०७५

श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये लक्ष्मि मागधस्य कथां शुभाम् ।
अमृताख्यनगरे वै तदाऽऽसीन्मागधो जनः ॥१ ॥ नाम्ना तु हर्षनयनो वंशोपवंशबोधवान् ।
वंशोपवंशपूर्वेषां चरित्राख्यानकारकः ॥२ ॥ राज्ञां पञ्चनदीयानां सिन्धुजानां विशेषतः ।
स शुश्राव जनेभ्यो वै चमत्कारं कथोद्भवम् ॥३ ॥ राज्ञां प्रजानां बह्वीनां मोक्षणं पापनाशनम् ।
ततो विचार्य सहसा कथाऽऽकर्णनहेतवे ॥४ ॥ आययौ शर्करापुर्यां कथामण्डपमागतः ।
नेमे सर्वान् संहितां च व्यासं श्रीलोमशं हरिम् ॥५ ॥ साधुजनान् सतीः साध्वीर्वैष्णवान् नृपतींस्तथा ।
श्रोतॄन् राज्ञीजनाँश्चापि नेमे शुश्राव सत्कथाम् ॥६ ॥ कथान्ते स तु वंशान् वै नारायणसमुद्भवान् ।
जगाद भक्तियुक्तश्च रञ्जयामास मानवान् ॥७ ॥ ‘अनादिश्रीकृष्णनारायणः श्रीपरमेश्वरः ।
एको दिव्येश्वरकोट्यवतारकोटिकारणम् ॥८ ॥ अक्षरे परमे धाम्नि राजते पुरुषोत्तमः ।
तद्वंशे प्रथमं कृष्णो व्यासुदेवो व्यजायत ॥९ ॥ ततो नारायणो जातो महाविष्णुस्ततः परम् ।
ततो विराड् विराजाच्च ब्रह्मविष्णुमहेश्वराः ॥4.75.१ ०॥ ब्रह्मतः सनकाद्याश्च ऋषयो मानवादयः ।
कुङ्कुमवापिकाक्षेत्रे त्वश्वपट्टसरोवरे ॥१ १॥ अनादिश्रीकृष्णनारायणः श्रीभगवान् प्रभुः ।
कम्भराश्रीमहालक्ष्मीसुतो गोपालनन्दनः ॥१ २॥ लक्ष्मीराधारमाकृष्णाप्रज्ञापद्मावतीपतिः ।
माणिकीसुखदालक्ष्मीललिताकमलापतिः ॥१ ३॥ व्रह्मप्रियापतिर्मुक्तपतिर्मुक्तानिकापतिः ।
हरिप्रियापतिः सर्वपतिर्ब्रह्मपतिः प्रभुः ॥१४॥ वर्तते विप्ररूपोऽद्य सर्वगोत्राऽग्रशाश्वतः ।
गीयतेऽत्र हरिर्लक्ष्मीनारायणकथादिभिः ॥१५॥ जयत्वत्र महाराजराजाधिराजपुङ्गवः ।
विधाता श्रेयसां कर्ता मोक्षस्य दुःखनाशनः ॥१६॥ शरणागतरक्षाकृत् जयत्वानन्दशेवधिः ।
परब्रह्म हरिकृष्णो नित्यं विजयतेतमाम् ॥१७॥ साधवो विजयन्ते च वैष्णवा विजयन्त्यति ।
एवं श्रीबद्रिके हर्षनयनः श्रीपतिं हरिम् ॥१८॥ अभिष्टूय सभायां स दण्डवत् प्रचकार ह ।
तुलसीदलपुष्पाणि फलानि शर्करास्तथा ॥१९॥ पूगीफलं च मुद्रां च कानकीं चाम्बरं शुभम् ।
व्यासाय च तथा संहितायै न्यधात् प्रपूज्य च ॥4.75.२०॥ नमश्चक्रे प्रसादं च जगृहे चरणामृतम् ।
मन्त्रं च नामधुन्यं च जगृहे व्यासदेवतः ॥२१ ॥ जजाप मन्त्रं नित्यं स चक्रे धुन्यप्रकीर्तनम् ।
शुश्राव च कथां नित्यमेकतानोऽभवत् सदा ॥२२॥ पावनः पूर्णभाग्यश्च समजायत मागधः ।
ज्येष्ठकृष्णैकादश्यां तु सायं भक्त्या वशीकृतः ॥२३॥ अनादिश्रीकृष्णनारायणो विमानमास्थितः ।
आययौ तं समानेतुं दिव्यः श्रीसेवितो हरिः ॥२४॥ मागधं हर्षनयनं सङ्कृत्वा दिव्यविग्रहम् ।
अवस्थाप्य विमाने तं निन्ये धामाऽक्षरं निजम् ॥२५॥ शृणु बद्रीप्रिये देवि कथां चान्यां प्रपावनीम् ।
दासस्तत्राऽभवद् वृद्धः संहितामण्डपस्थले ॥२६॥ रात्रौ रक्षाकरो नित्यं जागर्ति यश्च रक्षति ।
नित्यं स भजते कृष्णं कथां शृणोति भावतः ॥२७॥ प्रदक्षिणं निशान्ते च करोति संहितासनम् ।
पत्रं पुष्पं फलं नित्यमर्पयत्यपि भावतः ॥२८॥ करोति कीर्तनं नित्यं भुङ्क्ते प्रसादमुत्तमम् ।
पिबत्यपः प्रसादोत्थाः सतां प्रसादमश्नुते ॥२९॥ सेवां व्यासस्य देहादिसंवाहनं करोत्यपि ।
मार्जनं सदसश्चापि वस्त्रक्षालनमित्यपि ॥4.75.३०॥ वैष्णवेभ्य इष्टवस्तुप्रदानं प्रकरोत्यपि ।
एवंविधस्य भक्तस्य योगिदासाभिधस्य तु ॥३ १॥ प्रसन्नः श्रीहरिर्जातो बद्रिके चाययौ हरिः ।
दिव्यं हंसं समारुह्य सर्वाभरणभूषितः ॥३२॥ उवाच योगिदासं त्वं सज्जो भव विमुक्तये ।
नेतुं समागतोऽस्म्यत्र हंसेन मोक्षणं प्रति ॥३३॥ योगिदासोऽतिमुमुदे श्रुत्वा वाक्यं परात्मनः ।
चचाल श्रीहरिं हंसं प्रति यावद् विमुक्तये ॥३४॥ तावन्मूर्छामवापाऽसौ देहः पपात भूतले ।
दिव्यरूपो योगिदासोऽभवन्मुक्तस्वरूपवान् ॥३५॥ हंसे निषाद्य भक्तं तं ययौ कृष्णनरायणः ।
शाश्वतं परमं धाम पश्यतां सर्वदेहिनाम् ॥३६॥ इत्येवं बद्रिके मुक्तोऽभवत् कथादिसेवया ।
योगिदासो ज्येष्ठकृष्णैकादश्यां कृष्णमानसः ॥३७॥ अथाऽन्यां ते कथां बद्रि वदामि भक्तमोक्षदाम् ।
नाम्ना सौरभसावित्रोऽभवत्ताम्बूलकारकः ॥३८॥ शर्करानगरे बद्रि सतां हरेश्च सेवकः ।
प्रत्यहं सोऽपि सेवायां वैष्णवानां स्थिरोऽभवत् ॥३९॥ ददाति ताम्बूलकानि नित्यं सहस्रशो मुदा ।
सुगन्धिरसचूर्णादिमिश्रितानि शुभानि च । 4.75.४०॥ नित्यं प्रातः समुत्थाय स्नात्वा चायाति मण्डपम् ।
यथास्थानं समागत्य पत्रपुष्पाक्षतादिभिः ॥४१॥ करोति पूजनं कथासंहितायास्तथा सताम् ।
व्यासदेवस्याऽर्हणां च लोमशस्याऽर्हणां तथा ॥४२॥ लालासनस्यापि पूजां पूजां वृकायनस्य च ।
नीलकर्णस्य पूजां च यवक्रीतादिपूजनम् ॥४३॥ तुषितानां हारितानां दिविमानायनस्य च ।
देवायतनमेषायतमङ्कणादियोगिनाम् ॥४४॥ हेमशालायनादीनां साधूनां पूजनं प्रगे ।
करोति नित्यमेवाऽयं देवानां पूजनं तथा ॥४५॥ व्यासाय संहितायैचार्पयत्येव फलान्यपि ।
ताम्चूलकानि तुलसीपत्रहाराँश्च कौसुमान् ॥४६॥ मुद्राश्चाऽक्षतगोधूमान् वस्त्रकम्बलकाँस्तथा ।
यथाशक्ति ददात्येव पूजायां सौरभान् रसान् ॥४७॥ एवं सौरभसावित्रो भक्त्या निष्कल्मषोऽभवत् ।
सतां देहादिसंवाहपादसम्मर्दनादिकम् ॥४८॥ कृत्वा भुक्त्वा प्रसादं च पीत्वा तच्चरणामृतम् ।
श्रुत्वा कथाः संहितायाः सन्दग्धवासनोऽभवत् ॥४९॥ तं नेतुं चाक्षरे स्थाने कृष्णनारायणः प्रभुः ।
आययौ श्वेतगरुडे स्थित्वा कथास्थलं हरिः ॥4.75.५०॥ अवाततार सहसा प्रसन्नाननपङ्कजः ।
प्राह सौरभसावित्रं प्रसन्नस्तव सेवया ॥५१॥ आयाहि परमं स्थानं दिव्यं व्योम ममाऽक्षरम् ।
श्रुत्वा सौरभसावित्रः कूर्दयित्वा ननर्त ह ॥५२॥ धन्यं मोक्षपदं मत्वाऽऽगतं कृष्णनरायणम् ।
नत्वा त्यक्त्वा निजं देहं मनुं जपं पुराऽर्जितम् ॥५३॥ नामधुन्यं श्रावयँश्चाऽऽरुरोह गरुडोपरि ।
दिव्यमुक्तशरीरोऽसौ ययावम्बरवर्त्मना ॥५४॥ ज्येष्ठकृष्णस्य द्वादश्यां कथोत्तरं ययौ परम् ।
आश्चर्यं परमं दृष्ट्वा मुमुदिरेऽतिमानवाः ॥५५॥ शृणु बद्रीप्रिये देवि भक्तगाथां तथाऽपराम् ।
रङ्गकारकथां तत्रभूतां परमपावनीम् ॥५६॥ रङ्गकारोऽभवन्नाम्ना रङ्गिलो रङ्गकृत् सदा ।
रङ्गकलासु सर्वासु कुशलश्चित्रकोटिषु ॥५७॥ शर्करानगरे नित्यं रङ्गकार्यप्रजीवनः ।
देवसेवापरश्चापि साधुभक्तोऽभवत् सदा ॥५८॥ बद्रिके स कथाया वै मण्डपं समरङ्गयत् ।
देवचित्राणि सर्वाणि भक्तचित्राणि सर्वशः ॥५९॥ भित्तीनां रङ्गकार्याणि पटरङ्गान् सुशोभनान् ।
अकरोत् सेवया भक्त्या सतां प्रसन्नताप्तये ॥4.75.६०॥ हरेः प्रसन्नतायै च रङ्गसेवां तथाऽकरोत् ।
अभजत्परमात्मानं मन्त्रं जजाप नित्यशः ॥६१॥ नामसङ्कीर्तनधुन्यादीन्याचरत् कृतादरः ।
वैष्णवानां सेवनं च कथायाः श्रवणं व्यधात् ॥६२॥ प्रसादभक्षणं पादामृतवारिप्रपानकम् ।
पादधूलिवहनं च शरीरे भावतोऽकरोत् ॥६३॥ एवं क्षपितपापः स सम्प्रक्षालितवासनः ।
इयेष श्रीहरेर्धाम गन्तुं शाश्वतमक्षरम् ॥६४॥ बद्रिके व्यापकः कृष्णोऽन्तर्यामी श्रीनरायणः ।
श्वेताऽश्वाऽऽरूढ ईशेशेशेश्वरः समुपाययौ ॥६५॥ उवाच रङ्गिल एहि मम धामाऽक्षरं परम् ।
रङ्गिलः सहसा देहं त्यक्त्वा भौतिकमुत्सुकः ॥६६॥ दिव्यदेहोऽभवत् कृष्णदृष्ट्याऽश्वमारुरोह च ।
सर्वेषां पश्यतां नारायणो निन्ये तमक्षरम् ॥६७॥ रङ्गिलं रङ्गकर्तारं यान्तं वीक्ष्य सभाजनाः ।
जयवादान् प्रचक्रुश्च नेमुस्तां दिशमच्युतम् ॥६८॥ ज्येष्ठकृष्णत्रयोदश्यां रङ्गिलो ह्यक्षरं ययौ ।
बद्रिके च ततश्चान्यां कथां भक्तस्य संशृणु ॥६९॥ वाद्यकारोऽभवत्तत्र शर्करानगरे शुभः ।
डमरूकाभिधः सोऽपि भक्तो वाद्यादिनिर्मितिम् ॥4.75.७०॥ कृत्वा वृत्तिं निर्वहति सतां सेवां करोति च ।
कथायां वाद्यदानानि कृतवान् भावतः स वै ॥७१ ॥ कांस्यान् शङ्खान् पटहाँश्च भेरीदिण्डिमगोमुखान् ।
मृदङ्गान् पणवाँश्चापि मुरजाऽम्बरकाँस्तथा ॥७२॥ मर्दलान् वेणुवीणाश्च दर्दुरान् कच्छपान् ददौ ।
तलघातानानकाँश्च दुन्दुभीन् तालकान् ददौ ॥७३॥ तेन पुण्येन भगवान् प्रसन्नोऽस्याऽभवत्तदा ।
सोऽपि वाद्यकलाविज्ञो वाद्यवादनमाचरत् ॥७४॥ तेन सन्तः प्रसन्नाश्च बद्रिके तस्य चाभवन् ।
सेवां चक्रे सतां नित्यं कथां शुश्राव नित्यदा ॥७५॥ प्रसादं जगृहे नित्यं पादामृतं पपौ सदा ।
मन्त्रं जजाप सततं नामसङ्कीर्तनं व्यधात् ॥७६॥ एवं वैष्णवसेवायां श्रीकृष्णसेवने रतः ।
डमरूकोऽभवत् सर्वनष्टपापः सुपावनः ॥७७॥ अनादिश्रीकृष्णनारायणश्रीकान्तवल्लभः ।
आययौ त्वक्षरं धाम नेतुं तं डमरूकणम् ॥७८॥ सोऽपि मोक्षक्षणं ज्ञात्वा चागतं हरिना हरिम् ।
नेमे दध्यौ हृदये च नत्वा सभाजनान् मुहुः ॥७९॥ भौतिकं वर्ष्म सन्त्यक्त्वा दिव्यदेहमवाप्य च ।
कृष्णनारायणाऽऽहूतो गजं समारुरोह सः ॥4.75.८०॥ ययौ धामाऽक्षरं श्रीमन्नारायणस्य शाश्वतम् ।
कृपया श्रीहरेर्बद्रि ययावपुनरागमम् ॥८ १ ॥ ज्येष्ठकृष्णचतुर्दश्यां ययौ डमरूकोऽक्षरम् ।
शृणु बद्रीप्रिये देवि तथा कथां सुपावनीम् ॥८२॥ भावसारोऽभवत्तत्र वस्त्रव्यापारकारकः ।
शर्करानगरे नाम्ना चिह्नरायेति विश्रुतः ॥८३ ॥ चिह्नरायो ददौ वस्त्रसहस्रं मण्डपार्थकम् ।
भक्त्या कथास्थलार्थं स वैष्णवो धनवान् सुखी ॥८४॥ ऊर्णिकाप्रस्तरणानि वितानान्युत्तमानि च ।
आसनानि सुरम्याणि ददौ कथोत्सवे यतः ॥८५॥ साधून् स सेवयामास शुश्राव चाऽऽच्युतीं कथाम् ।
मन्त्रं जग्राह धुन्यं च कीर्तनं व्यासदेवतः ॥८६॥ सिषेवे नित्यमेवाऽपि वस्त्रनाणकदाणकैः ।
तत्सेवया प्रसन्नोऽभूच्छ्रीहरिः पुरुषोत्तमः ॥८७॥ प्रसादेन पवित्राय चिह्नरायाय दर्शनम् ।
प्रत्यक्षं प्रददौ कृष्णो वल्लभार्यः श्रियः पतिः ॥८८॥ उवाच तं प्रसन्नोऽस्मि धाम चायाहि मेऽक्षरम् ।
एतद्विमानवर्येण नयामि परमं पदम् ॥८९॥ ज्येष्ठाऽमायां तु मध्याह्ने कृष्णं दृष्ट्वा समागतम् ।
सज्जोऽभवत् प्रगन्तुं वै तत्याज भौतिकीं तनुम् ॥4.75.९०॥ दिव्यदेहोऽभवत्तूर्णं विमानमारुरोह च ।
नामसङ्कीर्तनं कुर्वन् कृष्णनारायणेति सः ॥९१॥ सार्धं श्रीहरिणा तूर्णं विमानेनाऽऽक्षरं ययौ ।
जयनादास्तदा तत्र भक्तानामभवन् मुहुः ॥९२॥ बद्रिके च तदा तत्र सायङ्काले कथोत्तरम् ।
आश्चर्यं परमं जातं शृणु तद्ग्रामयाजिनः ॥९३॥ ग्रामयाजी विप्रदेवोऽभवन्नाम्ना रमेश्वरः ।
नित्यं कथां शृणोत्येव व्यासाऽर्हणां करोति च ॥९४॥ भजते श्रीहरिं नित्यं मन्त्रं जपति नित्यशः ।
नामधुन्यं कीर्तनं च करोति सततं मुदा ॥९५॥ प्रसादं श्रीहरेर्नित्यं गृह्णाति च पदामृतम् ।
एवं पावनहृदयो विप्रो व्यवर्तताऽन्वहम् ॥९६॥ वैष्णवः परमो नित्यं सेवते साधुपुङ्गवान् ।
निश्चयं सोऽकरोद् गन्तुं धामाऽक्षरं परं हरेः ॥९७॥ बद्रिकेऽनशनं चक्रे निर्जलं मोक्षलब्धये ।
दिनत्रये हरिस्तस्य मोक्षार्थं समुपाययौ ॥९८॥ अमायां तु निशारम्भे विमानेन समाययौ ।
आह तं भक्त चायाहि विमानं त्वत्कृते त्विदम् ॥९९॥ सोऽपि तूर्णं दिव्यदेवो भूत्वा समारुरोह तत् ।
ययौ कृष्णेन सहितो धामाऽक्षरं परं पदम् ॥4.75.१ ००॥ बद्रिके ते चमत्काराः प्रासरन् भुवि सर्वतः ।
असङ्ख्या मानवा यान्ति कथाश्रवणहेतवे ॥१० १॥ तीव्रवेगास्तूर्णशुद्धाः प्रयान्ति तूर्णमक्षरम् ।
मध्यवेगाः शनैर्यान्ति मन्दाश्चिरेण यान्ति च ॥१ ०२॥ अस्नेहास्तु न वै यान्ति स्नेहस्तत्र हि कारणम् ।
प्रसन्नता कृपा सेवा श्रद्धा च दिव्यभावना ॥१ ०३॥ वासनाविलयश्चापि जिगमिषाऽतिवेगिनी ।
वैराग्यं शरणं भक्तिः कारणानि तु मोक्षणे ॥१ ०४॥ येषां तीव्रास्ते तु शीघ्रं प्रयान्ति परमं पदम् ।
पठनाच्छ्रवणादस्य भुक्तिर्मुक्तिर्भवेदिह ॥१ ०५॥ इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने कथाश्रवणसेवादानादिना प्रसन्नः श्रीहरिः, हर्षनयनाख्यं मागधं, योगिदासाख्यं दासं, सौरभसावित्राख्यं ताम्बूलकारं, रङ्गिलाख्यं रङ्गकारं, डमरूकाख्यं वाद्यकारं, चिह्नरायाख्यं भावसारं, रमेश्वरं ग्रामयाजिनं च, मोक्षपदं नीतवानित्यादिनिरूपणनामा पञ्चसप्ततितमोऽध्यायः ॥७५ ॥