०७६

श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि चमत्कारभरीं कथाम् ।
विद्याधराणां मोक्षस्य कारिणीं पारमेश्वरीम् ॥१॥ स्वर्णास्तरणनामा तु विद्याधरोऽभवत्तदा ।
ब्रह्मणो मानसः पुत्र हिमालयनिवासकृत् ॥२॥ स वै निजविमानेनाऽम्बरे विहर्तुकाम्यया ।
निर्ययौ सिन्धुमार्गेण पश्यन् देशान् वनाश्रितान् ॥३॥ मानसरोवरादग्रे त्रिवित्तान् वीक्ष्य वै ततः ।
काशमेहान् पञ्चनदान् वीक्ष्य सिन्धुतटाँस्ततः ॥४ ॥ विमानेनाऽऽययौ यत्र शर्करानगरं महत् ।
लक्ष्मीनारायणसंहिताकथायाश्च मण्डपः ॥५ ॥ विद्यते स्वर्गसदृशो दिवा स्वर्णप्रकाशनः ।
विशालो लक्षशो यत्र मानवाः सन्ति वेशिताः ॥६ ॥ प्रवर्तते कथा यत्र व्यासकण्ठनिनादनम् ।
मेघानुल्लङ्घ्य खे याति देवश्रवणगोचरम् ॥७ ॥ हवनस्य घृतादीनां धूमाः सुगन्धशालिनः ।
प्रवर्तन्ते वायुलोके यत्स्थानादतिपावनाः ॥८ ॥ शान्तिर्यद्भूतलादूर्ध्वमम्बरे च प्रवर्तते ।
सन्तप्तहृदयानां वै ब्रह्मशान्तिर्यतो मिलेत् ॥९ ॥ योगिनां सदृशान्येव मानसानि तदाऽम्बरे ।
प्रजायन्ते प्रजानां वै विमानानामपि क्षणम् ॥4.76.१० ॥ ध्वजाः पताकाः कलशाः सतां सङ्कीर्तनानि च ।
वैष्णवानां समुदायाः सङ्घाश्च दैवयोषिताम् ॥११ ॥ आगमा विगमा व्योम्नि वैष्णवानामनारतम् ।
देवानामवताराश्च वेदघोषा द्विजेरिताः ॥१ २॥ सर्वमेतत्तु वैकुण्ठभ्रान्तिं कारयति क्षितौ ।
एतादृशो महान् सत्रः कथारूपः प्रजायते ॥१ ३॥ वीक्ष्याऽऽलोच्य विविच्यापि निश्चित्य सुखमुत्सवम् ।
देवर्षिसिद्धसङ्घानां विमानावतरं तथा ॥१४॥ वीक्ष्य नैजं विमानं तु सिन्धुतीरेऽभ्यतारयत् ।
विद्याध्रीशतसंयुक्तो दासदासशतान्वितः ॥१५॥ पुत्रपुत्रीशतैर्युक्तो विमानाद् बहिराययौ ।
महोद्यानांऽगणे स्थाप्य विमानं मण्डपं ययौ ॥१ ६॥ वाच्यमानां कथां तत्र स्थित्वा निषद्य मण्डपे ।
श्रुत्वा चैकाग्रमनसा कथान्ते व्याससन्निधौ ॥१७॥ बहूपदाभिः सहितः कुटुम्बसहितस्तथा ।
आययौ व्यासपूजार्थं नत्वा सभां सतः सतीः ॥१८॥ स्वर्णास्तरणो मुकुटं चावतार्य तु मस्तकात् ।
नेमे व्यासं संहितां च हरिं नेमे पुनः पुनः ॥१९॥ चन्दनाऽक्षतपुष्पाद्यै रत्नहीरकभूषणैः ।
स्वर्णमणिमौक्तिकाद्यैः पूजनं स व्यधान्मुदा ॥4.76.२०॥ आरार्त्रिकं सहस्रैकवर्त्तिभिः प्रचकार सः ।
विद्याधर्यो ननृतुश्च गायन्त्यो गुणगौरवम् ॥२१ ॥ दासा दास्यो ननृतुश्च कथाश्रवणमोदिनः ।
लोमशः स्वागतं चक्रेऽपृच्छत् परिचयं ततः ॥२२॥ स आह लोमशस्याऽहं शिष्योऽस्मि हिमपर्वते ।
निवसामि कुटुम्बेन सहितो मानसारसे ॥२३॥ आगतोऽस्मि विहारार्थं दृष्ट्वोत्सवमवातरम् ।
कृतकृत्योऽस्मि सञ्जातः कथाश्रवणपूजनैः ॥२४॥ शान्तिर्मे हृदये जाताऽम्बरे एव शुभार्थिनी ।
ततश्चाऽवातरं चात्र वृत्तं श्रेयः परं मम ॥२५॥ विद्याधरोऽपि जिज्ञासां चक्रे व्यासं प्रवेदितुम् ।
तथा तं गुरुवर्यं च लोमशं ज्ञातुमित्यपि ॥२६॥ तदा लालायनः साधुर्विद्याध्रं प्राह सत्वरम् ।
अयं नारायणो व्यासः स्वतःप्रकाशकायनः ॥२७॥ अनादिश्रीकृष्णनारायणशिष्यशिरोमणिः ।
लक्ष्मीनारायणसंहितायाः कथेयमुत्तमा ॥२८॥ यस्य त्वं शिष्य एवास्ते स चायं लोमशो मुनिः ।
अहं लालायनश्चापि हिमाद्रौ च विहारवान् ॥२९॥ इत्युक्तः स तु विद्याध्रः स्नेहाश्रूणि समसृजत् ।
पतितः पादयोस्तूर्णं लोमशस्य गुरोस्तदा ॥4.76.३०॥ कुटुम्बं सर्वमेवापि पतितं पादयोर्मुनेः ।
लोमशः स्वागतं चक्रे पप्रच्छ कुशलं सुखम् ॥३ १॥ आवासं प्रददौ राज्योद्याने भोज्यं ततो ददौ ।
महीमानाऽतिथिसेवां चकार लोमशो गुरुः ॥३२॥ लोमशस्य वचनेन मासमुवास तत्र सः ।
शुश्राव च कथां नित्यं भवबन्धविमोचिनीम् ॥३३॥ कुटुम्बसहितो नित्यं प्रसादं बुभुजे हरेः ।
दासा दास्यो गुरोः सेवां सतां सेवां प्रचक्रिरे ॥३४॥ पुत्राः पुत्र्यश्च विद्याध्र्यः चक्रुः सेवां गुरोः सताम् ।
नित्यं चक्रुः कीर्तनानि नामधुन्यं प्रचक्रिरे ॥३५॥ ददौ श्रीलोमशस्तेभ्यो मन्त्रं मोक्षप्रदं ततः ।
‘ब्रह्माऽहं श्रीकृष्णनारायणदासी भवामि ओम् ॥३६॥ मन्त्रं लब्ध्वा तु विद्याध्राः सर्वे विगतकल्मषाः ।
अभवन् मुक्तरूपास्ते सर्वे क्षपितवासनाः ॥३७॥ मोक्षेत्रच्छवोऽभवँश्चापि ब्रह्मानन्दाऽतिलिप्सवः ।
प्रार्थनां चक्रिरे श्रीमद्गुरवे मोक्षलब्धये ॥३८॥ ओमित्याह गुरुस्तेभ्यः सस्मार परमेश्वरम् ।
लोमशस्मृतमात्रः श्रीकृष्णनारायणोऽभ्यगात् ॥३९॥ सर्वविमानसंस्थश्च राधालक्ष्मीप्रियायुतः ।
माधवीपार्षदमुक्तमुक्तानिकान्वितोऽभ्यगात् ॥4.76.४०॥ सूर्यप्रभविमानाच्छ्रीहरिः प्रसन्नमानसः ।
सर्वाभरणसंशोभाः प्रहसन् बहिराययौ ॥४१ ॥ लोमशाद्यैर्गुरुगणैः सद्भिः सतीभिरर्चितः ।
वैष्णवैर्वन्दितः कृष्णनारायणो जलामृतैः ॥४२॥ विद्याधरव्रजं सर्वं दिव्यतार्थं कृपावशः ।
अप्रोक्षयद् बिन्दुकणैः सर्वे दिव्यास्ततोऽभवन् ॥४३॥ परिवर्तनमाप्तास्ते विद्याध्रा मुक्तवर्ष्मसु ।
दिव्यदेहा व्यजायन्त कृष्णराधारमासमाः ॥४४॥ पञ्चशतानि सर्वे ते विमानवरमास्थिताः ।
कृष्णनारायणं प्राप्याऽभवन् मुक्ता हि शाश्वताः ॥४५॥ आशीर्वादैर्वर्धितास्ते महर्षिसाधुभूसुरैः ।
कीर्तयन्तः कृष्णनारायणेति तालवादनैः ॥४६॥ आकाशं गर्जयन्तश्च जयशब्दान् प्रचक्रिरे ।
हरिर्विमानं सहसा हिमालयेन वर्त्मना ॥४७॥ मानसरोवरं नीत्वा विद्याध्रनगरं शुभम् ।
स्वर्णास्तरणपौत्राय युने नाम्ना विशालिने ॥४८॥ दत्वोर्ध्वव्योममार्गेण ययौ ब्रह्माऽक्षरं निजम् ।
विशालास्तरणश्चापि भक्तिं चकार वै हरेः ॥४९॥ पुत्रपौत्रादिवंशाढ्यः सम्पन्नश्चाऽभवत्ततः ।
चिरेण सोऽपि कमलाकान्तभक्त्याऽक्षरं पदम् ॥4.76.५०॥ प्राप बद्रीप्रिये मोक्षं परमेशपदासनम् ।
ज्येष्ठशुक्लैकादश्यां ते विद्याध्रा ययुरक्षरम् ॥५१ ॥ अथाऽन्यं ते चमत्कारं वदामि शृणु बद्रिके ।
गन्धर्वा हिमवासा ये चित्रबर्हादयः शुभाः ॥५२॥ मानसरोवरे देशे विहर्तुं समुपाययुः ।
ते विमानं दृष्टवन्तः सहस्रशो हिमालये ॥५३॥ स्वर्णास्तरणं पप्रच्छुः पिता कुत्र गतस्तव ।
प्रत्याह स्वर्णास्तरणो मोक्षपदं ययौ पिता ॥५४॥ विमानेन सुदिव्येन श्रीकृष्णचालितेन वै ।
पञ्चशतानि विद्याध्रा ययुर्धामाऽक्षरं हरेः ॥५५॥ कथाश्रवणमात्रेण सर्वे मोक्षपदं ययुः ।
सा कथा शर्करापुर्यां सिन्धुदेशे प्रवर्तते ॥५६॥ लक्ष्मीनारायणसंहितायाः परममोक्षदा ।
यत्र देवोऽनादिकृष्णो वल्लभाऽऽर्यो विराजते ॥५७॥ संहितादेवतारूपः सर्वाविर्भावकारणम् ।
यत्र विद्याधरादीनां गुरुः श्रीलोमशो मुनिः ॥५८॥ स्वतःप्रकाशो भगवान् व्यासो यद्वाचकोऽस्ति च ।
देवदानवगन्धर्वाः पूता यच्छ्रवणात् खलु ॥५९॥ तां कथां प्रसमाकर्ण्य मत्पित्राद्या दिवं गताः ।
श्रुत्वैवं तु चमत्कारं बद्रिके हिमवासिनः ॥4.76.६०॥ चित्रबर्हादयश्चापि विमानेन कथास्थलीम् ।
आययुः स्त्रीपूरुषाश्च त्रिशतानि समुत्सुकाः ॥६१ ॥ अम्बरादवतेरुस्ते महोद्यानसमीपतः ।
कथामण्डपमागत्य ज्येष्ठे द्वादशिकादिने ॥६२॥ शुक्लपक्षे हि गन्धर्वा गान्धर्व्यश्च हरेः कथाम् ।
संहितां शुश्रुवुः सायं नीराजनोत्तरं ततः ॥६३॥ लोमशाज्जगृहुर्मन्त्रं नामधुन्यं च जगृहुः ।
प्रसादं जगृहुः कृष्णपादवारि पपुश्च ते ॥६४॥ चतुर्दशदिनान्येवं शुश्रुवुस्ते कथां शुभाम् ।
सतां सेवां प्रचक्रुश्च नृत्यं नित्यं व्यधुर्मुदा ॥६५॥ गायनं च व्यधुर्नित्यं समारञ्जनकारकम् ।
कृष्णाग्रे संहिताग्रे च सतामग्रे जगुर्मुदा ॥६६॥ भक्तियुक्ताश्चक्रुरेव नामसङ्कीर्तनं हरेः ।
तेन स्नेहेन विगतकत्मषा अभवन् द्रुतम् ॥६७॥ क्षीणक्लेशाः क्षीणसर्ववासनाः सिद्धयोगिनः ।
सञ्जातास्ते समस्ता वै मोक्षमन्त्रं च जगृहुः ॥६८॥ ‘ब्रह्माऽहं श्रीकृष्णनारायणदासो भवामि ओम्’ ।
सङ्गृह्य मन्त्रं जेपुस्ते नरानार्योऽतिभावतः ॥६९॥ तेषां प्रसन्नः श्रीकृष्णोऽषाढकृष्णे दले द्रुतम् ।
एकादश्यां विमानेनाऽऽययौ नेतुं निजाऽक्षरम् ॥4.76.७०॥ त्रिशतानां तु सर्वेषामुपर्येव जलाञ्जलिम् ।
प्रचिक्षेप हरिर्वारिकणैः स्पृष्टाश्च ते तदा ॥७१॥ दिव्यदेहाः समस्तास्ते गन्धर्वा मुक्तकोटिगाः ।
गन्धर्वा मुक्तगन्धर्वा अभवन् दिव्यविग्रहाः ॥७२॥ श्रीकृष्णेन समाहूता आरुरुहुर्विमानकम् ।
जयनादैर्गर्जयन्तो नत्वा कथास्थलं सभाम् ॥७३॥ गुरुं साधून् नमस्कृत्य दध्युः श्रीकृष्णमीश्वरम् ।
अनादिश्रीकृष्णनारायणो निन्ये क्षणात्ततः ॥७४॥ हिमाद्रिं च ततो निन्ये ब्रह्मधामाऽक्षरं निजम् ।
एवं श्रीबद्रिके याताः सर्वे ते शाश्वतं पदम् ॥७५॥ शृणु बद्रीप्रिये दिव्यचमत्कारं तथैव ह ।
किन्नराः किम्पुरुषा ये हिमाद्रौ सारसे स्थले ॥७६॥ शुश्रुवुश्च पुरा विद्याधराणां मोक्षणं ततः ।
विमानैराययुर्लक्ष्मीनारायणकथास्थलीम् ॥७७॥ सहस्रार्धं किन्नराश्च किम्पुरुषास्तदर्धकाः ।
चारणा द्वे शते सिद्धाः पञ्चाशत्ते समाययुः ॥७८॥ महोद्याने विमानानि चाऽवतेरुस्तदाऽम्बरात् ।
कथास्थानं ययुः सर्वेऽवतीर्य दर्शनाय ह ॥७९॥ सम्मानिता लोमशाद्यैः शुश्रवुस्ते कथां शुभाम् ।
प्रसादं जगृहुः पादामृतं पपुर्मुदान्विताः ॥4.76.८०॥ मोक्षमन्त्रं नामधुन्यं जगृहुर्लोमशान्मुनेः ।
व्यासपूजां कथापूजां सतां सेवां च नित्यदा ॥८ १ ॥ चक्रिरे भावयुक्तास्ते वैष्णवाः पावनाः पराः ।
आषाढकृष्णद्वादश्यां श्रीकृष्णः परमेश्वरः ॥८२॥ साक्षात्तेषां तु सर्वेषां निशायामभवद्धरिः ।
सर्वाभरणसंशोभो राधालक्ष्मीसमन्वितः ॥८३॥ विमानवरमारूढः प्रसन्नवदनः प्रभुः ।
उवाचाऽऽयान्तु मे धामाऽक्षरं परमपावनम् ॥८४॥ इत्युक्ता बद्रिके धन्यभाग्यानि त्वभिमत्य ते ।
सज्जा भूत्वा चारुरुहुर्विमानं कृष्णशोभितम् ॥८५॥ दिव्यदेहाः समस्तास्ते कृपया श्रीहरेः शुभाः ।
अभवन् मुत्तरूपा वै चक्रुर्धुन्यं विमानके ॥८६ ॥ अनादिश्रीकृष्णनारायणः श्रीबद्रिके प्रभुः ।
निनाय तां हिमशैलं ततो धामाऽक्षरं निजम् ॥८७॥ किन्नरान् किम्पूरुषाँश्च चारणान् सिद्धयोगिनः ।
दिव्यमुक्तान् विधायैव निनाय कृपया हरिः ॥८८॥ अहो श्रीबद्रिके भाग्यं हिमाचलनिवासिनाम् ।
नारायणविमानाप्तिर्नारायणाप्तिरित्यपि ॥८९॥ ब्रह्मलोकाप्तिरेवापि कथाश्रवणयोगतः ।
सतां सेवनतश्चापि प्रसादाशनतस्तथा ॥4.76.९०॥ अवतारिकृष्णनारायणप्राप्तिर्व्यवर्तत ।
इत्येवं बद्रिके नित्यं जीवानां मोक्षणं शुभम् ॥९१॥ कथाश्रवणतश्चापि दर्शनाद्वन्दनात् सताम् ।
भवत्येव हरेर्योगात् सर्वकारणकारणात् ॥९२॥ नागा दैत्या दानवाश्चोरगा यक्षाः सरीसृपाः ।
ये तत्र चाययुर्बद्रि योगामुपाययुश्च ये ॥९३॥ सर्वे ते क्षीणपापाश्च निर्गुणाः कृष्णयोगिनः ।
भूत्वा भूत्वा ययुर्धामाऽक्षरं श्रीपरमात्मनः ॥९४॥ कीटाः शाखामृगा वन्याः पक्षिणः पशवोऽपि च ।
जन्तवो वल्लिका वृक्षा यादांसि स्वेदजा अपि ॥९५॥ ये ये तत्र मृताः सत्रे कार्ष्णयोगेन योजिताः ।
सर्वे प्रापुः परं धामाऽक्षरं ते कृपया हरेः ॥९६॥ यानि सस्यानि धान्यानि स्तम्बाश्च स्तबका अपि ।
फलपुष्पदलवृक्षाः कथायोगमुपाययुः ॥९७॥ परम्परया साक्षाद्वा स्वाङ्गैः फलादिभिश्च वै ।
ते सर्वे परमं मोक्षं प्राप्ताः कार्ष्णप्रसङ्गतः ॥९८॥ सर्वं वै सुलभं लोके सत्सङ्गो दुर्लभः सदा ।
सत्सङ्गः कृपया प्राप्यो येन मोक्षः करे स्थितः ॥९९॥ बद्रिके पठनादस्य श्रवणान्मननादपि ।
भुक्तिर्मुक्तिर्भवेदत्र शाश्वती परमा गतिः ॥4.76.१०० ॥ इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने कथाश्रवणादिभिः स्वर्णास्तरणप्रभृतिविद्याधराणां, चित्रबर्हादिगन्धर्वाणां, किन्नरकिम्पुरुषचारणसिद्धानां च, मोक्षणमित्यादिनिरूपणनामा षट्सप्ततितमोऽध्यायः ॥७६ ॥