०८८

श्रीकृष्णनारायण उवाच-
गार्हस्थ्येऽपि प्रज्ञिके पद्मावति प्रमोक्षणं ह्यपि ।
यौवनार्धं ब्रह्मचर्यं पालयेद् यः समुच्यते ॥१ ॥ तदर्धं वा तदर्धार्धं ब्रह्मचर्यं प्रपालयेत् ।
लक्षार्धं वा सहस्रार्धं शतं शतार्धमेव वा ॥२ ॥ पञ्चविंशतिवर्षाणि पालयेद् द्वादशाब्दिकम् ।
वा षडब्दानि वर्षं वा ब्रह्मचर्यं प्रपालयेत् ॥३ ॥ ऋतुमात्रं च वा मासं ब्रह्मचर्यं प्रपालयेत् ।
व्रतोत्तमं हि तत्प्रोक्तं यथाबलं प्रमोक्षदम् ॥४ ॥ एवपत्नीव्रतं यद्वा स्वर्गदं मोक्षदं ततः ।
आर्तवं चार्तवं दानं ब्रह्मचर्यं हि मध्यमम् ॥५ ॥ तेनाऽपि बलतुल्यं वै प्राप्यते मोक्षणं खलु ।
धर्माऽधर्माऽनभिज्ञो य आज्ञाशीलपरायणः ॥६ ॥ स्नेहसेवातिमग्नश्च गृही मोक्षमवाप्नुयात् ।
नरो वा यदि वा नारी गृहधर्मपरायणौ ॥७ ॥ देवसाध्वीसाधुसेवापरौ मोक्षं प्रगच्छतः ।
यद्वा कृष्णो हरिः पृथ्व्यां रामो नारायणः प्रभुः ॥८ ॥ प्राविर्भावपरः स्याद्वै तदा तद्योगतो द्रुतम् ।
दयालोस्तस्य कृपया तच्छक्तेः कृपयापि च ॥९ ॥ पार्षदानां च भक्तानां कृपया मुच्यते जनः ।
कृष्णो वा कृष्णभूतानि विचरन्ति भुवस्तले ॥4.88.१ ०॥ छन्नरूपा भिक्षुका वै जनकल्याणहेतवे ।
भिक्षार्थं चाऽलक्ष्यचिह्नाः समायान्ति गृहिगृहम् ॥११ ॥ तदा भिक्षादानसेवायोगं लभेद् गृहाश्रमी ।
अज्ञातो ज्ञानतो वापि मोक्षमवाप्नुयात् ॥१ २॥ तस्माद्वै गृहिभिर्नित्यं दातव्यं भिक्षुकाय तु ।
मोक्षदानां क्वचिद् योगान्मोक्षः स्याद् गृहधर्मिणाम् ॥१ ३॥ सत्कारस्य निधानं वै दाराश्रमो विशिष्यते ।
बहुपापादियुक्तोऽपि परोपकारशेवधिः ॥१४॥ गृहाश्रमो विजयते नित्यशः साधुसेवनात् ।
यद्गृहे साधवो यान्ति स्वल्पभोजनवाञ्च्छया ॥१५॥ साधुपादरजोभूमिर्गार्हस्थ्यं तद् विशिष्यते ।
साधुपादामृतं यत्र साधुशिष्टाशनं तथा ॥१६॥ साधुसम्वाहनं यत्र मोक्षस्थानं तु तद्गृहम् ।
यत्र देवालयो देवपूजा सतां निवासनम् ॥१७॥ ब्रह्मकया वैष्णवाश्च तदेव मोक्षमन्दिरम् ।
यत्र लक्ष्मीश्च तुलसी गङ्गा यमी सरस्वती ॥१८॥ स्थावरं जङ्गमं तीर्थं तदेव मोक्षमन्दिरम् ।
यत्र विष्णुः शिवो ब्रह्मा नारायणो नरायणः ॥१९॥ यत्राऽवताराः कृष्णस्य यत्र योगिजनालयः ।
चैत्यद्रुमा देवमूर्तिस्तदेव मोक्षमन्दिरम् ॥4.88.२०॥ इत्येवं सर्वथा श्रैष्ठ्यं दाराश्रमस्य भूतले ।
अन्यत्रापि तथा श्रैष्ठ्यं सन्त्युक्तानि तु यद्गृहे ॥२१॥ दारागृहाश्रमो यस्य परोपकारहेतवे ।
तदा श्रैष्ठ्यं सर्वतो वै दाराश्रमस्य माधवि ॥२२॥ अपि प्रज्ञे प्रवक्ष्यामि त्यागाश्रमस्य वै क्वचित् ।
हीनत्वम् ऋद्धिशून्यस्य व्यक्तिदोषेण वा क्वचित् ॥२३॥ उपकाराऽसमर्थो वै ऋद्धिशून्याश्रमः स हि ।
त्यागिनो न क्षितिश्चास्ति न गृहं वाटिका सुता ॥२४॥ भूदानं वाटिकादानं कन्यादानं गृहार्पणम् ।
स्वर्णदानं च गोदानं धनदानं न जायते ॥२५॥ नाऽन्येषां जीविकादानं जायन्ते नोत्सवास्तथा ।
नहि सम्पद्रहितानां गृहेऽश्नन्ति सदा द्विजाः ॥२६॥ न चाऽऽयान्ति मखे देवा महीमाना न यन्त्यपि ।
न बाला बालिकास्तस्य प्रमोदन्ते प्रसङ्गिनः ॥२७॥ शून्यतुल्यं त्यागिनो वै स्थलमासनमम्बरम् ।
मनोमोदकरं त्यागे सर्वं शुष्कायते यतः ॥२८॥ न चुल्ली काशते क्वापि न वह्निस्तृप्तिमेत्यपि ।
पेषणी गायति ब्राह्मे ब्रह्मनादं न तु क्वचित् ॥२९॥ नापि कुसूलधान्यानि न पिष्टचिन्तनं तथा ।
न नवोत्पन्नलाभश्च यत्राऽऽतिथ्यं न वर्तते ॥4.88.३ ०॥ न शय्या नाऽऽलयं सौधं न गौर्न क्षेत्रमित्यपि ।
नवसस्यकणाप्तिश्च यत्र स्वप्नेऽपि नास्ति हि ॥३ १ ॥ न नारीणां गीतयश्च न धनानां प्रदानकम् ।
न प्रातर्बालभाषादिश्रवणं यत्र विद्यते ॥३ ॥ न नारीजनविश्वासो नारीशून्ये प्रवर्तते ।
न सौभाग्यं न संस्कारा धर्मयज्ञा भवन्ति न ॥३३॥ शुष्कायते सदात्यागाश्रमो हीनोत्सवो यतः ।
पर्युषितं न पशवो भक्षयन्ति यदाश्रमे ॥३४॥ नापि पिपीलिकाद्याश्च पिष्टमदन्ति यत्स्थले ।
न मिष्टं विद्यते यत्र मक्षिका न वसन्ति च ॥३५॥ न मूषका वर्तयन्ति पारावाता वसन्ति न ।
न वृद्धा जलपानादि लभन्ते गुडमिश्रितम् ॥३६॥ न स्त्रीणां यत्र सम्मानं देवीनां गणना न च ।
दानं यत्र न चोत्कृष्टं रूक्षस्त्यागाश्रमस्ततः ॥३७॥ कौपीनवल्कलभस्मज्ञानघनं यदाश्रमे ।
न क्षुधानाशकं तद्वै रूक्षस्त्यागाश्रमस्ततः ॥३८॥ नग्नास्तु संहता यत्र मर्यादाऽधोमुखायते ।
आत्मामृताभिमग्नाश्च बाह्यामृतविवर्धिताः ॥३९॥ रूक्षदेहाः शुष्करागा विद्यन्ते यत्र तापसाः ।
दुःखसहाश्च जटिला मालाकेशविभूषणाः ॥4.88.४०॥ वृक्षगृहनिवासाश्च फलिशाखिप्रभोजनाः ।
पत्रपात्राः करतुम्बा मायानाशपरायणाः ॥४१ ॥ विचित्रतिलकशृङ्गा मृत्तिकाभस्मचन्दनाः ।
धूनीवह्निसहायाश्च मत्तकनकसेविनः ॥४२॥ प्रतीक्षमाणा वसतिं चायान्तीं देयसम्भृताम् ।
श्वानः काकाः सदोच्छिष्टं प्राप्नुवन्ति न यत्र च ॥४३॥ न भूतयज्ञो भवति सतृष्णः शान्तिमेति न ।
न लाभं लभते लोके रूक्षस्त्यागाश्रमो हि सः ॥४४॥ प्रज्ञे पद्मावति त्यागो मुक्तानामभयङ्करः ।
यथा तथा देहभाजां त्यागोऽपि चाभयङ्करः ॥४५॥ निर्भयत्वे वितृष्णत्वे कलिक्लेशविवर्जिते ।
दानशून्येऽपि रूक्षेऽपि त्यागाश्रमे विशेषता ॥४६॥ हर्याश्रयो हरौ स्थानं हरेर्ध्यानं च धारणा ।
हर्यर्थं सर्वकर्माणि श्रैष्ठ्यं त्यागाश्रमे ततः ॥४७॥ न चिन्ता गृहदेहादेर्न पत्न्या न सुतादिषु ।
नासक्तिर्धनवाट्यादौ सूतकं यत्र नास्ति च ॥४८॥ शोकस्नानं न वै यत्र यत्रोपार्जनमस्ति न ।
न श्रमो न व्यवहारो न मानं चावमाननम् ॥४९॥ ऋणं न नापि दण्डोऽस्ति न रक्षणस्य चिन्तनम् ।
न मोहो विभ्रमो नैव न पात्रगृहमार्जनम् ॥4.88.५०॥ न दैवं भौतिकं वापि यस्योद्वेजनमस्ति च ।
नात्मीयं परकीयं वा पारतन्त्र्यं न हिंसनम् ॥५१॥ नास्ति चौरभयं नास्ति याम्यभीर्मृत्युभीर्न च ।
नहि विप्लवचिन्ता च न पश्चदायचिन्तनम् ॥५२॥ न देहरोगचिन्ताऽपि निरपेक्षस्य योगिनः ।
न रागो जीवने यस्य न त्वरा मरणे तथा ॥५३॥ न पुष्टौ न रताविच्छा न विकाराश्च मानसाः ।
यतः शान्तिश्च निर्विघ्ना नारायणाभियोगिनी ॥५४॥ यत्र कृष्णार्थचिन्ता च यत्र नारायणाश्रयः ।
यत्र सतां सङ्गमाश्च सत्सङ्गो यत्र योगिनाम् ॥५५॥ ब्रह्मध्यानरतानां च सेवा यत्र च दर्शनम् ।
श्रवणं यन्मुखेभ्यश्च नाम्नां हरेर्मुहुर्मुहुः ॥५६॥ त्यागं वीक्ष्य क्षणं वृत्तिः शान्तिमेति हि मायिनाम् ।
परावृत्त्य मनो यत्र विशत्येव हृदीश्वरे ॥५७॥ भासतेऽणुमहानन्दकणिका तु सुधोत्तमा ।
ज्ञानध्यानामृतपानैस्तृप्तिर्यत्र तु योगिनाम् ॥५८॥ साध्व्यश्च साधवो यत्र कुटुम्बिनो न चेतरे ।
न यत्र वासनाख्यश्च संसारो विद्यते मनाक् ॥५९॥ गतिर्मोक्षस्य यत्रास्ति मुक्तिर्यत्र प्रलुण्ठति ।
तीर्थानि यत्र चागत्य पूयन्ते रजसा सताम् ॥4.88.६०॥ माया दिव्याऽपि सत्सङ्गाज्जायते वै यदाश्रमे ।
मायामयं समस्तं वै सतां योगेन दीव्यति ॥६ १ ॥ नैर्गुण्यं यत् समासाद्य ब्राह्मं सम्परिवर्तते ।
तस्माच्छ्रैष्ठ्यं तु रूक्षेऽपि त्यागाश्रमेऽर्थमोक्षिणाम् ॥६२॥ चतुर्थाऽर्थपरा यत्र दिव्या देवा हि साधवः ।
सर्वपापविलोप्तारः पावनाः परमेश्वराः ॥६३॥ संसारतापदग्धानां ब्रह्मशान्तिप्रवर्षकाः ।
उद्धारका भयात्कष्टात् सर्वेष्टपूरकास्तथा ॥६४॥ मिलन्ति साधवो यत्र त्यागाश्रमे हरिप्रियाः ।
ततस्त्यागाश्रमः श्रेष्ठः श्रमितानां निवृत्तये ॥६५॥ यथा सूर्यप्रतप्ताना छाया विश्रान्तिहेतुका ।
तथा संसारतप्तानां सन्तः शान्तिप्रदायकाः ॥६६॥ हरिं विना सतां सेवां विना च भक्तिमन्तरा ।
आत्मभावं विना शान्तिं ध्यानं विनाऽन्यदुज्झितम् ॥६७॥ रक्षितं रक्षणीयं वै त्यागाश्रमे पराश्रमे ।
ततस्त्यागाश्रमः श्रेष्ठो मोक्षसन्निधिगोचरः ॥६८॥ हरिः साक्षात् सुराः साक्षात् साक्षान्मुक्ताश्च पार्षदाः ।
साधुभिः सह तिष्ठन्ति तस्मात् त्यागः सदोत्तमः ॥६९॥ आक्षरः परमानन्दे ह्युत्सवा भुक्तकोटिकाः ।
कुटुम्बं चाच्युतं यत्र तस्मात् त्यागः सदोत्तमः ॥4.88.७०॥ नर्तनं भगवदर्थे व्यापाराः कृष्णतुष्टये ।
आरम्भा यत्र मुक्त्यर्थास्तस्मात् त्यागः सदोत्तमः ॥७१ ॥ मखा भागवता यत्र प्रसादश्च सतां हरेः ।
कृषिर्मायामलहन्त्री तस्मात् त्यागः सदोत्तमः ॥७२॥ जीवनं चात्मसिद्ध्यर्थं प्रवृत्तिः कृष्णतुष्टये ।
ब्रह्मगृहप्रयाणं च तस्मात् त्यागः सदोत्तमः ॥७३॥ येन त्यक्तं समस्तं वै समस्तैरुज्झितः स वै ।
त्यागः स्वात्मार्पणं कृष्णे सर्वार्पणं हि मुक्तये ॥७४॥ मुक्तिर्वै शाश्वतानन्दमग्नताऽक्षरधामनि ।
अत्राऽप्यनुभवस्तादृङ् मुक्तः स त्यागवान् गुरुः ॥७५॥ ये येऽर्था इष्टतापन्नास्ते ते त्यागे ह्यकल्मषाः ।
सिद्ध्यन्ति सर्वथा साध्वि प्रज्ञे माधवि सिद्धवत् ॥७६॥ ततस्त्यागाश्रमः श्रेष्ठः पूज्यो मान्यश्च मोक्षदः ।
फलं श्रेष्ठं न वै पुष्पं न पत्रं नापि मञ्जरी ॥७७॥ फले पक्वरसः श्रेष्ठो रसे मिष्टाम्लको रसः ।
श्रेष्ठो नारायणो मिष्टश्चाम्लस्तत्रातिरक्तता ॥७८॥ स्नेहभक्तिधरः कृष्णः प्राप्यस्त्यागेन चोत्तमः ।
केवलस्तु परस्त्यागो न श्रेष्ठो भजनं विना ॥७९॥ उपासनां विना त्यागः पाषाणत्वाय कल्पते ।
सेवां ध्यानं विना त्यागश्चागस्करो न संशयः ॥4.88.८०॥ ज्ञानं विना तथा त्यागश्चागस्करोऽस्ति सर्वथा ।
गुरोराज्ञां विना त्यागो वैराग्यमन्तरा तथा ॥८ १ ॥ आगस्करः स विज्ञेयः प्राप्तिशून्यो फले मृषा ।
संसारत्यजनं सार्थं यद्यात्मा हरिमाप्नुयात् ॥८२॥ न प्राप्तिस्तु हरेर्येन प्राप्तानां यत्र नाशनम् ।
पुमर्था निष्फला यत्र स त्यागश्चाऽऽग एव ह ॥८३॥ ज्ञानं चोपासना भक्तिर्दिव्यता श्रीहरिस्मृतिः ।
मोक्षस्थितिर्गुणास्त्यागे साधुता मुक्तताऽपि च ॥८४॥ केवलस्तु महात्यागो दोष एवास्ति देहिनः ।
प्रस्तरोऽपि महात्यागे तिष्ठत्येव स तादृशः ॥८५॥ त्यागे मौर्ख्यं च गर्वश्च मानं च जडता तथा ।
फलेच्छा त्यक्तसाजात्यगोचरा दूषणानि वै ॥८६॥ उपवासी पारणायां द्विगुणं ग्रसते यदि ।
पूर्वदिनेऽपि द्विगुणं तदोपवासिता मृषा ॥८७॥ त्यागी पश्चाच्छतगुणं गृह्णाति स्वर्जनं तपः ।
सत्यमैश्वरलोकं च तदा त्यागफलं नु किम् ॥८८॥ अनित्यं तु प्रागभवत् पश्चादनित्यमित्यपि ।
द्वयोः पर्यवसानं तु नाशे त्यागो विवर्तते ॥८९॥ दोषस्त्यागे महान् सोऽस्ति यदुत्तमाभिरागिता ।
प्राप्तं त्यक्तं चाध्रुवं तत् प्राप्तव्यं स्वं तथाऽध्रुवम् ॥4.88.९०॥ ध्रुवं नाऽऽलम्बितं ब्रह्म त्यागे त्रेधापि दूषणम् ।
त्यजनाद् वाऽप्यभियोगाद् ब्रह्म सम्पद्यते यया ॥९ १ ॥ सेवयोपासनया वाऽऽज्ञया ज्ञानेन वा तथा ।
त्यागेन विधिना वापि स त्यागो भोग एव वा ॥९२॥ ब्रह्मप्रदो यतः श्रेष्ठो गुण एव स उत्तमः ।
कृष्णेच्छाधीनवाञ्छात्मत्याग उत्तम एव सः ॥९३॥ मोक्षस्थित्यनुभावात्मत्याग उत्तम एव सः ।
तद्विना दूषणं त्यागो भार एव स केवलः ॥९४॥ शृणुतं माधवि साध्वि प्रज्ञे त्यागे तु भूषणम् ।
औदासीन्यं बाधितानुवृत्तिस्तु दूषणं तथा ॥९५॥ कर्मत्यागो भूषणं वै कृष्णत्यागस्तु दूषणम् ।
नारीत्यागो भूषणं सत्क्रियात्यागस्तु दूषणम् ॥९६॥ दोषत्यागो भूषणं वै गुणत्यागस्तु दूषणम् ।
गृहिणां दूषणं त्यागो भूषणं भोगसम्पदः ॥९७॥ त्यागिनां दूषणं भोगो भूषणं भोगवर्जनम् ।
मम भक्तिः सतां सेवा देवा देवाऽर्हाऽतिथिपूजनम् ॥९८॥ सुधार्मिकं तु दाम्पत्यं भूषणानि तु दारिणाम् ।
आत्मनिष्ठ मयि निष्ठा तदनाऽसक्तवृत्तिता ॥९९॥ नित्यभक्तिश्च सत्सङ्गस्त्यागिनां भूषणानि वै ।
क्षमा भूषणं साधूनां सत्कारो गृहिणां तु तत् ॥4.88.१ ००॥ साध्वीनां भूषणं शीलं ममाऽऽज्ञा भक्तभूषणम् ।
भूषणं स्थानिनां दानं ध्यानं भूषा तु योगिनाम् ॥१ ० १॥ त्यागवतां त्वनासक्तिर्भूषणं गृहिणां सती ।
अश्रद्धा त्यागिनां दोषो देहाभिमान इत्यपि ॥१० २॥ आलस्यं धर्महीनत्वं नास्तिक्यं दूषणानि वै ।
विषयाणां सेवनेच्छा दूषणं परमं तु तत् ॥१० ३॥ ध्यानाश्रमे धने वाञ्च्छा दूषणं त्यागिनां सदा ।
कुटुम्बिषु स्नेहवृत्तिस्त्यागिनां दूषणं परम् ॥१ ०४॥ दारिद्र्यं तु गृहस्थानां दोषकृद् दूषणं महत् ।
तृष्णा दोषो हि सर्वेषां राज्ञां तु भूषणं मता ॥१ ०५॥ ज्ञानिनां ज्ञानतृष्णाऽपि भूषणं त्यागवत् सदा ।
भक्तानां भक्तितृष्णाऽपि मम तृष्णाऽतिभूषणम् ॥१ ०६॥ इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने गृहगीतायां गृहस्थस्य मोक्षोपायाः, त्यागाश्रमे रूक्षता निश्चिन्तता सुखिता च, यथार्थत्यागो यथार्था दोषाश्च, गुणता दोषता
चेत्यादिनिरूपणनामाऽष्टाऽशीतितमोऽध्यायः ॥८८ ॥