०६७

श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि कथां सर्वाघहारिणीम् ।
तटाधिष्ठानके ग्रामे गोवारो नामतोऽभवत् ॥१ ॥ गवां पालः कुटुम्बाढ्यश्चारयत्येव गाः सदा ।
गवां पञ्चशतं सीम्नि क्षेत्रेषु पीडकेषु च ॥२ ॥ सस्यभूमिषु घासाढ्यक्षितावुच्छ्रायकेषु च ।
नीत्वा नित्यं चारयति गोव्यापारश्च जीवति ॥३ ॥ दुग्धदध्याज्यविक्रेता गोवारः स प्रजीवति ।
करोति चापरं कार्यं ग्रामीणगोप्रचारणम् ॥४ ॥ ग्रामीणानां गवां चापि चारणं स्वीयधेनुभिः ।
साकं सीमसु सर्वत्र वृत्तिकां लभते तथा ॥५ ॥ एवं निर्वाहमाप्नोति किन्तु लोभाभिकर्षितः ।
अन्यासां तु गवां दुग्धं दोहयित्वा च विक्रयम् ॥६ ॥ क्वचित् क्वचित् करोत्येव दुग्धचौर्यं तथाविधम् ।
चतुःशतानि गावस्तु ग्रामीणानां भवन्ति ताः ॥७ ॥ निजा गावः शतं चेति दुग्धदास्तु तदर्धिकाः ।
ग्रामीणानां गवां नित्यं पञ्चानां दुग्धमेव सः ॥८ ॥ चोरयत्येव मध्याह्नोत्तरं सीम्न्येव प्रत्यहम् ।
नित्यमेवं रसचौर्यं करोति गोसतीष्वपि ॥९ ॥ दोग्ध्रीषु च स्वकीयासु तृष्णातन्तुर्हि दुर्जरः ।
रसस्तैन्यजपापेन कालान्तरे मृतो वने ॥4.67.१ ०॥ जलान्नरहितः सोऽयं वने मार्जारतां गतः ।
शर्करानगराभ्याशे मार्जारो भ्रमति प्रगे ॥१ १॥ यद्वा रात्रौ भोजनार्थं समन्वेषणतत्परः ।
समायाति महोद्यानं गन्धेन कर्षितस्ततः ॥१ २॥ आययौ भोजनोच्छिष्टोत्करपुञ्जसमीपगः ।
तत्र कृष्णप्रसादान्नभोजिनां साधुयोगिनाम् ॥१ ३॥ उच्छिष्टं प्राप्तवान् वन्यबिडालको मुदं गतः ।
भक्षयामास तृप्तश्च ययौ रात्रौ वनान्तरम् ॥१४॥ एवं करोति नित्यं स मिष्टगरिष्टभोजनम् ।
तेनाऽलसः स सञ्जातो मासान्ते पुष्टदेहवान् ॥१५॥ उत्करस्यैव पार्श्वस्थतृणपुञ्जे दिवानिशम् ।
वासं स रोचयामास निर्भीकः स्तबकेष्वपि ॥१६॥ स्तम्बेषु च क्वचिदस्ति स्वपिति भक्षणोत्तरम् ।
क्वचिद् दिवा समायाति बहिः श्वादिविवर्जिते ॥१७॥ चैत्रशुक्लत्रयोदश्यां भोक्तुमुत्करके स तु ।
मध्याह्नोत्तरवेलायामागतो भयवर्जितः ॥१८॥ उच्छिष्टं भुक्तवाँस्तत्र मूर्छां जगाम वै ततः ।
व्यसुर्जातः क्षणात् तस्माद् दिव्यः पुमान् व्यजायत ॥१९॥ सुरवद् दिव्यदेहश्च सर्वाङ्गशोभनः शुभः ।
उच्छिष्टमार्जका दृष्ट्वा महाश्चर्यमिदं ततः ॥4.67.२०॥ पप्रच्छुस्तं देवजनं कस्त्वं मार्जारतां गतः ।
कथं देवत्वमापन्नो नमस्तुभ्यं वदात्र नः ॥२१ ॥ स चाहोच्छिष्टहाराँस्तु तटाधिष्ठानके पुरे ।
गोवारनामकश्चाऽहं गवां चारोऽभवं पुरा ॥२२॥ ग्रामीणानां धेनवश्च दोग्ध्रयः सुचारिता मया ।
किन्तु तासां सुदुग्धानि सीम्नि प्रलोभिना मया ॥२३॥ चोरितानि दोहितानि विक्रीतानि च चौर्यतः ।
आजीवनं कृतं चौर्यं तेन पापेन वै मृतः ॥२४॥ याम्यपुरे दुःखमयीर्यातनाः समलोक्य च ।
भुक्त्वा दुःखान्यसङ्ख्यानि ततो मार्जारतां गतः ॥२५॥ जलान्नशून्यदेशे वै क्षुधातृषातिपीडितः ।
श्वपदानां भौतियुक्तो भ्रमामि रक्षयँस्तु माम् ॥२६॥ मार्गयामि भक्ष्यमेव जलं चापि मिलेद् यदि ।
अटन् वनानि चागच्छं वने सिन्धुतटेऽधुना ॥२७॥ जलयुक्ते प्रदेशेऽहं निवासं समरोचयम् ।
रात्रौ रात्रौ विचरामि भक्ष्यलाभाय खेटकान् ॥२८॥ महोद्यानाभिभूमौ चागच्छं दैवानुयोजितः ।
उत्करं दृष्टवान् रात्रावुच्छिष्टबहुलं तदा ॥२९॥ अभक्षयं यथेष्टं च तृप्तिं शान्तिमवाप च ।
नित्यमेवं भक्ष्यमत्र प्राप्तं मया दिवानिशम् ॥4.67.३०॥ पुष्टिं प्राप्तोऽत्र देहस्य महालस्यं गतोऽपि च ।
अलसः सन्निवासं चारोचयं तृणपुञ्जके ॥३ १॥ नातिदूरे स्तबकेषु स्तम्बेष्वपि भ्रमाम्यहम् ।
भुक्त्वा चात्र प्रयाम्येवं मासोऽत्र मे व्यवर्तत ॥३२॥ उच्छिष्टं भुक्तवान्नित्यं कृष्णप्रसादभोजिनाम् ।
साधूनां वैष्णवानां च तेनाऽघानि गतानि मे ॥३३॥ नष्टपापो भवाम्यद्य प्रसादोच्छिष्टभोजनः ।
पुण्यवान् भाग्यवानस्मि जातश्चाद्य भुवस्तले ॥३४॥ कथास्थलीस्थसाधूनां प्रसादं प्राप्तवानहम् ।
देवभावं चाधिगतस्त्यक्त्वा बिडालविग्रहम् ॥३५॥ प्रयामि व्योमचारोऽहं स्वर्गं महेन्द्रपालितम् ।
तत्र शतयुगं स्थित्वा यास्यामि बदरीवनम् ॥३६॥ श्वेतद्वीपं ततश्चापि वैकुण्ठं च ततः परम् ।
ततोऽऽक्षरपदं दिव्यं प्रयास्यामि च संशयः ॥३७॥ अनादिश्रीकृष्णनारायणस्य परमात्मनः ।
साधूनां सुप्रसादस्योच्छिष्टभोगफलं त्विदम् ॥३८॥ जातं मे सर्वथा लोका यास्यामि स्वर्गमुत्तमम् ।
स्वस्ति वोऽस्तु नमो वोऽस्त्वित्युक्त्वा दिवं ययौ द्रुतम् ॥३९॥ उच्छिष्टमार्जकाः सर्वे महाश्चर्यं प्रपेदिरे ।
अहो प्रसादमाहात्म्यं पशूनां देवताकरम् ॥4.67.४०॥ विदित्वा ते कथायां वै कथान्ते चाहुरुत्सुकाः ।
सर्वे ज्ञात्वा मेनिरे तां कृपां कृष्णस्य सर्वथा ॥४१ ॥ शृणु बद्रीप्रिये देवि ठठ्ठोलस्य कथां तथा ।
वस्त्रचौरोऽभवद्धूर्तः ठट्ठोलाख्यो वणिग्जनः ॥४२॥ हनूदराख्यनगरे वस्त्रव्यापारवान् सदा ।
वस्त्रापणाद् वस्त्रजातीन्यभिक्रीणाति नित्यदा ॥४३॥ विक्रीणाति च तान्येव व्यापारं प्रकरोति च ।
क्वचित् क्वचिद् वस्त्रचौर्यं करोति परवस्त्रतः ॥४४॥ क्रये चौर्यं विक्रयेऽपि परकोशेभ्य इत्यपि ।
ग्रन्थिचौर्यं करोत्येव यथा जानाति नेतरः ॥४५॥ वस्त्रचौर्योत्थपापेन दारिद्र्यं समजायत ।
अन्नवस्त्रादिहीनः स व्यजायत शनैः शनैः ॥४६॥ कुटुम्बपोषणाऽशक्तो विचित्तः सोऽभवँस्ततः ।
उन्मत्तः स गृहं त्यक्त्वाऽभ्रमद् ग्रामान्तरेऽपि च ॥४७॥ प्रारब्धवशतापन्नो ज्वराविष्टोभवत्तः ।
मृतो निर्जनदेशेऽसौ देहं काका अभक्षयन् ॥४८॥ वस्त्रचौर्यस्य पापेन याम्यपुरं गतोऽभवत् ।
तत्र भुक्त्वा नरकान् स वने जम्बुकतां गतः ॥४९॥ क्षुधाव्याप्तो वस्त्रहीनः शीतोष्णपीडितः शठः ।
धूर्तस्वभावयुक्तः स जम्बुकः शर्करापुरम् ॥4.67.५०॥ अदूरवनतस्तत्र कथाऽभ्याशमुपाययौ ।
रात्रौ भोजनलब्धीच्छाप्रेरितः पर्यटन् स्वयम् ॥५१॥ उत्करं खाद्यसम्पन्नमुच्छिष्टसञ्चयान्वितम् ।
प्राप चखाद तत्रान्नं प्रसादोच्छिष्टमुज्झितम् ॥५२॥ सतां प्रसादोच्छिष्टं च बुभुजे तृप्तिपूर्वकम् ।
एवं नित्यं भुक्तवान् स बद्रिके चोत्करोज्झितम् ॥५३॥ तेन पापानि नष्टानि पशुजन्मार्थकान्यपि ।
पूर्वजानि समस्तानि नूत्नजन्मानि यान्यपि ॥५४॥ सर्वपापानि नष्टानि वासनाश्च क्षयं गताः ।
शुद्धो जातः शृगालो यत् प्रसादो भेषजं सताम् ॥५५॥ जन्मरोगहरः सर्ववासनाक्षयकृत्तथा ।
हरेः सतां च साध्वीनां प्रसादो भेषजं महत् ॥५६॥ संसाररोगमग्नानां प्रसादो रोगनाशकः ।
ब्रह्मस्वास्थ्यप्रदश्चापि स्वर्गसौख्यप्रदस्तथा ॥५७॥ पशूनां पक्षिणां चापि कीटानां क्षुद्रदेहिनाम् ।
शाखिनां तृणजातीनामपि पापविनाशकः ॥५८॥ स्वर्गदः पुण्यदो मोक्षप्रदश्चापि प्रसादकः ।
दिव्यदृष्टिप्रदो दिव्यगतिप्रदः प्रसादकः ॥५९॥ प्रसादान्नं प्रसादापो भुक्तं पीताः प्रमोक्षदाः ।
पितरो मानवा देवाः पिबन्ति भुञ्जते ततः ॥4.67.६०॥ हरेः प्रसादं मुक्त्यर्थं सतां प्रसादमित्यपि ।
एवं भुक्त्वा नित्यमेव जम्बुकः शुद्धतां गतः ॥६१॥ बद्रिके चैत्रपूर्णायां मध्यन्दिनोत्तरं स तु ।
भक्षयामास चोच्छिष्टं मूर्छामवाप तत्क्षणम् ॥६२॥ तावज्जम्बुकदेहात्तु पुरुषो देवरूपवान् ।
सुदिव्यः प्राविरभवत् सर्वतेजोऽभिभासुरः ॥६३॥ कर्मचारैस्तथाऽन्यैः संवीक्षितः स तदाम्बरे ।
पृष्टः कस्त्वं कथं देवो जम्बुकाद्वै व्यजायथाः ॥६४॥ स प्राहाऽहं वणिग्जातिर्हनूदरपुरालयः ।
पुराऽऽसं ठट्ठोलकाख्यो वस्त्रव्यापारवान् सदा ॥६५॥ विश्वस्तानां चापणेभ्यो वस्त्रचौर्यपरोऽभवम् ।
वस्त्रकोशेभ्य एवाऽपि ग्रन्थिकाचौर्यतत्परः ॥६६॥ एवं चौर्यप्रपापैश्च दारिद्र्यं प्राप्तवाँस्ततः ।
उन्मत्तश्चाऽभवं मृत्युं गतो भ्रमन् वनान्तिके ॥६७॥ देहं त्वभक्षयन् काका गृध्राश्च जम्बुका मम ।
याम्यदुःखानि सम्भुक्त्वा पापलेशेन जम्बुकः ॥८॥ वनेऽत्राऽस्मि प्रसम्भूतः क्षुधाविष्टो भ्रमामि च ।
वस्त्रहीनः सदा दुःखी भोजनार्थमिहोत्करम् ॥६९॥ आगत्य प्रत्यहं चान्नं भुनज्म्युच्छिष्टमुत्तमम् ।
हरेः प्रसादजं चान्नं सतामुच्छिष्टमुत्तमम् ॥4.67.७०॥ पावनं पापहारं च नित्यं भुक्त्वाऽघवर्जितः ।
पावनो वासनाहीनो जातोऽस्मि पुण्यवानहम् ॥७१ ॥ कथाप्रसङ्गतश्चात्र मया प्राप्तं सुभोजनम् ।
येनाऽहं देवतारूपो जातोऽस्मि च दिवङ्गतः ॥७२॥ उषित्वा सुचिरं मार्गे ततो यास्यामि मोक्षणम् ।
इत्युक्त्वा प्रययौ बद्रि देवो भूत्वा दिवं तदा ॥७३॥ आश्चर्यं परमं प्राप्ताः कर्मचारास्तदा जनाः ।
विविदुश्च प्रसादस्य माहात्म्यं स्वर्गमोक्षदम् ॥७४॥ शृणु बद्रीप्रिये पश्चादाश्चर्यपरमं मनः ।
अभवत् कर्मचाराणां प्रसादान्नादिभक्षणे ॥७५॥ माहात्म्यसंविदस्ते च प्रसादं कर्मचारिणः ।
पापनाशकरं ज्ञात्वा चखदुर्भावसम्भृताः ॥७६॥ तेषां वै कर्मचाराणां निर्मलान्यान्तराणि वै ।
इन्द्रियादीन्यभवँश्च हृदयानि शुभानि च ॥७७॥ पापशून्यानि जातानि श्रेष्ठविवेकवन्ति च ।
तेषां तदाऽभवन् हृत्सु सङ्कल्पा मोक्षहेतवे ॥७८॥ मन्त्राणां ग्रहणे चापि सतां प्रसेवनेऽपि च ।
नाम्नां कृष्णस्य रटने कीर्तने परमात्मनः ॥७९॥ अथ ते वै शतं कर्मचाराः सेवापरायणाः ।
जगृहुः परमं मन्त्रं नामधुन्यं च कीर्तनम् ॥4.67.८०॥ स्वतःप्रकाशायनतो जापं चक्रुश्च कीर्तनम् ।
नित्यं कथायाः श्रवणं कृत्वा कुर्वन्ति कीर्तनम् ॥८ १॥ एवं ते श्रद्धया युक्ता मन्त्रमाहात्म्यवेदिनः ।
प्रसादस्य सतां सेवायाश्च माहात्म्यवेदिनः ॥८२॥ भक्त्या कृष्णस्य भजनं चक्रिरे भोजनोत्तरम् ।
मासान्ते भजतां तेषां कृष्णः प्रसन्नतां गतः ॥८३॥ अनादिश्रीकृष्णनारायणश्रीकान्तवल्लभः ।
आकाशादाययौ तूर्णं स्वर्णविमानवाहनः ॥८४॥ प्रसन्नमानसो दिव्यः सर्वाभरणभूषितः ।
लक्ष्म्या जुष्टो ललितया माणिक्या परिसेवितः ॥८५॥ राधया जपया पद्मावत्या च प्रज्ञयाऽर्चितः ।
कर्मचारैर्नरैः सर्वैस्तथा कर्मपरायणैः ॥८६॥ तदन्यमानवैश्चापि योषिद्भिः कर्मजुष्टिभिः ।
दृष्टः श्रीभगवान् रम्यः सर्वकामार्थपूरकः ॥८७॥ नतो मुहुर्जयशब्दैर्वर्धितश्चाऽक्षतादिभिः ।
पूजितो हार्दकुसुमैर्विमानाद् भुवमागमत् ॥८८॥ प्राह सर्वान् प्रसंवीक्ष्य कर्मचाराऽग्रमानवम् ।
गृह्णन्नाम हरिं प्राह सर्वेषां शृण्वतां तदा ॥८९॥ भो स्वर्णाञ्जन भृत्य त्वं पवित्रोऽसि प्रसादतः ।
मन्ये नारीनराः सर्वे प्रसादभोजिनोऽपि च ॥4.67.९०॥ कथासेवापराः सन्ति पावना गतकल्मषाः ।
मुक्तियोग्याः समस्ता वै सर्वान्नेतुं ममाऽक्षरम् ॥९१॥ आगतोऽपि समायान्तु सर्वे मे शाश्वतालयम् ।
इत्युक्ता बद्रिके सर्वे कर्मचारा नराः स्त्रियः ॥९२॥ सज्जा हलहलाशब्दैर्विमानं प्रति दुद्रुवुः ।
कृष्णनारायणेनैते वारिकणैः प्रसिञ्चिताः ॥९३॥ मूर्छां लब्ध्वा तनूस्त्यक्त्वा भूत्वा सुदिव्यविग्रहाः ।
विमानमधिरुह्यैते दिव्या धामाऽक्षरं ययुः ॥९४॥ वैशाखकृष्णैकादश्यां ययुर्धामाऽक्षरं हरेः ।
शतं नराः शतं नार्यो दिव्या मुक्ताः सदाऽभवन् ॥९५॥ जयनादान् प्रकुर्वन्तो मोदप्रमोदरञ्जिताः ।
श्रावयन्तो जनान् सर्वान् किर्तनं ते ययुस्तदा ॥९६॥ प्रभोनारायणकृष्णमालतौन्रायण प्रभो ।
जयाकृष्णललितान्रायणराधापते विभो ॥९७॥ एवं तालीर्वादयन्तः कुर्वन्तः किलकिलाटिकाः ।
आह्वयन्तो भूतलस्थान् ययुर्धामाऽक्षरं हे ते ॥९८॥ बद्रिके श्रीहरेश्चाऽयं प्रसादः कृपयाऽन्वितः ।
भुक्तिं मुक्तिं ददात्येव तथेष्टं प्रददात्यपि ॥९९॥ भजतां भगवन्तं वै न न्यूनं त्ववशिष्यते ।
सेवतां साधूवर्यांश्च सर्वं पूर्णं प्रवर्तते ॥4.67.१० ०॥ रटतां श्रीहरेर्नाम भस्मीभवन्त्यघानि वै ।
‘ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा’ ॥१० १॥ इत्येवं जपतां मन्त्रं जायन्ते पुण्यकोटयः ।
स्मरतां श्रीहरिं बद्रि साक्षात् कृष्णोऽभियाति च ॥१० २॥ अर्पयतां समस्तं च गतिर्धाम्न्यक्षरेऽस्ति च ।
स्वयं नारायणः श्रीमान्नयत्येतान्निजाऽऽलयम् ॥१ ०३॥ पठतां शृण्वतां चापि स्मरतां मोक्षदं त्विदम् ।
सर्वेष्टपूरकं बद्रि शाश्वतानन्ददायकम् ॥१०४॥ इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने पूर्वजन्मनि धेनुपालस्य गोवाराभिधस्य मार्जारतां गतस्य, पूर्वभवे ठट्ठोलाख्यवणिग्जनस्य शृगालता प्राप्तस्य,
स्वर्णाञ्जनादिशतद्वयकर्मचारिनरनारीणां च, प्रसादभोजनेन सेवाकथादिना च, मोक्षणमित्यादिनिरूपणनामा सप्तषष्टितमोऽध्यायः ॥६७ ॥