०६०

श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि कथां मल्लप्रमोक्षिणीम् ।
श्रीकारनगरे त्वासन् मल्लास्तद्युद्धकोविदाः ॥१ ॥ पञ्चाशत्सङ्ख्यकाः श्रेष्ठाः कृताभ्यासा दृढास्थिनः ।
अन्येऽपि मल्लवर्गस्य कुटुम्बिनोऽभवँस्तथा ॥२ ॥ नरा नार्यश्च ते यान्ति नित्यं कथाश्रवाय वै ।
श्रुत्वा नित्यं समायान्ति गृहाणि वर्णयन्ति च ॥३ ॥ गृहस्थेभ्यः कथां दिव्यां श्रुतां यां मोक्षकारिणीम् ।
तथा वदन्ति दृष्टं यं चमत्कारं विमानजम् ॥४ ॥ ये ये मोक्षं प्रयान्त्येव तां तां वार्तां वदन्त्यपि ।
ततो मल्लाः प्रसन्नाश्च कथास्थलीं ययुर्दृढाः ॥५ ॥ बहुभिः स्वजनैः साकं मण्डपान्तमुपस्थिताः ।
कथान्ते ते मल्लयुद्धं महाश्चर्यकरं व्यधुः ॥६ ॥ लोमशस्तु प्रसन्नः सन् मन्त्रं तेभ्यो ददौ मुदा ।
‘ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा’ ॥‘७ ॥ नामसङ्कीर्तनार्थं च भजनं प्रददौ तदा ।
प्रभोनारायणस्वामिनारायण नरायण ॥८ ॥ अनादिमाधवीकृष्णनारायण रमायण’ ।
मल्लास्ते सकुटुम्बा वै भजनं चक्रिरे सदा ॥९ ॥ कथाश्रवणमेवापि नित्यं नित्यं प्रचक्रिरे ।
सतां सेवां व्यधुः प्रेम्णा पूजनं वाचकस्य च ॥4.60.१ ०॥ आरार्त्रिकं संहितायाश्चक्रिरे धर्ममानसाः ।
दानानि स्वर्णरत्नानां भूषापात्रान्नवाससाम् ॥११ ॥ चक्रिरे मुद्रिकाणां च गवां दानानि चक्रिरे ।
भेजुः श्रीपरमात्मानं शुश्रवुः संहिताकथाम् ॥१ २॥ पवित्रास्ते प्रजाता वै निष्पापा वासनोज्झिताः ।
मुक्तियोग्यास्तु ये जाता वृद्धा नार्यो नरा अपि ॥१ ३॥ तेषामग्रेसरा नाम्ना हरिवर्यो गजक्रमः ।
शतवाजः सिंहमर्दः शरभार्दः कसेरुकः ॥१४॥ द्रुमभञ्जो वंशवारः शिलादो लोहपेषणः ।
इत्येवमाद्याश्चान्येऽपि कृतकृत्या निराशयाः ॥१५॥ प्रदग्धवासना जाता नार्योऽपि वृद्धयोषितः ।
प्रतीक्षन्ते तु मुक्त्यर्थं सविमानागमं हरेः ॥१ ६॥ सायं चैत्रामावास्यायां कथान्ते कृतपूजनाः ।
सज्जा ये चाऽभवन् तांस्तु नेतुं कृष्ण उपाययौ ॥१७॥ दिव्यविमानसहितो दिव्याभरणभूषितः ।
श्रिया लक्ष्म्या पद्मया च रमया सह तेजसा ॥१८॥ प्रकाशयन् दिशो हरिर्हसन् मल्लानुवाच ह ।
मोक्षयोग्या भवन्तो वै मोक्षपुण्याभिभागिनः ॥१९॥ विहाय भौतिकान्देहानारोहन्तु विमानकम् ।
इत्युक्ता मल्लभक्तास्ते ये सज्जा गन्तुमक्षरम् ॥4.60.२०॥ नरा नार्यश्च ते देहान् विहाय दिव्यमूर्तयः ।
भूत्वा कृष्णेच्छया तूर्णमारुरुहुर्विमानकम् ॥२१ ॥ सर्वा मुक्तानिका मुक्ता दिव्यात्मानः सुरूपिणः ।
भूत्वा श्रीकृष्णदासाश्च जयशब्दान् प्रचक्रिरे ॥२२॥ तान्नीत्वा श्रीकृष्णनारायणो बद्रीश्वरि निजम् ।
धामाऽक्षरं ययौ व्योम्ना सर्वेषां पश्यतां सताम् ॥२३ ॥ तेषां देहानपरे तु शिष्टा मल्लकुटुम्बिनः ।
नीत्वा प्रदाहयामासुश्चोर्ध्वदैहिकमाचरन् ॥२४॥ चमत्कारो महाँश्चायं प्रससाराऽतिवेगतः ।
देशे ग्रामेषु मल्लानां मोक्षात्मकोऽतिमानवः ॥२५॥ शृणु बद्रीप्रिये देवि चमत्कारं तथाऽपरम् ।
वार्धूषिकाश्च गोधादा लूणीनगरवासिनः ॥२६॥ दन्तधावनविक्रेतारश्च कुटुम्बिनस्तदा ।
श्रुतवन्तो मानुषेभ्यः प्रशंसां परमात्मनः ॥२७॥ कथायाश्च चमत्कारं पापिनां पापनाशनम् ।
मोक्षं दिव्यविमानेन यानं श्रीकृष्णदर्शनम् ॥२८॥ तेन प्रजातजिज्ञासा नरा नार्यश्च संहिताम् ।
श्रोतुं कृतादराः सज्जा बभूवुर्वृद्धसंहिताः॥२९॥ बालाश्च बालिकाश्चापि शतं ते मानवाः सुखम् ।
वृषभैर्निजसामग्रीर्नीयमानाः शनैः शनैः ॥4.60.३ ०॥ वाघ्घरयः श्रौकृष्णं श्रीनारायणं परेश्वरम् ।
स्मरन्तः प्रययुः सिन्धुजले सस्नुस्ततो द्रुतम् ॥३ १॥ भक्षयित्वा तु पाथेयं प्रययुर्मण्डपान्तिकम् ।
उद्याने वृषभाऽऽवासं चक्रिरे तरुषण्डके ॥३२॥ ततः श्रोतुं कथां नीत्वा पूजासामग्रिकाः शुभाः ।
व्यासासनं कथास्थानं ययुर्भावभराश्च ते ॥३३॥ पुपूजुः परया भक्त्या भावप्रकाशवाचकम् ।
लक्ष्मीनारायणसंहितां पुपूजुः समाहिताः ॥३४॥ उपदा फलपुष्पाणि स्वर्णमुद्राः पुरो न्यधुः ।
वस्त्रभूषामालिकाश्च मणिहारान् ददुस्तथा ॥३५॥ गुञ्जाहारान् पुष्पहारानक्षतान् निदधुः पुरः ।
धूपं दीपं च नैवेद्यं कुङ्कुमाऽगुरुचन्दनम् ॥३६॥ समर्प्याऽऽरार्त्रिकं चक्रुः सर्वे चक्रुश्च दण्डवत् ।
दक्षिणां रूप्यमुद्राश्च पुरो न्यधुस्ततः कथाम् ॥३७॥ शश्रुवुर्भावतश्चापि पुपूजुर्लोमशं मुनिम् ।
सतां सेवामाश्रमेषु गत्वा चक्रुरहर्निशम् ॥३८॥ एवं वार्धूषिकाः सर्वे कथासेवाविधानतः ।
गतपापा विशुद्धाश्चाऽभवन् तेभ्यस्तु लोमशः ॥३९॥ मन्त्रं संश्रावयामास नामधुन्यं ददौ तथा ।
‘ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा’ ॥4.60.४०॥ ‘प्रभोनारायणस्वामिन्मालतीन्रायणप्रभो ।
जयाकृष्णललितान्रायणराधापते विभो’ ॥४१ ॥ प्राप्य मन्त्रं नामधुन्यं जेपुश्चक्रुः सदा प्रगे ।
सायं त्वेवं कथां श्रुत्वा जेपुश्चक्रुः समागताः ॥४२।
नित्यं चानाय्य ददति दन्तधावनकान्यपि ।
बर्बुरादिद्रुमाणां वा क्षीरवतां सुशाखिनाम् ॥४३॥ तनुशाखान्तलभ्यानि मृदूनि सुरसानि च ।
एवं गत्वा पार्श्ववने त्वानयन्ति मधून्यपि ॥४४॥ समर्पयन्ति साधुभ्यो वाचकाय महर्षये ।
कृष्णनारायणस्यापि पूजार्थमर्पयन्त्यपि ॥४५॥ आनयन्ति च समिधः काष्ठानि धुनिहेतवे ।
मृत्तिकां चानयन्त्यत्र सेवन्ते साधुयोगिनः ॥४६॥ एवं सर्वे क्रोष्टृव्याधा वैष्णवाः सेवयाऽभवन् ।
पावनाः पापहीनाश्च कथाश्रुतेर्विवासनाः ॥४७॥ मासान्ते श्रीप्रभुर्नारायणः श्रीमाधवीश्वरः ।
कृष्णः प्रसन्नस्तेषां वै स्वप्ने साक्षात्तदाऽभवत् ॥४८॥ चतुर्भुजः श्रीसहितः कृतसेवादिवस्तुयुक् ।
हसन् दिव्यस्वरूपश्च सहस्रसूर्यभायुतः ॥४९॥ क्षणात्तिरोऽभवच्चापि ततस्ते प्रातरेव ह ।
उत्थाय तूर्णं संस्नात्वा प्रसन्ना लोमशं ययुः ॥4.60.५०॥ पूजयित्वा तु वृत्तान्तं स्वाप्नं न्यवेदयन्मुदा ।
लोमशोऽपि समाकर्ण्य प्राह क्रोष्टृहणः शुभम् ॥५१॥ युष्माकं पातकं नष्टं पुण्यमभ्युदितं बहु ।
देवानां दुर्लभं कृष्णदर्शनं व उपस्थितम् ॥५२॥ यूयं योग्या मोक्षपदे नेतुं वित्त हि सर्वथा ।
भगवान् श्रीकृष्णनारायणो नेष्यति वस्ततः ॥५३॥ सज्जा भवत वृद्धाद्या ये वाञ्च्छन्त्यक्षरं पदम् ।
नारायणः स्वयं लक्ष्मीपतिः समागमिष्यति ॥५४॥ इत्युक्तास्ते वाघ्घरयोऽभवन् सज्जास्तु मुक्तये ।
वृद्धा नार्यो नराश्चापि प्रतीक्षन्ते तदागमम् ॥५५॥ चैत्रकृष्णामावास्याया रात्र्यन्ते प्रतिपद्दिने ।
प्रातरेव समायातः श्रीकृष्णः पुरुषोत्तमः ॥५६॥ चैत्रशुक्लाऽऽद्यदिवसे शुक्लातिशुक्लरूपवान् ।
उज्ज्वलः श्रीसहितः श्रीकृष्णनारायणः स्वयम् ॥५७॥ सर्वभूषाप्रभूषितः सर्वथा सौम्य ईशिता ।
विमानेन द्रुतं चाऽवातरत् पृथ्व्यां पुरःक्षितौ ॥५८॥ आश्चर्यं परमं जातं समुज्ज्वलं तदाऽम्बरम् ।
जयनादाः सुराणां च पुष्पवृष्टिर्दिवौकसाम् ॥५९॥ अभवन् परितस्तत्र क्रोष्टृहन्तॄनुवाच सः ।
आयात सम्प्रसन्नोऽस्मि भक्त्या कथाश्रवेण च ॥4.60.६०॥ साधूनां सेवया चापि मन्नामकीर्तनेन च ।
पावनाः स्थः समायात विमानं मोक्षनेतृ मे ॥६१ ॥ श्रुत्वा तु बद्रिके ये ये सज्जा गन्तुं परं पदम् ।
अभवँस्ते द्रुतं देहाँस्त्यक्त्वा तत्र हि भौतिकान् ॥६२॥ विमानं ते दिव्यदेहा भूत्वाऽऽरुरुहुरुत्सुकाः ।
हर्षलालादिनामानो नत्वा श्रीपतिमीश्वरम् ॥६३॥ श्रियं नत्वा नरा नार्यो मुक्ता मुक्तानिकास्तदा ।
श्रीकृष्णेन प्रणीतास्ते ययुर्ब्रह्माऽक्षरं पदम् ॥६४॥ सर्वेषां पश्यतां बद्रि परं मोक्षं ययुर्हि ते ।
कृपया श्रीकृष्णनारायणस्य च कथाबलात् ॥६५॥ अथाऽन्यत्ते कथयामि महाश्चर्यं तदा तथा ।
शृणु बद्रीप्रिये देवि शृण्वतां पापनाशकम् ॥६६॥ कश्चिन्मृगयुरभवत् सिन्धुवने कुटुम्बवान् ।
दृष्टवानम्बरे तेजः प्रातरेव विमानकम् ॥६७॥ मुमुदे वीक्ष्य सहसा कुटुम्बेन समन्वितः ।
तस्याऽभवत्ततो बुद्धिः शुद्धा मोक्षाभिगामिनी ॥६८॥ हिंसां विहाय पापानां नाशार्थं सकुटुम्बकः ।
कथास्थलं ययौ तत्र पुपूज लोमशं मुनिम् ॥६९॥ न्यवेदयत् स्ववृत्तान्तं पापनाशनहेतुकम् ।
कथां श्रोतुं तथा मन्त्रं चाप्तुं गन्तुं परं पदम् ॥4.60.७०॥ लोमशस्तं कीरवणं मृगयुं प्राह वै व्रतम् ।
स्नानं प्रपूजनं मालावर्तनं सेवनं सताम् ॥७१॥ नित्यं कथायाः श्रवणं कीर्तनं कमलापतेः ।
‘ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा’ ॥७२॥ ददौ मन्त्रं हरेः पादवार्यमृतं ददौ तथा ।
प्रसादं च ददौ ब्रह्मकूर्चं व्रतं ददौ ततः ॥७३॥ कीरवणादयः सर्वे कुटुम्बिनो व्यधुर्व्रतम् ।
भजनं सेवनं कथाश्रवणं रटनं सदा ॥७४॥ एवं मासे गते साक्षात् कृष्णनारायणः प्रभुः ।
आययौ साधुरूपो वै द्रुतं कीरवणं प्रति ॥७५॥ भिक्षां ययाचे सहसा फलपुष्पादिभोजनाम् ।
पात्राम्बरादिरूपा च नार्यर्पणात्मिकामपि ॥७६॥ प्रसन्नः स कीरवणो वीक्ष्य साधुं समुज्ज्वलम् ।
नारायणं विचिन्त्यैव ददौ नारीं फलादिकम् ॥७७॥ निःसंशयं निजं भक्तं भक्तां परीक्ष्य माधवः ।
साधुरूपादाविरास विष्णुरूपश्चतुर्भुजः ॥७८॥ प्राप्त्वा फलं प्रपस्पर्श नारीं नरं कुटुम्बकम् ।
दक्षकरेण भगवान् तावत् कीरवणादयः ॥७९॥ दिव्यदेहा द्रुतं जाता दिव्यरूपाढ्यमूर्तयः ।
विष्णुर्नारायणस्ताँश्च सर्वस्वदानकारिणः ॥4.60.८०॥ शरणागतभक्तान् वै विमानेन सुवर्चसा ।
अनयद् ब्रह्मलोकं वै पश्यतां देहधारिणाम् ॥८१ ॥ बद्रिके सा कृपा स्वामिकृष्णनारायणस्य वै ।
मृगयुं त्वनयत् कृष्णो यन्निजं धाम चाक्षरम् ॥८२॥ श्रीबद्रीप्रियोवाच-
कथं वै भगवन्नारायण विष्णो जगत्पते ।
हिंसकस्याऽभवद् व्योम्नि विमानस्याऽस्य दर्शनम् ॥८३॥ श्रीनरनारायण उवाच-
बद्रीप्रिये वने नित्यं साधुसेवापरः स हि ।
फलपुष्पादिभिश्चापि विश्रान्तिसम्प्रदानकः ॥८४॥ सतां पादादिसंवाहसेवाकृत् सकुटुम्बकः ।
नारायणम्प्रभुं कृष्णं जपन् सत्सङ्गकारकः ॥८५॥ तेन योगेन देवेशि निर्मलात्मा सुपुण्यवान् ।
त्यक्तमृगयाधर्मः स पश्चकालादवर्तत ॥८६॥ एवमासीत् पुण्यशाली साधुभक्तोऽतिभाववान् ।
ततोऽस्य श्रीविमानस्य दर्शनं त्वभवत्तदा ॥८७॥ बद्रिके ये भागवतास्ते तु कृष्णप्रतापिनः ।
दिव्यदृष्टयः पश्यन्ति दिव्यं कृष्णं विमानकम् ॥८८॥ ये पापा दोषभृद्देहा दोषात्मानश्च दोषिणः ।
नास्तिका भक्तिहीनाश्च सतां विद्वेषिणस्तथा ॥८९॥ तेषां नैवाऽस्ति निस्तारस्तेषां न दिव्यदर्शनम् ।
तेषां न योगः सुभगो मोक्षदः स्वर्गदोऽपि वा ॥4.60.९०॥ अपि सत्सङ्गपार्श्वे ये वसन्तोऽपि तु नास्तिकाः ।
तेषां सत्सङ्गलाभो न न पुण्यं नैव मोक्षणम् ॥९१ ॥ अपि दूरे वसन्तो ये स्नेहवन्तो हरौ सति ।
सत्सु तादात्म्यहृदयास्तेषां पुण्यं च मोक्षणम् ॥९२॥ बद्रिके बाह्यसद्भिश्च सहाऽऽन्तरिकसाधवः ।
मेलनीयाः प्रयत्नेन तदा मुक्तिः करे स्थिता ॥१३॥ बाह्यतो न सतां योगश्चान्तरे विषयान्वितः ।
तादृक् सत्सङ्गहीनस्य न स्वर्गं न परा गतिः ॥९४॥ बद्रिके वै जगत् सर्वं मायाविकृतिशोभनम् ।
अन्तर्नग्नं बहिश्छन्नं गार्हस्थ्यं सुतरां तथा ॥९५॥ सदा विषयचित्तात्म सदा भोगपरायणम् ।
बर्हिः सुवेषमपि तन्नग्नं न याति मोक्षणम् ॥९६॥ बद्रिके साधवः शान्ता जितेन्द्रिया हरौ स्थिराः ।
अन्तर्विषयहीनाश्च बहिर्दिग्वाससोऽपि च ॥९७॥ ब्रह्मगुणैर्दिव्यवस्त्रैश्छन्ना विभूषितास्तु ते ।
अविकृता अकामाश्च वासनाविषवर्जिताः ॥९८॥ स्त्रीपुम्भानविहीनास्ते सुवेषाः साधवो मताः ।
तेषां योगेन पापानां विनाशो ब्रह्मदर्शनम् ॥९९॥ आत्मना दिव्यताप्राप्तिरैश्वर्याणां समर्जनम् ।
मोक्षप्राप्तिर्हरेः प्राप्तिः सतां योगेन जायते ॥4.60.१००॥ कालनाशस्तथा मायानाशः कर्मविनाशनम् ।
बन्धनाशो वासनानां क्षयः सद्योगतो भवेत् ॥१० १ ॥ एवं मृगयुश्चारण्ये साधुसेवापरायणः ।
बीजबलवान् कृष्णस्य विमानं समलोकयत् ॥१ ०२॥ पठनाच्छ्रवणादस्य स्वर्गो मुक्तिर्भवेदपि ।
भुक्तिः स्यात्तु सकामानां साधुसङ्गाद्धि मोक्षणम् ॥१ ०३॥ इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने हरिवीर्यादिमल्लानां, हर्षलालादिमृगयूणां, कीरवणादिव्याधानां च कथाश्रवणादितो मोक्षणमित्यादिनिरूपणनामा षष्टितमोऽध्यायः ॥६० ॥