०५८

श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि कथां पापविनाशिनीम् ।
कराञ्चनीपुरे त्वब्धितटे सिन्धुमुखे पुरा ॥१ ॥ यवसन्धाभिधः कश्चिद् धेनुखादकघातकी ।
न्यवसन्मांसमदिरामत्स्वादनोऽतिहिंसकः ॥२ ॥ शशान् कपीन् वराहाँश्च हरिणान् वनपक्षिणः ।
यादांसि चापि हिंसित्वा गवयाऽजोरणानपि ॥३ ॥ सकुटुम्बः पाचयित्वा विक्रीणाति च खादति ।
एवं पापसमाचारः सदा पापपरायणः ॥४ ॥ कुक्कुटादः कुक्कुटाण्डरसभक्षणकारकः ।
भ्रष्टदेहो भ्रष्टकर्मा यवसन्धीयजातिजः ॥५ ॥ यवसन्धाभिधो वार्तां शुश्राव नाविकाननात् ।
शर्करानगरे तत्र संहितायाः कथा शुभा ॥६ ॥ जायते मोक्षदा सर्वपापानां क्षालिनी त्विति ।
जायन्ते दिव्यदेहाश्च श्रोतारो ब्रह्मलोकगाः ॥७ ॥ सर्वपापानि भगवान् शरण्यो भक्तवत्सलः ।
शरणागतभक्तस्य क्षमतेऽर्पयते दिवम् ॥८ ॥ हिंसका बहवस्तेन तारिताः स्त्रीनरा अपि ।
तत्रास्ते लोमशर्षिश्च स्वतःप्रकाश ईशिता ॥९ ॥ तथा सन्तः साधवश्च साध्व्यो विप्रर्षयोऽपि च ।
येषां वै दर्शनात् प्रसेवनात् प्रसादनात्तथा ॥4.58.१ ०॥ शाश्वती जायते मुक्तिर्विमानेन गतिः परा ।
नैतादृशो हि समयः पुनरस्मान् मिलिष्यति ॥११ ॥ पापनाशकरः शुद्धोऽनायासमोक्षणप्रदः ।
यवसन्धो बद्रिके संशुश्रावैतां गिरं शुभाम् ॥१ २॥ मुमुक्षाऽस्याऽभवत्तूर्णं पापनाशाय तत्क्षणम् ।
मया पापान्यनन्तानि कृतानि घातनानि वै ॥१ ३॥ तेषां न स्याद्धि निस्तारो विना दिव्यजनाश्रयम् ।
एते नौकाधराः सर्वे वदन्ति ऋतमेव तत् ॥१४॥ प्रयामि शर्करापुर्यामघानि क्षपयामि च ।
यदि पापविनाशो मे बहुहत्याघनाशनम् ॥१५॥ तदा तस्मादुत्तमं मे किमत्र परिशिष्यते ।
कर्मणां चेत् कृतानां तु भूमावत्र निवर्तनम् ॥१६॥ किमस्मादपरं साध्यं कर्तव्यं मेऽवशिष्यते ।
अवश्यं तत्र गन्तव्यं प्राणमात्रं तु यत्र वै ॥१७॥ अवश्यं तत्र वस्तव्यं यत्र स्याच्छान्तिरात्मनः ।
अवश्यं तत्र दातव्यं यत्रोप्तं फलदं भवेत् ॥१८॥ अवश्यं तत्र सुप्तव्यं यत्र निर्भीकता भवेत् ।
अवश्यं तत्र मर्तव्यं यत्रानन्दस्तु शाश्वतः ॥१९॥ यदि गच्छामि तत्रैव संहितायाः कथार्थकः ।
पापनाशो भवेन्मे चेद् गन्तव्यं मोक्षमेव ह ॥4.58.२०॥ पुनरावर्तनं नैव कराञ्चनीपुरं प्रति ।
रोचते मे पापकर्म नैव नैव च नैव च ॥२१॥ कुटुम्बसहितो यास्ये शर्करानगरं प्रति ।
महत्या नौकया यन्त्रगन्त्र्या यास्यामि सत्वरम् ॥२२॥ विचार्येत्थं यवसन्धः पत्नीं नाम्ना मजावलीम् ।
जगाद मानसं सर्वं सङ्कल्पितं शुभावहम् ॥२३॥ सापि धन्यं निजभाग्यं मेने देशावलोकनम् ।
पुण्यावलोकनं चापि महोत्सवप्रलोकनम् ॥२४॥ मोक्षावलोकनं मेने श्रेष्ठं हिंसाद्यपेक्षया ।
बद्रिके सा सम्मताऽभूत् पुत्राः पुत्र्यस्तथाविधाः ॥२५॥ एकविंशतिसङ्ख्यास्ते कुटुम्बिनो द्रुतं ततः ।
धनं द्रव्यं भूषणान्यम्बराणि भोजनान्यपि ॥२६॥ गृहयोग्यान्यौषधानि वेषवाराणि यान्यपि ।
देहादिसाधनकानि पात्राण्यावश्यकानि च ॥२७॥ पेटिका चोपकरणं शवयाद्यं ते समुत्सुकाः ।
निन्यिरे सर्वमेवापि योग्यं यात्रादि यद्धितम् ॥२८॥ नौकया यन्त्रवेगाभिगमयित्र्याब्धितीरके ।
ययुरग्रे सिन्धुमुखे ततो नद्यां तु नौकया ॥२९॥ तयैव सहसा सर्वे प्रतिपूरं ययुर्मुदा ।
प्रापुः श्रीशर्कराभूमिं स्नात्वा सिन्धुजले तु ते ॥4.58.३०॥ नीत्वोपदाः प्रजग्मुस्ते कथामण्डपमुत्तमम् ।
शुश्रुवुस्ते कथां रम्यां सर्वपातकनाशिनीम् ॥३ १॥ कथान्ते वाचकं सर्वे पुपूजुर्वस्तुभिः शुभैः ।
लोमशं च तथा साधून् प्रणेमुस्ते ततः परम् ॥३२॥ प्रार्थनां चक्रिरे पापमोक्षार्थिनीं शुभावहाम् ।
लोमशश्च तदा तेभ्यो ददौ श्रीब्रह्मकूर्चकम् ॥३३॥ व्रतं च पञ्चगव्यं च तथा श्रीकृष्णनाम च ।
मन्त्रं धुन्यं भजनं च ददौ पादामृतं तथा ॥३४॥ प्रसादान्नं ददौ तेभ्यः पापनाशनहेतवे ।
तेऽपि सर्वेऽतिभावेन चखदुरन्नमुत्तमम् ॥३५॥ पपुर्वारि व्रतं चक्रुः कथाश्रवणमाचरन् ।
मासान्ते पावना जाताः सर्वे विगतकल्मषाः ॥३६॥ भावनानुकूल एषामायुष्यान्तोऽभवत्तथा ।
द्वादश्यां चैत्रकृष्णस्य मध्याह्ने कृतभोजनाः ॥३७॥ सर्वे ते तु निषेदुर्वै वासगृहाङ्गणे तदा ।
अकस्माच्चागतं दिव्यं विमानमम्बरात् ततः ॥३८॥ विमानतैजसा स्पृष्टाः सर्वे मूर्छां प्रपेदिरे ।
चतुर्भुजो हरिस्तेषां गोचरोऽपि तदाऽभवत् ॥३९॥ अनादिश्रीकृष्णनारायणः श्रीमाधवीश्वरः ।
तान् कृत्वा दिव्यदेहाँश्च त्याजयित्वा शवानि ह ॥4.58.४०॥ निन्ये विमानगान् कृत्वा नैजं धामाऽक्षरं शुभम् ।
आश्चर्यं परमं दृष्ट्वा महर्षयोऽपि वै तदा ॥४१॥ प्रशसंसुः प्रियकृष्णनारायणं दयानिधिम् ।
प्रशसंसुश्च तान् सर्वान् शरणागतमानवान् ॥४२॥ महापापान् पापशून्यान् शशंसुर्भक्तिसम्भृतान् ।
अहोऽसङ्ख्याऽघकर्तॄणामपि श्रीभगवान्हरिः ॥४३॥ कृपया चाऽनिवर्तिन्या करोति मोक्षणं परम् ।
धन्यो नारायणः कृष्णो धन्यास्ते मोक्षभागिनः ॥४४॥ धन्यं शार्करनगरं कथा धन्या प्रमुक्तिदा ।
बद्रिके एवमेवाऽन्ये मुक्तिं तत्र हि लेभिरे ॥४५॥ पठनाच्छ्रवणादस्य चिन्तनादघमोक्षणम् ।
भुक्तिर्मुक्तिर्भवेच्चापि तथा स्याच्छाश्वती गतिः ॥४६॥ इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने कराञ्चनीपुरीस्थस्य सदाहत्याकरस्य यवसन्धस्य सकुटुम्बस्य संहिताकथाश्रवणेन मोक्षणमित्यादिनिरूपणनामाऽष्टपञ्चाशत्तमोऽध्यायः ॥५८ ॥