०८१

श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि क्षात्रधर्मो हि दुर्जयः ।
सति राज्येऽपि राष्ट्रान्यत् वाञ्छन्ति मुग्धभूमिपाः ॥१ ॥ तृष्णातन्तुर्गले यस्य पाशरूपः प्रवर्तते ।
सत्सु सर्वेषु भोग्येषु मृत्युमुखो स गच्छति ॥२ ॥ न सम्पत्सुखमृच्छन्ति तृष्णाऽन्धीकृतबुद्धयः ।
नात्मकल्याणमिच्छन्ति रागद्वेषाभिवर्तिनः ॥३ ॥ राजाऽपि परभोगेच्छुः परद्रव्यादिलालसः ।
जार एव हि प्रोक्तोऽसौ जारत्वं परभोक्तृता ॥४ ॥ कृष्णे त्रैलोक्यनाथे च प्राप्ते श्रीपरमेश्वरे ।
येषां तृष्णा न शान्ता चेत् त एव गोखरास्त्विह ॥५ ॥ सति ज्ञाने न वै यस्येन्द्रियाणां शान्तता स तु ।
वानरो नरभावेऽपि पशुर्याम्यगृहार्हणः ॥६ ॥ कृष्णः सम्पूजितो येन गृहे मूर्तिश्च रक्षिता ।
हृदये पूजितो नैव रक्षिता न स राक्षसः ॥७ ॥ नन्दिभिल्लो नृपो बद्रि कथायाः समये पुरा ।
पुपूज श्रीहरिं नीत्वा विमानेन स्वमन्दिरे ॥८ ॥ स एव भगवान्नत्र राजते गुरुरच्युतः ।
नागविक्रमयज्ञे वै नन्दिभिल्लागुरुर्हि सः ॥९ ॥ श्रुत्वा कीर्तिं तु यज्ञस्य नागविक्रमभूपतेः ।
नन्दिभिल्लोऽसहमानो ज्ञात्वाऽपि गुरुमास्थितम् ॥4.81.१० ॥ युद्धपुरे स्थितं चापि ज्ञात्वा युद्धार्थमाययौ ।
सोऽयं मोहो विनाशार्थो नन्दिभिल्लस्य विद्धि ह ॥११ ॥ यत्र श्रीभगवानास्ते तं योद्धुं यदुपाययौ ।
यत्रास्ते भगवान् साक्षात्तस्यैव विजयो ध्रुवः ॥१२॥ जानन्नपि नन्दिभिल्लो यमुनाभूपतिर्बली ।
लक्षयोद्धृगणैः सार्धं युद्धार्थं यदुपाययौ ॥१३॥ दूतं दर्दुररत्नाख्यं प्रेषयामास मोहतः ।
नागविक्रमभूपं श्रीकृष्णनारायणान्वितम् ॥१४॥ प्रणम्याऽऽगत्य राजानं नत्वा श्रीपुरुषोत्तमम् ।
स्वस्वाम्युक्तं समस्तं वै प्राह गर्वभरं वचः ॥१५॥ गगायमुनासिन्धूनां मध्ये सम्राड् भवाम्यहम् ।
अन्ये मे करदाः सर्वे भवान् भवति मे तथा ॥१ ६॥ तस्मात् करदः खण्डेशः करं ददातु मे द्रुतम् ।
नो चेद् युद्धं प्रददातु नन्दिभिल्लस्य मे नृप ॥१७॥ नान्दिभिल्लीं राजधानीं सर्वराज्यातिवर्तिनीम् ।
गृह्णातु युद्धमूल्येन मा चिरं करदोऽस्ति मे ॥१८॥ मया कृपालुना नाऽद्याऽवधिः करः स्मृतो यतः ।
अल्पकीर्तिः क्षुद्रराज्यो भवानास्ते विचार्य तत्॥१ ९॥ किन्त्वद्य मखमासाद्य वर्तते मूर्ध्नि रोहितुम् ।
पादत्राणं कथं मूर्ध्नि तिष्ठेत करदोऽस्ति यः ॥4.81.२०॥ युद्धे युद्धपुरं दत्वा यद्वा मे किङ्करोऽस्तु च ।
एषोऽहं सन्निधावस्मि युद्धपुरस्य सीमसु ॥२१ ॥ अनिर्देश्यविमानाढ्यश्चानिर्देश्यगजान्वितः ।
उष्ट्राऽश्वाऽश्वतरासङ्ख्यमानवसैन्यसंयुतः ॥२२॥ शीघ्रं करोतु वै प्राणग्लहं त्वग्रे ह्युपस्थितम् ।
यद्वा प्रसादमासाद्य करोतु राज्यमुत्तमम् ॥२३॥ इत्येवं मम नृपतिर्भवते वै यशस्विने ।
आवेदयति दूतोऽहं कथयामि यथोदितम् ॥२४॥ इत्युक्त्वा बद्रिके दूतो विरराम ननाम च ।
कृतादरो निषसाद सिषेवे पुरुषोत्तमम् ॥२५॥ नन्दिवल्लिमहासैन्यं लक्षमानवसङ्कुलम् ।
लुनीनद्यास्तटे बद्रि चासीत् सन्नद्धमुत्सुकम् ॥२६॥ विमानशतसंयुक्तं सहस्रगजशोभनम् ।
पञ्चसाहस्रोष्ट्रयुक्तं दशसाहस्रवाजियुक् ॥२७॥ तथा विंशतिसाहस्रमहाश्वतरशोभनम् ।
तथा विंशतिसाहस्रवृषभादिसमन्वितम् ॥२८॥ पञ्चसाहस्ररथयुक्े सर्वशस्त्रार्थपूरितम् ।
नीयमानं सैन्यपेन नाम्ना मयूरवाहिना ॥२९॥ एतादृशं महासैन्यं गुप्तचारेण वै द्रुतम् ।
ज्ञात्वा युद्धपुराधीशो नारायणमुपाययौ ॥4.81.३ ०॥ दूतं निष्कास्य दूरं वै न्यवेदयद् विपत्क्षणम् ।
हरिस्तस्मै विजयाय महाशीर्वादमैरयत् ॥३ १ ॥ युद्धं देहि जयं धेहि प्राप्नुहि राज्यमुत्तमम् ।
अत्र तिष्ठामि राजेन्द्र तव रक्षार्थमन्वहम् ॥३२॥ गर्विष्ठानां महागर्वहर्ताऽहं भक्तरक्षकः ।
प्रतीपानां नाशकर्ता भवामि भक्तवत्सलः ॥३३॥ इत्युक्तो बद्रिके कृष्णनारायणेन वै तदा ।
नागविक्रमभूपश्च तुष्टोऽभवद्ध्रदन्तरे ॥३४॥ दूतमाहूय प्राहेत्थं निवेदय नृपाय ते ।
युद्धार्थं वै समायाति नागविक्रमभूपतिः ॥३५॥ करदो भव मे राजन्नद्यतो नन्दिभिल्लराट् ।
याहि प्रयामि पृष्ठेऽहं ससैन्यो वै यथाबलम् ॥३६॥ इत्युक्तः स तु दूतोऽपि नत्वा लब्ध्वा वचो द्रुतम् ।
ययौ तं नन्दिभिल्लं वै जगाद तद् यथातथम् ॥३७॥ सैन्यं सज्जं द्रुतं श्रुत्वा नन्दिभिल्लो हि सैन्यपम् ।
इन्द्रवज्राभिधमाज्ञापयामास रणाय वै ॥३८॥ बद्रिके विज्ञलोकानां विज्ञानं लयमेत्यपि ।
बुभुक्षितानां लुब्धानां सतृष्णानां च कामिनाम् ॥३९॥ गर्विष्ठानां मानिनां च मत्सरिणां खलात्मनाम् ।
कालाऽऽवृतशिखानां च दुर्भाग्यानां च पापिनाम् ॥4.81.४०॥ सम्प्राप्तनिधनानां च निम्नभाग्यवतां तथा ।
शप्तानां हिंसकानां च क्रुद्धानां धीर्विनश्यति ॥४१ ॥ विवेको लीयते बद्रि युद्धदुर्मदिनां रणे ।
मद्यपानां यथा भानं लीयते रणिनां तथा ॥४२॥ सैन्यं सज्जमभवच्च नन्दिभिल्लस्य सर्वथा ।
चतुरङ्गं बलं सर्वं प्रत्यैक्षत निनादनम् ॥४३॥ अभवँश्च तदा सैन्ये चाऽपशकुनकानि वै ।
इन्द्रवज्रध्वजो मुख्यो न्यपतद् गजपृष्ठतः ॥४४॥ सेनापतिशिरस्त्राणं न्यपतत् स्वकरेण वै ।
वामाङ्गानि स्फुरणानि हस्तिचित्कारगर्जनाः ॥४५॥ हेषाश्च वाजिनां कर्णकठोरास्तु तदाऽभवन् ।
वायुर्ववौ सन्मुखोऽतिवेगवान् धूलिका वहन् ॥४६॥ दुर्दिनं चाम्बरे तस्य सैन्योपरि व्यदृश्यत ।
वाहनानि सकम्पानि व्यवर्तन्त स्वभावतः ॥४७॥ भग्नमनस्का योद्धारः समजायन्त वै मनाक् ।
काका घूकाः कपोताश्च श्येना गृध्राः पतन्ति च ॥४८॥ ध्वजाऽग्रेऽम्बालिकाऽग्रे च रथाऽग्रे योद्धृमस्तके ।
गोमायवो रुदन्त्यग्रे पादस्खलनकान्यपि ॥४९॥ शस्त्रपातश्च तत्कोशात् प्रजायते मुहुर्मुहुः ।
नन्दिभिल्लस्य वै स्वप्नं क्षणनिद्रामयं ह्यभूत् ॥4.81.५०॥ तत्र काष्ठचयं शुष्कं रथभङ्गं ददर्श सः ।
वेश्यास्तन्यं पपौ राजा यन्त्रस्फोटमकालिकम् ॥५१॥ शुश्राव तत्र निद्रायामुच्छिष्टभोजनं व्यधात् ।
शत्रुव्रजे स्वपतनं जलपूरे प्रपातनम् ॥५२॥ वनदाहं च तन्मध्ये दहनं स्वं ददर्श ह ।
मिथः सैन्यस्य युद्धं च स्वस्यैव वै परस्परम् ॥५३॥ नग्नं स्वस्य स्वरूपं च दक्षिणाऽभिगमं तथा ।
मस्तके चार्मणोपानद्धारणं स ददर्श ह ॥५४॥ रक्तवस्त्रस्त्रियाऽऽश्लिष्टं व्यपश्यन्नन्दिभिल्लकः ।
उरःपीटनं कुर्वन्त्या पदा ताडितमित्यपि ॥५५॥ धूत्वा स्वस्य शवं राजा श्मशानेऽर्धनिशोत्तरे ।
ययौ तत्र महाजीर्णं सौधदेवालयादिकम् ॥५६॥ खण्डितं पतितं चापि व्यलोकयद् भयङ्करम् ।
काका निपेतुः शिरसि शतं तु राजमस्तके ॥५७॥ वेत्रं हस्तात्तु पतितं स्खलितं वेत्रधारिणः ।
प्रधानः पतितः स्वप्ने पादस्खलनदोषतः ॥५८॥ परितश्चापि मार्गाणां निरोधः शत्रुभिः कृतः ।
रोरूयमाणा राज्ञी चेत्येवं स्वप्ने व्यलोकयत् ॥५९॥ नाम्नादिलावरीदेवी यन्नाम्ना नगरी ह्यभून् ।
दिलावरीतिनगरी यमुनातटमास्थिता ॥4.81.६० ॥ नन्दिभिल्लीतिनाम्नी वै सभा यत्राऽभवत् परा ।
स्वर्णस्फाटिकवैदूर्यहीरकादिविनिर्मिता ॥६१ ॥ सापि पतित राज्ञा वै दृष्टा पाषाणसञ्चया ।
नगरी सैन्यवद् याति पश्चिमां दिशमित्यपि ॥६२॥ व्यलोकि तेन राज्ञा च राज्ञ्या वैधव्यमित्यपि ।
केशानां मुण्डनं राज्ञ्या व्यलोकि निजमस्तके ॥६३॥ श्मशानं विकरालाश्चाऽऽदृश्यन्त याम्यदूतकाः ।
राज्ञ्याः केशानपि धृत्वाऽऽकुञ्चने बलिभिः कृतम् ॥६४॥ कृष्णवर्णैस्तु पुरुषैर्धर्षितेति नृपप्रिया ।
स्वप्ने स्वां दुःखसम्पन्नां व्यलोकयत्तिरस्कृताम् ॥६५॥ दासीभिर्दासवर्गैश्च तर्जितां चावमानिताम् ।
तथा व्यलोकयद् राज्ञी रूपवत्यो हि कन्यकाः ॥६६॥ अपि तेजोविहीनाश्च मलिनाऽस्याः शुचाऽन्विताः ।
सौधं त्यक्त्वा गम्यमाना अरण्यं प्रति वै तदा ॥६७॥ बद्रिके क्षणमात्रेण वीक्ष्य राजा बुबोध ह ।
सर्वमनिष्टं नैजं वै तथापि न न्यवर्तत ॥६८॥ राज्ञी शङ्करपूजां सा चक्रे विघ्नजयाय वै ।
बाणाच्छुश्राव सा राज्ञी हृतभाग्यो नृपस्तव ॥६९॥ मा खेदं कुरु कल्याणि जयो यत्र हरिः स्वयम् ।
राजा कृतापराधोऽसौ फलमेष्यति वै द्रुतम् ॥4.81.७०॥ यत्रास्ते भगवान् साक्षात् तत्र योद्धं गतो यतः ।
निजदोषहतो राजा मदान्धो नैव पश्यति ॥७ १॥ इत्युक्त्वा शङ्करो लिङ्गे विरराम दिलावरीम् ।
दिलावरी तु वै मूर्च्छां प्रजगाम तदा क्षणे ॥७२॥ निराशा साऽभवन्मृत्युमहीमानेव रोगिणी ।
बद्रिके तु तदा काले नागविक्रमभूपतेः ॥७३॥ शकुनान्यभवन् सर्वजयप्रदानि सर्वतः ।
आशीर्वादपरा विप्रा आययुस्तिलकान्विताः ॥७४॥ प्रदक्षिणोऽभवद्वह्निः प्रसन्नो धूमवर्जितः ।
श्वेतो वै देववृषभोऽदृश्यत गोसमन्वितः ॥७५॥ कन्यकाः स्वर्णरत्नाढ्या भूषाम्बरधरास्तथा ।
अदृश्यन्त प्रसन्नास्या नागविक्रमभूपतिम् ॥७६॥ कोकिलाः सारसा हंसाः शुकाश्च गरुडाः खगाः ।
खे त्वागत्य पुनर्यान्ति दक्षिणं विजयप्रदा ॥७७॥ रत्नाभरणभूषाढ्या नर्तकी वारकाङ्गना ।
अदृश्यत निसर्गाद्वै स्वर्णघटसमन्विता ॥७८॥ वैष्णवाः साधवो दिव्याः शिखासूत्रसमन्विताः ।
सबिन्दुतिलकाढ्याश्चाऽदृश्यन्ताप्यभिसन्मुखाः ॥७९॥ घण्टानादोऽभवत्तत्र देवनैवेद्यबोधनः ।
दक्षाङ्गानां स्फुरणानि तदाऽभवन्नृपस्य वै ॥4.81.८०॥ क्षणस्वप्ने विमाने स्वं ददर्श देवपूजितम् ।
ततः क्षणे गजे स्वर्णाम्बालिकायां स्थितं निजम् ॥८१ ॥ दिव्यया कन्यया पद्महारेण कृतपूजनम् ।
ददर्श बहुकन्याभिः सेवितं शयनोत्तमे ॥८२॥ पितृभिस्तुष्टहृदयैः प्रसन्नाऽऽस्यैः प्रवर्धितम् ।
महोत्सवैर्महाशृङ्गारकैः संशोभितालये ॥८३॥ दिव्यसिंहासनस्थं स्वं ददर्श परिवारितम् ।
क्षीरभोजनतृप्तिं च कमलस्य दले कृताम् ॥८४॥ अन्वभवत् क्षणस्वप्ने दीर्घतृप्तिं जले स्थितः ।
एवं राज्ञः शकुनानि समभवन् जयाय वै ॥८५॥ राज्ञ्यास्तस्याऽभवत् स्वप्ने महेन्द्राणीव दर्शनम् ।
महायज्ञोत्सवे स्वां सा ददर्श चक्रवर्तिनीम् ॥८६॥ लक्ष्म्या श्रिया पाशवत्या प्रभयाऽऽश्लिष्य वक्षसि ।
धृतां दिव्यपद्महारैर्चितां हृदि योजिताम् ॥८७॥ सपक्षधवलाभैश्च हस्तिभिर्वाहिते निजाम् ।
विमाने त्वम्बरे पत्या साकं स्थितां ददर्श सा ॥८८ ॥ सैन्यानामपि योद्धॄणां शकुनानि शुभानि वै ।
नागविक्रमराज्ञश्चाऽभवन् जयप्रदानि हि ॥८९॥ अस्फुरन् सर्वसैन्यानां दक्षाङ्गानि समन्ततः ।
नन्दकूबरसेनानीयोजितानां तदा क्षणे ॥4.81.९०॥ सेनायां युद्धनादार्था भेर्यवाद्यत वै स्वयम् ।
पवनः सानुकूलश्च पृष्ठभागाद् ववौ तदा ॥९ १॥ बलं सोत्साहमेवाऽभूत्तटा वै नागवैक्रमम् ।
सर्वं विंशतिसाहस्रं युद्धार्थं योजितं क्षणात् ॥९२॥ लुनीनद्यास्तटे सर्वमुपस्थितं क्षणाद्ध्यभूत् ।
युद्धपुरं प्रसंरक्ष्य महार्धचन्द्रसदृशम् ॥९२ ॥ बद्रिके हि तदा राज्ञी नागविक्रमभामिनी ।
आययौ श्रीकृष्णपूजार्थं द्रुतं त्वर्कमालिनी ॥९४॥ प्रपूज्य परमात्मानं युद्धवार्तां समाकरोत् ।
सभयां निर्भया चापि कृष्णनारायणान्तिके ॥९५॥ ‘कृष्णनारायणस्वामिनारायण नरायण ।
बालकृष्णाऽनादिकृष्णनारायण रमायण’ ॥९६॥ तव भक्ताऽस्मि देवेश काङ्क्षये नैव मायिकम् ।
किन्तु कृष्ण स्त्रिया इष्टमवैधव्यं सुधार्मिकम् ॥९७॥ प्रभाया इव मे चाऽस्तु तदिष्टं मे प्रपालय ।
राज्यं तवेदं सर्वं वै सनाथाऽहं त्वदर्पिता ॥९८॥ यथेष्टं कुरु कृष्णाऽत्र प्राप्ते शत्रुभये प्रभो ।
इत्युक्त्वा बद्रिके कृष्णपादयोः पतिता हि सा ॥९९॥ कृष्णस्तस्य ददौ तूर्णं दानमभयसञ्ज्ञकम् ।
अदर्शयन्निजे रूपे महाकालं भयङ्करम् ॥4.81.१० ०॥ शत्रुसैन्यानि सर्वाणि भक्षयन्तं त्वरायुतम् ।
जीवयन्तं रक्षयन्तं निजसैन्यानि यानि च ॥१०१ ॥ ततः सौम्यं कृष्णरूपं विष्णुं नारायणं हरिम् ।
अदर्शयन्निजे रूपे सौम्यं साम्राज्यदं प्रभुम् ॥१ ०२॥ अङ्के कृत्वा पतिं नैजं हसन्तं पार्वतीपतिम् ।
तिरोभूय ततो नैजं मानवं रूपमुत्तमम् ॥१ ०३॥ अदर्शयद्धरिस्तस्यै सा सन्तुष्टाऽभवत्ततः ।
बद्रिके श्रीहरिस्तूर्णं युद्धार्थं त्वरितोऽभवत् ॥१ ०४॥ सज्जो भूत्वा रथे स्थित्वा श्वेताश्वपरिवाहिते ।
सर्वशस्त्रास्त्रसंविज्ञो रणाग्रे संस्थितोऽभवत् ॥१ ०५॥ नागविक्रमभूपोऽपि रणाऽग्रे रथमध्यगः ।
संस्थितः सर्वशस्त्राढ्यः श्रीकृष्णात्मनिवेदवान् ॥१ ०६॥ इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने दिलावरीनगर्या नन्दिभिल्लनृपसैन्यस्य नागविक्रम्ं जेतुमागमनं, नागविक्रमस्य ससैन्यस्य युद्धार्थं तत्प्रतिनिर्याणं, शकुनाऽपशकुनस्वप्नादीनि चेत्यादिनिरूपणनामैकाशीतितमोऽध्यायः ॥८१॥