०६४

श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि कथां दुरितनाशिनीम् ।
न्यायाधीशस्य ते वच्मि परमोक्षप्रदायिनीम् ॥१ ॥ प्रसेवनाख्यनगरे न्यायाधीशोऽभवद् द्विजः ।
नाम्ना मुकुन्दसावित्रो धर्माध्यक्षोऽतिबुद्धिमान् ॥२ ॥ समस्तन्यायनिष्णातो वादविवादशान्तिकृत् ।
निर्णयं प्रददात्येव न्यायालयकृतासनः ॥३ ॥ प्रजानां हितकृच्चापि स वादिप्रतिवादिनोः ।
लुञ्चां प्राप्योभययोश्चोभयलाभं तु निर्णये ॥४ ॥ प्रदर्श्य वादशान्तिं स करोत्येव विसंशयाम् ।
किन्त्वेवं बहुधा लुञ्चाधनं सम्प्राप्तवान् परम् ॥५ ॥ पापेन पक्षघातेन रोगेणाभिभवं गतः ।
खद्वायां स सदा शेते वामाङ्गशून्यभागवान् ॥६ ॥ पराधीनो ह्यति जातः पत्नीभृत्यकृतक्रियः ।
दुःखमाप्नोति हृदये शुश्राव भृत्यवर्गतः ॥७ ॥ दुःखनाशकरं वाक्यं कथामाहात्म्यमुत्तमम् ।
ये प्रयान्ति कथायां वै रुग्णाः पापा अधर्मिणः ॥८ ॥ शुद्धाः श्रुत्वा कथां यान्ति ब्रह्मधामाऽक्षरं हरेः ।
रोगहीनाः प्रजायन्ते पुण्यभाजो भवन्त्यपि ॥९ ॥ श्रुत्वैवं स सतीं पत्नीं प्राह मे मोक्षणं च वा ।
रोगनाशो यथा स्याद्वै तथा विधेहि मत्कृते ॥४.६४.१ ०॥ सापि श्रुत्वा स्वामिवाक्यं स्वामिश्रेयःपरा सती ।
प्रजाजनानां वृद्धानां सम्मतिं जगृहे सती ॥११ ॥ कथं पत्युः रोगनाशः पापनाशश्च मोक्षणम् ।
तत् कर्तव्यं मया तूर्णं पप्रच्छेति महाजनान् ॥१ २।
महाजना गुणग्राहा श्रेयसे न्यायदायिनः ।
प्राहुरद्य वरं श्रेयः संहिताश्रवणं मतम् ॥१ ३॥ चमत्कारा नित्यनवाः श्रूयन्ते तु कथास्थले ।
कल्याणं देहिनां तत्र करोति कृपया हरिः ॥१४॥ तमेनं न्यायकर्तारं नय तत्र कथास्थलीम् ।
कथां श्रुत्वा सतो दृष्ट्वा नत्वा सभां समन्ततः ॥१५॥ प्रपूज्य परमात्मानं तवेष्टं सम्भविष्यति ।
पत्युस्ते सर्वथा चेष्टं भविष्यति न संशयः ॥१६ ॥ इत्युक्ता सा सती भार्या नाम्ना गयाक्षिणी ययौ ।
द्रव्यं भृत्यान् पतिं नीत्वा नरयाणेः कथास्थलीम् ॥१ ७॥ महोद्यानं स्थलीवासं कृत्वा स्नात्वा सुशोभना ।
पतिं नीत्वा नरयाने कथामण्डपमाययौ ॥१८॥ पक्षघाताऽभिभूतोऽपि पतिर्नेमे सभाजनान् ।
संहितां वाचकं कृष्णमूर्तिं नेमे च लोमशम् ॥१ ९॥ ऋषीन् साधून् प्रणेमे च सुप्तोऽपि नरयानके ।
तृणं लब्ध्वा मुखे पापक्षमां सद्भ्योऽप्ययाचत ॥४.६४.२० ॥ सन्तो दयालवस्तस्मै ददुः पादजलानि च ।
प्रसादं प्रददुस्तत्र सोऽपि चखाद सत्वरम् ॥२१॥ भद्रिके तावता तस्य देहे शक्तिर्व्यवर्धत ।
पक्षं वामं सुशक्तं सञ्जातं जाड्यविहीनकम् ॥२२॥ शून्यभावं विहायैव चैतन्यसम्भृतं ह्यभूत् ।
उत्थाय सहसा खष्ट्वामध्यतः स सभां प्रति ॥२३॥ चकार दण्डवद्भूमौ विदन् माहात्म्यमुत्तमम् ।
नीरुग्णत्वं दर्शनात्तु तत्कालं समजायत ॥२४॥ ततः पूजां चकारापि धनरत्नादिभिस्तदा ।
व्यासपूजां कथामूर्तिपूजां लोमशपूजनम् ॥२५॥ संहितापूजनं साधुसाध्वीप्रपजूनं तथा ।
द्विजर्षिपूजनं चक्रे भूरिदानादिदक्षिणम् ॥२६॥ कथां शुश्राव च ततश्चैवं नित्यं चकार ह ।
महिमानं विवेदापि कथाया नवजीवने ॥२७॥ मृत्योर्मुखान्महारोगान्मुक्तिः कथाप्रभावतः ।
सतामाशीर्वचनैश्च विवेद स्त्रीयुतो हि सः ॥२८॥ न्यायाक्षिणी तथा न्यायाधीशः साधुनिषेवणम् ।
नित्यं प्रचक्रतुस्तत्र निजावासे मुहुर्मुहुः ॥२९॥ अकुर्वातां विचारं च मरणाद् रक्षणं त्विह ।
जातं तस्माज्जीवनं वै दातव्यं कृष्णलब्धये ॥४.६४.३ ०॥ न गन्तव्यं गृहे चेतः स्थातव्यं साधुमण्डले ।
श्रोतव्या श्रीसंहितायाः कथा सर्वार्थदायिनी ॥३१ ॥ सेवनीयाः साधवश्च तोषणीया महर्षयः ।
तारणीयो निजात्मा च प्राप्तव्यं परमं पदम् ॥३२॥ अपि न्यायो हि जगतां कृतोऽपि कोटिलक्षधा ।
आत्मन्यायः कृतश्चेन्न कृतं किमपि तेन न ॥३३॥ तोषिता वादविवदाः कलिप्राया जना अपि ।
अपि कृष्णस्तोषितो न कृतं सर्वं निरर्थकम् ॥३४॥ रञ्जिताः कलिकर्तारः शमिता मायिका जनाः ।
सन्तश्चेद् रञ्जिता नैव कृतं सर्वं निरर्थकम् ॥३५॥ अर्जितं नाणकं कोटिः वर्धिताः सम्पदो जडाः ।
अर्जितं नाऽऽत्मकल्याणं कृतं सर्वं निरर्थकम् ॥३६॥ सेविताः स्त्रीमहीमानाः सत्कृताश्च कुटुम्बिनः ।
सेविताश्चेत् साधवो न कृतं सर्वं निरर्थकम् ॥३७॥ वन्दिता द्रव्यदातारो भोजिता लम्पटा जनाः ।
नाऽतिथयः पूजिताश्चेत् कृतं सर्वं निरर्थकम् ॥३८॥ स्मृता नित्यं कलहिणः वितण्डा उदिताः सदा ।
नारायणो नेरितश्चेत् कृतं सर्वं निरर्थकम् ॥३९॥ पोषितो निजदेहश्च संस्कृता मूर्धजाः सदा ।
संस्कृतं न हृदयं चेत् कृतं सर्वं निरर्थकम् ॥४.६४.४०॥ आधत्तं बाह्यविज्ञानं विस्तारिताश्च कल्पनाः ।
कृष्णध्यानं न चाधत्तं कृतं सर्वं निरर्थकम् ॥४१ ॥ निर्णया लौकिका दत्ताः सत्ताः भुक्ता तु मायिकी ।
आत्ममोक्षो निश्चितो न कृतं सर्वं निरर्थकम् ॥४२॥ श्रद्धा मृषा विवादेषु कृता नैजे च गौरवे ।
कृष्णनारायणे चेन्न कृता सर्वा निरर्थिका ॥४३॥ सम्मानं बहुधा लब्धं स्वागतं चाति वीक्षितम् ।
मानितश्चेन्न कृष्णेन मानं चान्यन्निरर्थकम् ॥४४॥ ताडिता दण्डिता दुष्टाः कारागारे निपातिताः ।
कामादयो दण्डिता न दण्डश्चान्यो निरर्थकः ॥४५॥ मोचिताः पीडिता लोका विपदो विनिवारिताः ।
स्वस्य याम्यं वारितं न कृतं सर्वं निरर्थकम् ॥४६॥ गतयो बहुधा क्लृप्ता मार्गाश्चान्येऽवधारिताः ।
ब्रह्ममार्गो धृतश्चेन्न कृतं सर्वं निरर्थकम् ॥४७॥ दत्तं बहुभ्यो लोकेभ्यो न दत्तं परमात्मने ।
भक्तेभ्यो न न यज्ञेभ्यो दत्तमन्यन्निरर्थकम् ॥४८॥ अर्जिता बहुधा ऋद्धिः कीर्तिः ख्यातिः प्रतिष्ठिका ।
न त्वर्जिता कृपा कार्ष्णी तदर्जितं निरर्थकम् ॥४९॥ कोशे सुरक्षितं स्वर्णं रजतं पेटिकासु च ।
हृदि कृष्णो न निहितो रक्षितं तन्निरर्थकम् ॥४.६४.५०॥ आरोहितानि यानानि वाहनान्यादृतानि च ।
श्रीकृष्णस्य विमानं नाऽऽदृतं सर्वं निरर्थकम् ॥५१ ॥ राज्यं प्रपालिकं सम्यक् प्रजाः सम्यङ्निभालिताः ।
दृष्टो नारायणश्चेन्न दृष्टं सर्वं निरर्थकम् ॥५२॥ श्रुतं संशयितं सर्वं मतं मृषाभिवर्धितम् ।
न श्रुता न मता कृष्णकथा सर्वं निरर्थकम् ॥५३॥ दीनाऽनाथा आश्वसिता भृत्याद्याः स्वाश्रयीकृताः ।
भक्ता नाश्वासिता दिव्या आश्रयादि निरर्थकम् ॥९४॥ व्याख्यातान्यन्यतत्त्वानि भौतिकानि क्षणे क्षणे ।
कृष्णतत्त्वं न चाख्यातं गतं सर्वं निरर्थकम् ॥५५॥ लिखिता राजपदका योजिता पाशवी कला ।
नात्मा संयोजितः कृष्णे योजना सा निरर्थिका ॥५६॥ अप्यब्धयः क्षालिताश्चाऽऽलोडिता न्यायकोटयः ।
वासना ज्वालिता नैव श्रमः सर्वो निरर्थकः ॥५७॥ शत्रवः सज्जिताश्चापि बलिष्ठाश्च विरोधिनः ।
कामना न जिता येन जयस्तस्य निरर्थकाः ॥५८॥ सर्वे त्वधीतमेवापि वाचितं पुष्कलं सदा ।
नाऽधीतं श्रीहरेर्नाम रटना सा निरर्थिका ॥५९॥ प्रेषितानि तु पत्राणि लग्नानि योजितान्यपि ।
कृष्णलग्नं न चापन्नं सर्वमन्यन्निरर्थकम् ॥४.६४.६०॥ स्त्रियो विवाहिता बह्व्यः प्रवाहिताश्च दक्षिणाः ।
संवाहिता गजा हंसा नाऽऽहिताः कृष्णवैष्णवाः ॥६१॥ कृष्णनारायणो नैव धृतो वक्षसि केशवः ।
तदा निरर्थकं सर्वं भाररूपं हि वाहितम् ॥६२॥ अपि वेषा धृता रम्या धृता भूषा सुशोभिताः ।
कृष्णकण्ठी धृता नैव धृतं सर्वं निरर्थकम् ॥६३॥ पीतं भुक्तं बहु मिष्टमास्वादिता रसा पराः ।
प्रसादो न हरेर्भुक्तो भुक्तं सर्वं तु पापकृत् ॥६४॥ सुगन्धादि समस्तं संयोजितं वर्ष्महेतवे ।
कृष्णार्थं योजितं नैव तत् सर्वं पापदं कृतम् ॥६५ ॥ उत्सवा विहिताश्चान्ये दैवोत्सवाः कृता नहि ।
सतां महोत्सवास्त्यक्तास्तस्य सर्वं निरर्थकम् ॥६६॥ स्वजन्माहानि सततं पालितान्यपराण्यपि ।
कृष्णजन्मदिनं चेन्न पालितं तेन किं कृतम् ॥६७॥ आयुः सङ्क्षपितं सर्वं देहः कर्मसु धर्षितः ।
रागो न धर्षितो द्वेषो न धर्षितो वृथाश्रमः ॥६८॥ विभाजिता निजा सम्पत् पुत्राद्याश्च विभाजिताः ।
भजितो न हरिकृष्णो भक्तं सर्वं विडम्बनम् ॥६९॥ आवृतं नगरं सर्वमावृतानीन्द्रियाण्यपि ।
नाऽऽवृतं हृत् श्रीकृष्णेन सर्वमावृतमावृतम् ॥४.६४.७०॥ अनुग्रहीता बहवो मोचिता विपदां मुखात् ।
निजात्मा मोचितो नैव मोचनं तन्निरर्थकम् ॥७१॥ माता पिता सुहृद् बन्धुः पूजिताः सेवितास्तथा ।
साधवः सेविताश्चेन्न मोक्षमार्गोऽस्य दुर्घटः ॥७२॥ पितरस्तर्पिता दीना भोजिता वन्दिताः सुराः ।
नोपासितः कृष्णनारायणो गुर्वी तु सा क्षतिः ॥७३॥ आसादितानि धिष्ण्यानि मानपत्राणि शोभनाः ।
पदव्यश्चापि संलब्धा नाप्तं कृष्णपदाम्बुजम् ॥७४॥ नाप्याप्तमासनं कृष्णपादासनसमीपगम् ।
तदा नाप्तं त्वन्ततस्तु किञ्चित् शून्यमिवाऽभवत् ॥७५॥ सर्वं शून्ये गतं तस्य कृष्णहीनस्य देहिनः ।
अतः कृष्णः प्रापणीयः सर्वमन्यन्निरर्थकम् ॥७६॥ अत्रैव सर्वदा कृष्णकथालाभार्थमुत्तमा ।
वसतिः रोचते तस्माद्वसितव्यमिहाऽधुना ॥७७॥ विचार्येत्थं मिथः पत्नीपती तत्र निवासनम् ।
चक्रतुर्बद्रिके कृष्णनारायणार्पितात्मकौ ॥७८॥ जगृहतुश्च तौ मन्त्रं नामधुन्यं तदा मुदा ।
‘ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा’ ॥७९॥ ‘प्रभोनारायणश्रीमाधवीनारायणप्रभो ।
जयाकृष्णललितान्रायणराधापते विभो ॥४.६४.८०॥ स्वप्रकाशो हि भगवान् मन्त्रं दत्वा च तौलसीम् ।
ददौ कण्ठीं भजनार्थं मालिकां प्रतिमां ददौ ॥८ १ ॥ ततस्तौ कृष्णचित्तौ वै प्रतीक्षेते प्रमोक्षणम् ।
मासान्ते श्रीकृष्णनारायणो विमानमास्थितः ॥८२॥ नेतुं समाययौ तौ तु चैत्रस्याऽमादिने हरिः ।
उज्ज्वलः श्वेतवसनः स्वर्णभूषाविभूषितः ॥८३॥ उवाच तौ समायातं धामाऽक्षरं परं मम ।
उक्तमात्रौ दम्पती तौ स्वर्णरूप्यादिदानकम् ॥८४॥ चक्रतुर्यानदानं तावध्यारोढुं विमानकम् ।
कृतक्रमौ च यावत्तु तावद् विमूर्छितौ द्रुतम् ॥८५॥ त्यक्तदेहौ लब्धदिव्यस्वरूपौ सम्बभूवतुः ।
सर्वेषां पश्यतां बद्रि विमानमध्यतिष्ठताम् ॥८६॥ पुष्पवृष्टिर्व्योममार्गाज्जयशब्दा जनव्रजात् ।
अभवन् बहुलास्तत्र तावद् विमानमम्बरे ॥८७॥ ऊर्ध्वं जगाम सहसा दिव्यं धामाऽक्षरं प्रति ।
तिरोऽभवद् विप्रकृष्टं महाश्चर्यमभूद्धि तत् ॥८८ ॥ एवं श्रीबद्रिके भक्तौ त्यक्तसर्वप्रवर्तनौ ।
स्नेहभक्त्या ययतुः श्रीकृष्णनारायणालयम् ॥८९॥ तयोर्भृत्यजनास्तत्र तयोश्चक्रुः प्रदाहनम् ।
ततस्तेऽपि हरेर्भक्तिं नाम मन्त्रं च जगृहुः ॥४.६४.९०॥ भेजुः श्रीपरमात्मानं कृष्णनारायणं प्रभुम् ।
क्षपिताघा गतक्लेशा निर्मलाः साधुसेविनः ॥९ १ ॥ अभवँस्ते कृपापात्राण्यन्वहं श्रीकथापराः ।
प्राप्तवैराग्यवेगाश्च ध्यानभजनयोगिनः ॥९२॥ वैष्णवाः परमा भूत्वा लब्ध्वाऽऽशीर्वादमुत्तमम् ।
ययुर्गृहाणि नैजानि स्मरन्तः परमेश्वरम् ॥९३॥ पक्वकालेन ते सर्वे सत्सङ्गिनः शुभाशयाः ।
क्षीणवासनाः संलग्ना श्रीहरौ मोक्षसन्मुखाः ॥९४॥ प्रतीक्षन्ते स्म देवेशं प्रभुं कृष्णं नरायणम् ।
तावत् तेषां श्रेयसे वै विमानं त्वागतं दिवः ॥९५॥ ययुस्तेऽपि हरेर्धाम कृष्णविमानवाहिताः ।
प्रसेवने पुरे सर्वे व्यपश्यन् स्वविमानकम् ॥९६॥ दिव्यं दिव्यश्रीहर्याढ्यं दिव्यमुक्ताधिवासितम् ।
दर्शका निजभाग्यानि मेनिरे मोक्षभाञ्जि ह ॥९७॥ भजनं ते व्यधुः स्वामिन् कृष्णनारायणप्रभो ।
कालेन क्षीणपापाश्च प्रयातास्ते परं पदम् ॥९८॥ एवं बद्रीप्रिये मोक्षं गतौ न्यायाधिकारिणौ ।
न्यायाक्षिणी च मुकुन्दसावित्रः सत्कथाश्रवात् ॥९९॥ पठनाच्छ्रवणादस्य स्मरणात् सेवनात् सताम् ।
भुक्तिर्मुक्तिर्भवेद् बद्रि स्वर्गं स्वेष्टं भवेदपि ॥४.६४.१ ००॥ सर्वदिव्यगुणाश्चापि दिव्या सम्पद्वरा अपि ।
दिव्यधामनिवासश्च दिव्यश्रीकृष्णयोगिता ॥१०१ ॥ दिव्यता सर्वथा स्याच्छ्रीसंहिताश्रवणादिह ।
प्राप्तव्यं सर्वमाप्येत न न्यूनं तस्य विद्यते ॥१ ०२॥ इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने न्यायकर्तुर्मुकुन्दसावित्रविप्रस्य न्यायाक्षिण्यास्तत्पत्न्याश्च कथाश्रवणादिभिर्मोक्षणमित्यादिनिरूपणनामा चतुष्षष्टित्तमोऽध्यायः ॥६४ ॥