु वदमाना ननर्त सा ।
रुद्राज्ञया सवाद्या या पृथक्स्थिताऽभवत् तु सा ॥१ १५॥ ननर्ताऽधि तदा भावपूर्णा नारायणान्तिके ।
रुद्राश्चान्ये रुद्रगणा गणिकाश्चापि ननृतुः ॥११ ६॥ कृष्णकरे करान् न्यस्य चूम्बनान्यपि जगृहुः ।
सवाद्यघोषगीतैश्च सतालगालवादनैः ॥१ १७॥ सर्वथा रुद्रदेवानां मण्डलं तन्ननर्त ह ।
अथ वाहनरूपा ये ननृतुस्ते समुत्सुकाः ॥१ १८॥ धृतरुद्रस्वरूपा वै पृथग्भावो न यत्र तु ।
आश्चर्यं परमं त्वेतन्महर्लोके हरैः कृतम् ॥११ ९॥ नृत्यात्मकं वीक्षितं श्रीहरिणा सार्थसंयुजा ।
प्रसन्नो भगवान् स्वामी समुत्थाय निजासनात् ॥4.95.१ २०॥ आश्लिष्यच्छङ्करं धृत्वा निजवक्षसि तन्मयः ।
समाश्लिष्यत् कृष्णनारायणः सर्वान् कृपावशः ॥१२१ ॥ रुद्राणीश्च समाश्लिक्षल्ँलक्ष्मीपद्मावतीप्रियाः ।
अन्या समाश्लिषन् रुद्राणिकाश्चाशीःपरायणाः ॥१२२।
उपदाः प्रददुर्हारान् दिव्यान् मणीन् विभूषिकाः ।
नृत्यान्ते श्रीहरिः प्राह तुष्टोऽस्मि वरदानकृत् ॥१२३॥ वरं वृणुत सर्वेऽत्र यदिच्छथ ददामि तत् ।
रुद्राश्चाहुस्तव सेवां भक्तिं त्वय्यविनाशिनीम् ॥१ २४॥ अन्ते ब्रह्मगतिं चापि देहि धाम्न्यक्षरे तव ।
इत्युक्त्वाऽऽरार्त्रिकं चक्रुर्विदायं प्रददुस्ततः ॥१२५॥ तेभ्यो मन्त्रं ददौ कृष्णो नैजं नाम ददावपि ।
‘श्रीकृष्णन्रायणस्वामी श्रीहरिः शरणं मम’ ॥१ २६॥ दिव्यभावं तथाऽऽशीर्वाणीं ददौ परमेश्वरः ।
अथ विमानमारुह्य जयनादैः स्वराययौ ॥१ २७॥ स्वर्गं कृष्णविमानेन बद्रिके चाऽक्षरप्रभम् ।
व्यद्योतत सुरा वीक्ष्याऽभीयु स्वागतसिद्धये ॥१२८॥ इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने महर्लोकनिवासिनां मन्दिरेषु भगवतः पूजनादि रुद्रस्य ताण्डवं चेतिवर्णननामा पञ्चनवतितमोऽध्यायः ॥९५ ॥