०८०

श्रीबद्रीप्रियोवाच-
सर्वकल्याणकर्तः श्रीकान्त कृष्णनरायणः ।
किं चकार ततः सर्वं चरित्रं वक्तुमर्हसि ॥१ ॥ श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि स्वामिकृष्णनरायणः ।
नागविक्रमभूपेन यज्ञे त्वाकारितो ययौ ॥२ ॥ पारवत्या निजपत्न्या प्रभया निजकान्तया ।
युतः सन्तुष्टया स्वस्रा दासदासीगणैर्युतः ॥३ ॥ ययावस्मै कृष्णनारायणाय शर्करापुरे ।
प्रतिज्ञातं तु यज्ञार्थं युद्धपुराऽधिपेन यत् ॥४ ॥ नागविक्रमसञ्ज्ञेन समारब्धो मखस्तु सः ।
तत्राऽनादिकृष्णनारायणो ययौ निमन्त्रितः ॥५ ॥ सर्वमेधं महायज्ञं कारयामास माधवः ।
अनादिश्रीकृष्णनारायणश्रीश्वरवल्लभः ॥६ ॥ नागविक्रमराजेशो महाभागवतोत्तमः ।
चातुर्मास्यव्रतं कुर्वन् सर्वमेधं चकार ह ॥७ ॥ युद्धपुरे लुनीनद्यास्तटे विशालभूतले ।
पञ्चयोजनविस्तारे मण्डपं स त्वकारयत् ॥८ ॥ श्रावणशुक्लैकादश्यां कृतसम्भारसञ्चयः ।
यज्ञमारभत क्ष्मेशो विप्रयाज्ञिकनोदितः ॥९ ॥ आययुस्तत्र भूदेवाः साधवो वैष्णवा अपि ।
नरा नार्यो लक्षशो वै धर्मकार्यपरायणाः ॥4.80.१ ०॥ ब्रह्माऽभवत् कृष्णनारायणः श्रीभगवान् स्वयम् ।
यजमानो नागविक्रमाख्यो भूपो हि वैष्णवः ॥११ ॥ ऋत्विजो गालवाद्याश्च महर्षयोऽभवन्मखे ।
फालायनोऽभवत्तत्रोद्गाता सामपरायणः ॥१२॥ सारायणोऽभवत्प्रत्युद्गाता वेदार्थवित्तथा ।
अजायनोऽभवत्तत्राऽऽहर्ता वैदिकसत्क्रियः ॥१ ३॥ दण्डायनोऽभवत्प्रतिहर्ता सर्वक्रियापरः ।
भालायनस्तु ऋषिराट् प्रस्तोता चाभवन्मखे ॥१४॥ रसायनोऽभवत् प्रतिप्रस्तोता यज्ञकर्मणि ।
होता धारायणश्चैव प्रतिहोताऽलवायनः ॥१५ ॥ जापकाश्चार्बुदा विप्राः पौष्करा हवनार्थिनः ।
यामुनेया द्विजाश्चासन् दिक्पाला वैष्णवोत्तमाः ॥१६॥ सौराष्ट्रीयाः पूजकाश्च द्विजाश्चासँस्तदा मखे ।
गौर्जराः पाचकाश्चासन् मरुजाः परिवेषकाः ॥१७॥ गाङ्गेया वेदमन्त्रादिव्याख्यातारोऽभवन्मखे ।
सिन्धुजाः पाठकाश्चासन् सभासदास्तु पूर्वजाः ॥१८॥ दक्षिणात्या हवनार्था आसँस्तत्र च जापकाः ।
महर्षयो वशिष्ठाद्या गुरवस्तु निरीक्षकाः ॥१ ९॥ द्रष्टारस्तत्र सर्वेषां कर्मणां वै तदाऽभवन् ।
मध्यस्था वैदिका विप्रा आसन् प्रख्यातनामिनः ॥4.80.२०॥ लोमशाद्यास्तथा मार्कण्डेयाद्या दिव्यदृष्टयः ।
हैमाचलाः कृष्णनाम्नां कीर्तनेष्वभवन् स्थिराः ॥२१ ॥ एवं वै बद्रिके यज्ञेऽभवन् विप्रा व्यवस्थिताः ।
साधवो लक्षशश्चाप्यभवन् भजनकारिणः ॥२२॥ प्रजाश्च खण्डराजन्या आमन्त्रिताः समाययुः ।
लक्षातिलक्षमनुजाः सर्वमेधेऽभवँस्तदा ॥२३॥ घृतकुल्या दधिकुल्याः सुधाकुल्यास्तदाऽभवन् ।
पयःकुल्या मधुकुल्या शर्करापर्वतास्तथा ॥२४॥ मिष्टान्नानां पर्वताश्च पानानां प्रसरांसि च ।
भक्ष्याणां सेतवश्चासन् सर्वमेधेऽत्र बद्रिके ॥२५॥ फलानां लेह्यचोश्यानां महाद्रयोऽभवन् मखे ।
दानार्हहोमयोग्यानां मेरवस्तत्र चाऽभवन् ॥२६॥ समिधां पायसान्नानां क्षीराणां सञ्चयोत्तमाः ।
कणानां चापि शिम्बीनां राशयोऽप्यभवन्मखे ॥२७॥ वस्त्राणां कम्बलानां च भूषाणामद्रयोऽभवन् ।
पात्राणां दाररत्नानां धेनूनां मण्डलान्यपि ॥२८॥ देहोपकरणानां च गृहोपकरणार्थिनाम् ।
आसन् प्रराशयस्तत्र सम्पदां दिव्यसम्पदाम् ॥२९॥ सुवर्णानां रजतानां सञ्चयाश्चाऽभवन्मखे
आसनानां स्रुक्स्रुवाणां हविष्याणां प्रपूर्णताः ॥4.80.३ ०॥ दश सूत्यास्तथा बद्रि दीक्षाश्च द्वादशापि वै ।
उपसदो द्वादशश्च यथायोग्यं व्यवर्तयन् ॥३१ ॥ भाद्रपूर्णावधिर्यागश्चतुस्त्रिंशद्दिनात्मकः ।
सर्वाङ्गपूर्णो ह्यभवद् बद्रिके कृष्णसन्निधौ ॥३२॥ बृहस्पतिसवाद्याश्च आप्तोर्यामान्तकाः शुभाः ।
साङ्गोपाङ्गा ह्यभवँश्च नारायणसमाहिताः ॥३३॥ बृहस्पतिसवे त्रयस्त्रिंशद्गोदानमाभवत् ।
वैश्यसवे विप्रसवे सोमसवे तथाऽभवत् ॥३४॥ पृथिसवे गोसवे ओदनसवे तथाऽभवत् ।
मरुत्स्तोमेऽग्निस्तुतौ च महेन्द्रस्तवने तथा ॥३५॥ आप्तोर्यामे निधने(निघने) च सवे गोदानकानि च ।
अभिषेकाः पृथक् चापि तत्तद्देवाऽभ्यपूजनम् ॥३६॥ पुरोडाशार्पणं चापि यथाकर्माऽभवन् खलु ।
सवोऽभिषेक उक्तो वै यजमानस्य चैव ह ॥३७॥ जलेनाऽऽज्येन दध्ना च घृतेन पयसा तथा ।
अभिषेको यथायोग्यमभवत्तत्र चाध्वरे ॥३८॥ पुरोडाशाश्चरवश्च हवींषि द्रव्यमुत्तमम् ।
ओदनानि सक्तवश्च मन्थास्तत्राऽभवन् शुभाः ॥३९॥ रथन्तरादिसोमाश्च संस्थाश्च हवनान्यपि ।
यथायोग्यानि जातानि निर्वर्तितानि शार्ङ्गिणा ॥4.80.४०॥ अवतारा ईश्वराश्च शक्तयो देवताः सुराः ।
प्रत्यक्षा आगमन् बद्रि कृष्णाऽऽहूतास्तदध्वरे ॥४१ ॥ सृष्टित्रये च ये देवा यज्ञाधिकारयोगिनः ।
सर्वे ते बलिभोगार्थमाययुर्गोचराः सुराः ॥४२॥ घृतधाराभिरेतेपि हविष्यान्नैरनुत्तमैः ।
रसैर्मिष्टान्नकैः क्षीरैः फलैः समिद्भिरित्यपि ॥४३॥ कणैः सुधाभिः पयसा तर्पिताः शाककन्दकैः ।
नित्यं तत्र प्रदीयन्ते स्वर्णगोदानकानि वै ॥४४॥ भोजनाऽम्बरदानानि धर्मदानानि यान्यपि ।
पितृतृप्तिप्रदानानि दीयन्ते वै नृपेण ह ॥४५॥ पूज्यन्ते साधवः सन्तः साध्व्यो विप्राश्च वैष्णवाः ।
आगन्तुकाऽनाथदीना नरा नार्यः प्रदानकैः ॥४६॥ लक्षशो मानवाद्याश्च भुञ्जते गृष्टमिष्टकम् ।
पिबन्ति सद्रसान् गृष्टिपुष्टिदान् तृप्तिकारकान् ॥४७॥ अग्नयो गोचरास्तत्र भुञ्जते स्वकरैर्मुखे ।
प्रसन्ना देवताः सौम्या भुञ्जते हव्यमुत्तमम् ॥४८॥ पितरो भुञ्जते बद्रि तथाऽन्यदेवतादिकाः ।
समस्ताः श्रीकृष्णहस्तार्पितप्रसादमुत्तमम् ॥४९॥ तृप्तास्तृप्ता वयं तृप्ता इत्यूचुश्चानलाननाः ।
ततो यज्ञस्य भाद्रस्य पूर्णायां पूर्णाताऽभवत् ॥4.80.५०॥ पूर्णाहुतौ हविष्याणि त्रैलोक्यसम्भवानि वै ।
यान्यानीतानि तानि श्रीकृष्णो ददौ महानले ॥५ १ ॥ उद्गारास्तृप्तिदास्तेषां सुराणां सम्भवन्ति च ।
मा मेति सुरवाचश्चाऽभवन् पूर्णाहुतौ मुदा ॥५२॥ सृष्टित्रयं तर्पितं श्रीकृष्णेन परमात्मना ।
नागविक्रमभूपस्य सङ्कल्पः सफलीकृतः ॥५३॥ बद्रिके श्रीहरिर्यत्र विश्वात्मा सकलम्भरः ।
दाता ग्रहीता भोक्ताऽत्ता नित्यतृप्तो जगन्मयः ॥५४॥ तत्राऽतृप्तिर्न विद्येत परिपूर्णो यतः स्वयम् ।
नागविक्रमभूपोऽपि कृत्वा यज्ञं सदक्षिणम् ॥५५॥ कृतकृत्योऽभवद् बद्रि महाभागवतोत्तमः ।
स्वर्णरूप्यमयीः सर्वा दक्षिणाः प्रददौ मखे ॥५६॥ गोधनानि विभूषाश्च कन्यादानानि वै ददौ ।
क्षितिदानानि रत्नानां दानानि विभवार्पणम् ॥५७॥ विद्यादानानि बहूनि धर्मदानानि सन्ददौ ।
गृहदानान्युत्तमानि वृत्तिदानानि सन्ददौ ॥५८॥ अवभृथं ततौ राजा चकार याज्ञिकैः सह ।
जलमातृपूजनादि जलदेवप्रपूजनम् ॥५९॥ तीर्थस्थाने लूणिकाया जले चकार भूपतिः ।
सर्वं विधिं सदानं च कृत्वा स्नानं समाचरत् ॥4.80.६०॥ लक्षाधिमानवाः साकं स्नानदानानि चाचरन् ।
नागविक्रमभूपस्य राज्ञी नाम्नाऽर्कमालिनी ॥६ १॥ अवभृथान्ते दानानि योषिद्भ्यः प्रददौ मुदा ।
हीररत्नादिहाराँश्च स्वर्णभूषाम्बराणि च ॥६२॥ श़ृङ्गारवेषान् सुभगान् स्वर्णपात्राणि यानि च ।
देहोपकरणान्येव ददौ भूरीणि वै मुदा ॥६३॥ विप्रपत्न्यः कन्यकाश्च साध्व्यः सत्यः सखीजनः ।
प्रसन्नमानसा जातास्तृप्ता दानाप्तिसत्फलाः ॥६४॥ एवमवभृथे तत्र बद्रिके विस्मयावहः ।
चमत्कारोऽभवत्तूर्णं तं वदामि निबोध मे ॥६५॥ आगतं मण्डलं त्वेकं पिशाचानां महत्तदा ।
आकाशाज्जलमध्ये तत् पतितं निम्नवारिषु ॥६६॥ सहसा ते सहस्रं वै पपुर्वारि मुदान्विताः ।
पिशाचाः स्नातमात्राश्च दिव्यदेवास्तदाऽभवन् ॥६७॥ स्वर्णकुण्डलहाराद्यैर्भूषिताः सूर्यवर्चसः ।
सुरा देव्योऽभवन् सर्वे षोडशादिप्रवत्सराः ॥६८॥ कृताञ्जलयः श्रीकृष्णमस्तुवन् भावगर्भितम् ।
अहो वयं पुरा कृष्ण व्यापारार्थं वणिग्जनाः ॥६९॥ युद्धपुरात् थररणे निर्गताः शर्करापुरम् ।
स्त्रीबालसहिताः कृष्ण उष्ट्रमहोष्ट्रवाहनाः ॥4.80.७०॥ रणमध्ये गता यावज्झञ्झावातोऽतिदुःसहः ।
प्रोत्पन्नो वालुकावृष्टिवहो मध्याह्ननाशनः ॥७ १॥ उष्ट्रा महोष्ट्रा बालाश्च नार्यः क्षितौ हि वायुभिः ।
वालुकासु मुहूर्तेन गर्भस्था अभवन्मृताः ॥७२॥ वयं ये बलिनश्चापि वालुकावृष्टिताडिताः ।
उपविष्टा वालुकाधस्तत्र छन्ना हि वालुभिः ॥७३॥ वालुकानामुच्छ्रया वै जाता वयं तदन्तरे ।
मृता गर्भगता सर्वे पिशाचता रणे गताः ॥७४॥ युद्धपुराभ्याशसीमप्रदेशेषु निरन्तरम् ।
सहस्रसङ्ख्यकाः कृष्ण अभवाम रणालयाः ॥७५॥ अद्य ज्ञात्वा सर्वमेधयज्ञस्याऽवभृथोत्सवम् ।
अनादिश्रीकृष्णनारायणपादजलामृतम् ॥७६॥ पातुमुपागताश्चात्र पीत्वा स्नात्वा पदामृतम् ।
पावनाः स्म च सञ्जाताः पिशाचत्वविवर्जिताः ॥७७॥ स्नानेन पुण्यलाभेन देवानां योग्यतान्विताः ।
अद्य जाता वयं कृष्ण तथापि सुरभावनाम् ॥७८॥ नेच्छामहे यतः कृष्ण पुनरावर्तनात्मिकाम् ।
अपुनरावृत्तिभावं काङ्क्षामहे तु सर्वथा ॥७९॥ परमेशो भवानत्र साक्षाद् दृष्टोऽधुना प्रभुः ।
पीतं पादजलं तेऽत्र स्नातं प्रसादवारिभिः ॥4.80.८०॥ तद्वयं परमं मोक्षं काङ्क्षामहे तवाऽऽश्रिताः ।
शाश्वतं ब्रह्मनिर्वाणं प्रापयाऽस्मान् कृपां कुरु ॥८ १ ॥ श्रुत्वैवं भगवान् बद्रि करे धृत्वा जलं पुनः ।
निजमन्त्रं चार्पणात्मात्मकमुच्चार्य तत्र च ॥८२॥ सङ्कल्पं सम्प्रयोज्यैवाऽक्षिपद् वारि सुरोपरि ।
सर्वे सुरा द्रुतं मुक्ता अभवन् दिव्यविग्रहाः ॥८३॥ वैकुण्ठपार्षदाः सर्वे ततोऽक्षरस्य पार्षदाः ।
दिव्या भूत्वा हरिं नत्वा जयमुच्चार्य चाऽसकृत् ॥८४॥ आगतेन विमानेन ययुर्धामाऽक्षरं हरेः ।
पश्यतां लुनिकानद्यास्तटे वै लक्षदेहिनाम् ॥८५॥ ययुर्धामाऽक्षरं सर्वे पिशाचा मुक्ततान्विताः ।
अथाऽऽश्चर्यपरा लोकाः क्षणं स्तब्धा इवाऽभवन् ॥८६॥ ज्ञातवन्तः प्रतापं श्रीहरेर्मानवदेहिनः ।
कृत्वैवं मोक्षणं स्नात्वाऽवभृथान्ते नृपादयः ॥८७॥ साकं श्रीहरिणा नैजालयान् ययुर्मुदान्विताः ।
चक्रुस्ते वैष्णवाः सर्वे देवा देव्यश्च साधवः ॥८८॥ भोजनानि महीमानाः प्रजा आगन्तुका जनाः ।
प्राप्य प्रसादं कृतिनोऽभवन् पुण्यातिशालिनः ॥८९॥ रात्रौ विश्रान्तिमापुश्च राजा राज्ञी हरिं मुदा ।
सेषेवाते बालकृष्णं वल्लभाऽऽर्यं सुसत्पतिम् ॥4.80.९०॥ पादसंवाहनाद्यैश्चाथ प्रगे प्रतिपद्दिने ।
जजागर हरिः स्नातः कृतपूजन ईशिता ॥९१ ॥ व्यराजताऽऽसने दिव्ये सौवर्णे नृपदर्शिते ।
पूजां कर्तुं हरेस्तत्राऽऽययुर्युद्धपुराश्रिताः ॥९२॥ उपदाः श्रीहरेरग्रे न्यस्य चन्दनकुङ्कुमैः ।
अक्षतैः कुसुमैर्माल्यैहरिभूषाम्बरादिभिः ॥९३॥ अनाद्यैरार्चयन् कृष्णनारायणपतिं पतिम् ।
आशीर्वादान् जगृहुस्ते पूजका वैष्णवा जनाः ॥९४॥ राजा विदायं प्रददौ महीमानान् समन्ततः ।
आययुस्ते निजदेशान् वै कृतार्थना मुदान्विताः ॥९५॥ मध्वरं प्रशंसन्तो ययुरानन्दसम्भृताः ।
युद्धपुरप्रजाः कृष्णं सिषेविरे गृहे गृहे ॥९६॥ ओत्वा स्वस्वालयान्नार्यो नरा आनन्दमाप्नुवन् ।
मन्त्रं जगृहुर्बहवो भक्ताः कृष्णस्य वैष्णवाः ॥९७॥ अभवन् युद्धपुरीयप्रजाजना विशेषतः ।
रिर्दिनत्रयं तत्रोवास राज्ञ्याग्रहेण तु ॥९८॥ चतुर्थ्यां श्रीहरिर्गन्तुं सज्जोऽभवन्निजालयम् ।
तावत् युद्धपुरे बद्रि सैन्यं शत्रोरुपागतम् ॥९९॥ नामतो नन्दिभिल्लस्य यमुनातटभूपतेः ।
दूतं सा प्रैषयत्तूर्णं रणार्थं नन्दिभिल्लकः ॥4.80.१०० ॥ युद्धं देहि च वा राज्यं देहि वा करदो भव ।
इत्युवाच हि दूतोऽपि नत्वा तु नागविक्रमम् ॥१०१ ॥ दूतं सत्कृत्य राजाऽपि कृष्णं न्यवेदयत्तु तत् ।
कृष्णो ज्ञात्वा मदं नन्दिभिल्लस्याऽऽज्ञापयद् रणम् ॥१०२॥ बद्रिके युद्धनगरे युद्धवार्ता स्थले स्थले ।
प्रासरद् भयदा सर्वदेहिनां तिष्ठति प्रभौ ॥१०३ ॥ इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने युद्धपत्तनस्य नागविक्रमस्य नृपस्य सर्वमेधयज्ञं श्रीकृष्णनारायणः सम्पादयामासेत्यादिनिरूपण नामाऽशीतितमोऽध्यायः ॥८० ॥