०५३

श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि राजाऽऽसीत् शालमित्रकः ।
क्षत्रियो धर्मनिष्ठश्च प्रजापालनतत्परः ॥१ ॥ दानधर्मरतो नित्यं गोविप्रसाधुपूजकः ।
अन्नसत्रं गृहे यस्य वस्त्रसत्रं महत्तथा ।
धनसत्रं तथा यस्य कोशेऽभूद् दीनरक्षकम् ॥२ ॥ यस्य ग्रामे दिव्यदेवालयाः सन्ति सुशोभिताः ।
विप्राश्च साधवः साध्व्यो देवसेवापरायणाः ॥३ ॥ वर्तन्ते ‘यस्य नगरे राष्ट्रग्रामेषु वै तथा ।
जीविकाजीवनाः सर्वे राज्ञा दत्तार्थवृत्तिकाः ॥४ ॥ प्रतिदेवालयं क्षेत्रं सस्यानां जनकं महत् ।
महती वाटिका चापि गोधनं दांसदासिकाः ॥५ ॥ अन्नवस्त्रप्रदानं च प्रतिवर्षं पृथक् तथा ।
धनदानं पृथक् चापि जीविका प्रतिमन्दिरम् ॥६ ॥ एवं राज्ये सर्वतोऽस्य धर्मशालास्तथाऽभवन् ।
वृक्षच्छायाश्च मार्गेषु तथोद्यानानि मन्दिरे ॥७ ॥ वर्तन्ते दैवपुष्पार्थं जलकूपाः प्रतिस्थलम् ।
देवपूजाप्रवाहाश्च चन्दनाक्षतकुङ्कुमम् ॥८ ॥ धूपदीपसुनैवेद्यफलताम्बूलकानि च ।
राजकोशात् प्रपद्यन्ते प्रतिदेवालयं सदा ॥९ ॥ एवं पूर्वैः पूर्वतरैः पूर्वतमैः सुजीविकाः ।
बद्धा देवार्हणार्थं वै सर्वथा पूर्वजीविकाः ॥4.53.१ ०॥ अथ राजा वर्तमानः शालामित्रस्तदा स्वयम् ।
भक्तो भूत्वा परीक्षार्थं पूजाकालेऽन्वहं द्रुतम् ॥११॥ प्रत्येकं मन्दिरं याति यात्राक्षुर्भिक्षुको यथा ।
विलोकयति बद्धां तां व्यवस्थां पूजकैः कृताम् ॥२॥ पूजका नैव कुर्वन्ति पूजां पूर्वैर्यथाऽर्पिताम् ।
यथाक्लृप्तां न कुर्वन्ति सेवानैवेद्यकं ह्यपि ॥१ ३॥ आरार्त्रिकं न कुर्वन्ति क्वचित् क्वचिन्न वन्दनम् ।
कुत्रचिद्धूपनं नैव कुत्रचिन्नैव दीपनम् ॥१४॥ कुत्रचिच्चन्दनं नैव कुत्रचिन्नैव तूलसी ।
कुत्रचिन्न महादेवे स्नानपुष्पाम्बरादिकम् ॥१५॥ कुत्रचिन्न हरौ कृष्णे भूषाम्बरनिवेदनम् ।
कुत्रचिन्न रवौ देव्यां पूजाशृङ्गारतर्पणम् ॥१ ६॥ कुत्रचिन्न नरे नारायणे नैवेद्यकार्पणम् ।
कुत्रचिन्नैव पूजाऽस्ति नीराजनं न जायते ॥१७॥ पूजकेषु व्यसनानि प्रत्यक्षं स व्यलोकयत् ।
नरानार्यो धर्महीना वर्तन्ते मन्दिरादिषु ॥१८॥ स्नानसत्कर्महीनाश्च पूजका मलिनास्तथा ।
स्वार्थमात्रपरा नैजोदरम्भरा वसन्ति च ॥१९॥ क्वचित्तु मन्दिरे भ्रष्टाचारा मद्यपरायणाः ।
वर्तन्ते पूजकाश्चेति प्रत्यक्षं स व्यलोकयत् ॥4.53.२०॥ वीक्ष्यैवं निजराज्ये वै मन्दिरेषु घृणास्थितिम् ।
विचारमकरोद् राजा बुद्ध्या विवेकमिश्रया ॥२१ ॥ मम ये पूर्वजा दत्तवन्तो दानानि जीविकाः ।
धर्मार्थं देवपूजार्थं दैवकार्यार्थमन्वहम् ॥२२॥ मन्दिरेषु पूजका ये पूजिका याश्च सन्ति वै ।
न कुर्वन्ति यथार्थं ते पूजनं देवतार्चनम् ॥२३॥ वृथा खादन्ति ते सर्वे घसाशिनो वृषोज्झिताः ।
येन ध्येयेन तेभ्यो वा देवेभ्यो दत्तजीविकाः ॥२४॥ तद्ध्येयं जायते नैव देवपूजा न जायते ।
व्यसनानि पूजकास्ते समाचरन्ति सर्वथा ॥२५॥ न तेजो विद्यते तेषामाननेषु मनागपि ।
निस्तेजसो विलोक्यन्ते पूजका मन्दिरेषु वै ॥२६॥ भ्रष्टाचारा भ्रष्टधर्माः कदर्या इव धूम्रिणः ।
यत्र पूजाकरा भ्रष्टाचाराः स्वोदरपूर्त्तिकाः ॥२७॥ व्यसनाभिभूतचित्ता देवास्तत्र वसन्ति न ।
यत्र वै पूजकाः स्नानहीनाश्च मलिनान्तराः ॥२८॥ मलिवस्त्रा मलिदेहा देवास्तत्र वसन्ति न ।
यत्र वै पूजकाः कामिक्रोधिलोभिप्रतारिणः ॥२९॥ असत्याऽनृतमिथ्याढ्या देवास्तत्र वसन्ति न ।
सतृष्णाः पूजका यत्र प्रमादाऽऽलस्यसम्भराः ॥4.53.३०॥ निस्त्रपाः स्वाध्यायहीना देवास्तत्र वसन्ति न ।
पूजकाः स्नेहहीनाश्च भक्तिसेवोज्झताः खलाः ॥३१ ॥ देवगौरवहीनाश्च देवास्तत्र वसन्ति न ।
यत्राऽर्चका व्रतहीना नास्तिक्याडम्बरान्बिताः ॥३२॥ मृषावादा मृषाकार्या देवोत्सवादिवर्जिताः ।
पूजाप्रकारशून्याश्च देवास्तत्र वसन्ति न ॥३३॥ यत्र गन्धः सुगन्धो न धूपो दीपो न विद्यते ।
यत्र नीराजनं नास्ति देवास्तत्र वसन्ति न ॥३४॥ यत्र शुद्धिर्न पात्राणां जलशुद्धिर्न विद्यते ।
नैवेद्यस्य न वै शुद्धिर्देवास्तत्र वसन्ति न ॥३५॥ देवगृहस्य शुद्धिर्न शुद्धिः सिंहासनस्य न ।
देवशय्यादिशुद्धिर्न देवास्तत्र वसन्ति न ॥३६॥ मन्दिरे मार्जनं नास्ति प्रक्षालनं न वा क्वाचित् ।
धूलिनिष्कासनं नास्ति देवास्तत्र वसन्ति न ॥३७॥ निर्माल्यदूरता नास्ति नूत्नपुष्पार्पणं न च ।
नूत्नशृङ्गारभूषा न देवास्तत्र वसन्ति न ॥३८॥ नूत्नवेषार्पणं नास्ति नूत्नजलार्पणं न च ।
नूत्नचन्दनचर्चा न देवास्तत्र वसन्ति न ॥३९॥ नूतनाऽक्षतकुङ्कुमतुलसीफलशर्कराः ।
मध्वाज्यादि नूतनं न देवास्तत्र वसन्ति न ॥4.53.४०॥ यत्रोपकरणौज्ज्वल्यं वस्त्रौज्ज्वल्यं न विद्यते ।
भूषौज्ज्वल्यं बिम्बौज्ज्वल्यं देवास्तत्र वसन्ति न ॥४१॥ अन्धकारो यत्र शैत्यं महौष्ण्यं दुष्टवायवः ।
क्लेशाः कलहा यत्स्थाने देवास्तत्र वसन्ति न ॥४२॥ पूजको ब्रह्मचारी न पाचकः शुद्धिवर्जितः ।
स्तावको भावशून्यश्च देवास्तत्र वसन्ति न ॥४३॥ यद्देवाऽग्रे सोपानत्का मानवा यान्ति सन्निधौ ।
सशस्त्रा गर्वयुक्ताश्च देवास्तत्र वसन्ति न ॥४४॥ मद्यमांसाशनं यत्र दुर्गन्धिभक्षणादिकम् ।
दुष्टपानादिकं यत्र देवास्तत्र वसन्ति न ॥४५॥ निषिद्धाचरणं यत्र विहितत्यजनं तथा ।
पूजाकालनियमो न देवास्तत्र वसन्ति न ॥४६॥ देववाद्यानि पात्राणि चामरादीनि सन्ति न ।
मन्त्रा यत्र न विद्यन्ते देवास्तत्र वसन्ति न ॥४७॥ मानवा मन्दिरे देवगृहे स्वपन्ति यत्र च ।
सहनिवासनं नित्यं देवास्तत्र वसन्ति न ॥४८॥ देवानां गौरवं यत्र पाल्यते मानवैर्नहि ।
पृष्ठे देवा मनुष्याणां देवास्तत्र वसन्ति न ॥४९॥ श्वानश्च शूकरा यत्र गृहे भ्रमन्ति वानराः ।
भ्रष्टजीवा यत्र सन्ति देवास्तत्र वसन्ति न ॥4.53.५०॥ पापिनां पादसञ्चारः स्पर्शो देवस्य सर्वदा ।
भ्रष्टवस्त्वर्पणं यत्र देवास्तत्र वसन्ति न ॥५१॥ आदरो भावना नास्ति प्रेम स्नेहो न विद्यते ।
पूजकस्यां न चाऽऽस्तिक्यं देवास्तत्र वसन्ति न ॥५२॥ यद्देवाग्रे ग्राम्यवार्ता देहकार्याणि यत्पुरः ।
यदग्रे चित्तमालिन्यं देवास्तत्र वसन्ति न ॥५३॥ विधिहीना प्रतिष्ठा चाऽजलपुष्पं प्रपूजनम् ।
स्तुतिहीनः प्रवेशश्च देवास्तत्र वसन्ति न ॥५४॥ पूजकस्य तपो यत्र पूजा श्रेष्ठा प्रजायते ।
आभिरूप्यं यत्र मूर्तेर्देवास्तत्र वसन्ति वै ॥५५॥ साधवः पूजका यत्र ब्रह्मचर्यपरायणाः ।
साध्व्यो वा दीक्षिताः शीतव्रतास्तत्र हि देवताः ॥५६॥ आत्मशुद्धिर्भावशुद्धिर्द्रव्यशुद्धिः समस्तिका ।
पूजाशुद्धिर्भक्तशुद्धिर्देवास्तत्र वसन्ति वै ॥५७॥ विद्यमानासु सर्वासु जीविकास्वपि ये नराः ।
पूजोत्सवान्न कुर्वन्ति देवास्तत्र वसन्ति न ॥५८॥ अपूजा वा न्यूनपूजा भ्रष्टपूजास्तु देवताः ।
रुष्टा खनन्ति वंशान् वै स्थापकस्य नृपस्य च ॥५९॥ विलोक्यन्ते मया सर्वदेवालयेषु राष्ट्रके ।
पूजका भ्रष्टपूजास्ते दोषं कुर्वन्त मन्दिरे ॥4.53.६०॥ दोषभागो भवेऽन्यस्मिन् नृपतेः शासकस्य च ।
तस्मात्ते शिक्षणीया वै राजाज्ञया मयाऽधुना ॥६१॥ विचार्येत्थं नवं कृत्वा नियमं सप्रकाशकम् ।
श्रावयामास सर्वत्र देवार्चनार्थमन्वहम् ॥६२॥ अद्याऽऽरभ्य तु देवानां पूजनं विधिना तु ये ।
सर्वथा न करिष्यन्ति राजा वृत्तिं हरिष्यति ॥६३॥ इत्येवं निजराष्ट्रे वै श्रावयामास सर्वथा ।
भूत्वा श्रीबद्रिके वृत्तिहानेर्भयात्तु केचन ॥६४
विधिवत् पूजनं चारेभिरे भक्तियुता नराः ।
ये खलाश्च शठाश्चासन् प्रमादमोहगर्विताः ॥६५॥ नास्तिक्यमिथ्यावादाश्च मृषादेवादिवादिनः ।
ते तु चित्तं ददुर्नैव पूजादौ परमात्मनः ॥६६॥ राज्ञा निरीक्षकेनैषां वृत्तयः संहृतास्ततः ।
दण्डिताः केचन दुष्टा निष्कासिताश्च केचन ।६७॥ उत्थापिता भग्नबिम्बा अपहृताश्च जीविकाः ।
जीर्णदेवालयास्तेन नीता वै शून्यतां तदा ॥६८।
एवं कृतवता साङ्गा वृत्तिहर्तृत्वपातकम् ।
पूजकानां कुटुम्बानां निःश्वासाः शपथानि च ६९॥ उत्पादितानि भागेन भागेन पुण्यमर्जितम् ।
शापस्तु सहसा हन्ति पुण्यं चिरेण रक्षति ॥4.53.७०॥ जीविकाहरणे पापं जायते सर्वनाशकम् ।
जीर्णस्य जीविका नैव हर्तव्या वै कदाचन ॥७१ ॥ जीर्णोद्धारः प्रकर्तव्यः कर्तव्या रिक्तता न तु ।
शून्यतायाः फलं शून्यं कर्तुस्तत्र प्रजायते ॥७२॥ बद्रिके तस्य भूपस्य जीविकाहरणस्य वै ।
पापं शापस्य चायातं तूर्णं दुःखप्रदं तदा ॥७ ३॥ राजा रोगेण संव्याप्तो जलोदरेण सर्वथा ।
अजीर्णेन च रोगेण ह्यतिसारेण वै रुजा ॥७४॥ अभिभूतोऽभवन्मन्दाग्निना जाठरवर्तिना ।
भोजनं नाऽस्य पचति वमनं वै प्रजायते ॥७५॥ जलोदरं वर्धते च रक्तं जले विवर्त्तते ।
शुष्कायन्तेऽस्य मांसानि रक्तोत्सर्गो भवत्यपि ॥७६॥ उदरं गर्भिणीतुल्यं गलितौ पादहस्तकौ ।
पिङ्गताऽस्याऽभवद्देहे शक्तिहासोऽभवत्तथा ॥७७॥ अपाचनं महारोगो बद्रिके मरणान्तकः ।
शालमित्रो भूपतिस्तु श्रेष्ठौषधान्यकारयत् ॥७८॥ तथापि दैवरोषेण शापेनाऽऽप्ता हि रुग्णता ।
मनागपि न नष्टा सा वृद्धिं गता दिने दिने ॥७९॥ जीविकाहरणं सर्वपापाधिकं हि पातकम् ।
अत्रैव भुज्यते बद्रि हर्तव्या नैव जीविका ॥4.53.८०॥ राज्ञः पत्नी जयालक्ष्मीर्नाम्ना सापि तथा रुजा ।
रक्तस्राववती नित्यं जाता च दुर्बला सती ॥८१ ॥ राजा शोकं समापन्नश्चौषधं न गुणायते ।
शुश्राव संहितावार्ताचमत्कारं तदा क्षणे ॥८२॥ जना ये तीर्थयात्रार्थं यान्ति वै शर्करापुरम् ।
संहितायाश्चमत्कारं वर्णयन्ति तु ते कथाम् ॥८३॥ पापिनां मोक्षणं चापि साक्षाच्च दर्शनं हरेः ।
शुश्राव वर्णितं सर्वं जनैर्माहात्म्यमुत्तमम् ॥८४॥ तूर्णं सज्जोऽभवद् गन्तुं संहिताश्रवणाय सः ।
परिमेयाऽनुगो राज्ञ्या समं श्रोतुं कथां ययौ ॥८५॥ बहुभिर्दक्षिणाभिश्चोपदाभिर्वाचकं मुनिम् ।
पूजयामास नृपतिर्गत्वा कथास्थलं द्रुतम् ॥८६॥ आशीर्वादान् समगृह्य राज्ञ्या समं च लोमशम् ।
पुपूज भावतो राजा लोमशो वीक्ष्य दुर्बलम् ॥८७॥ नीरुग्णो भव नृपते नीरुग्णा पत्निका तव ।
पापशून्यावुभौ भूत्वा यातं कार्ष्णं परं पदम् ॥८८॥ असारः खलु संसारः सारस्तस्मात्तु मोक्षणम् ।
जीवनं सर्वथा पापं पुण्यं संसारमोक्षणम् ॥८९॥ एवमाशीर्वचनैस्तौ द्रुतं दुरितवर्जितौ ।
सञ्जातौ तद्वर्ष्मणोश्च रोगौ तत्रैव निर्गतौ ॥4.53.९०॥ मूर्तिमन्तौ जगदतुर्जीविकाहरणोत्थितौ ।
आवां रोगौ चातिसारौ प्राणहरौ द्वयोरपि ॥९१॥ स्वस्ततोऽद्य युवयोरायुष्यं शेषं न विद्यते ।
लोमशस्य संहिताया वाचकस्य हरेर्बलात् ॥९२॥ निर्गतौ युवयोर्देहाभ्यां तथापि मृतिध्रुवा ।
ततो दानानि सर्वाणि दत्वा लब्ध्वा मनुं हरेः ॥९३॥ भक्तिं कृत्वा यातमेवाऽक्षरं पदं प्रभोर्हरेः ।
इत्युक्त्वा ययतू रोगौ राजा राज्ञी द्रुतं तदा ॥९४॥ राज्यार्पणं कुमारे च कृत्वा पत्रेण वै तदा ।
दत्वा दानानि सर्वाणि प्रदत्वा जीविका पुनः ॥९५॥ नैर्ऋण्यं सर्वथा कृत्वा प्राप्य मन्त्रं तु लोमशात् ।
भक्तिं कृत्वा मासमात्रमुषित्वा तौ कथान्तिके ॥९६॥ शोधयित्वा निजात्मानौ साधून् संसेव्य भावतः ।
‘ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा’ ॥९७॥ ‘प्रभोनारायण श्रीशवेदीनारायण प्रभो ।
अनादिश्रीकृष्णनारायण श्रीकान्त सद्विभो ॥९८॥ एवं मन्त्रं च भजनं चक्रतुर्भृत्यसङ्घिनौ ।
एकाग्रमानसौ भूत्वा क्षपयित्वा तु वासनाः ॥९९॥ हरेः प्रासादिकं जग्ध्वा पावयित्वा समस्तकम् ।
सज्जौ बभूवतुर्गन्तुं मोक्षे धामाऽक्षरं हरेः ॥4.53.१ ००॥ फाल्गुनस्याऽसिते पक्षे त्वेकादश्यां कथोत्तरम् ।
प्रगे दिव्यं विमानं वै सौवर्णं परमात्मनः ॥१०१ ॥ व्योम्नश्चावातरत् तत्र सर्वेषां पश्यतां शुभम् ।
बद्रिके श्रीकृष्णनारायणस्तस्माद्विनिर्ययौ ॥१ ०२॥ पस्पर्श तौ पाणिना च विमुच्य देहतः पृथक् ।
दिव्यमुक्तौ दिव्यदेहौ विधाय सहसा प्रभुः ॥१ ०३॥ निधाय स्वविमाने तौ ययौ धामाऽक्षरं निजम् ।
एवं तौ वृत्तिहर्तारौ तथापि पुण्यकारिणौ ॥१ ०४॥ देवार्थं कृतसर्वस्वौ पावयित्वा प्रभुः पुनः ।
श्रावयित्वा कथां नैजां निन्ये मोक्षदं निजम् ॥१ ०५॥ बद्रिके जयकारोऽभूत्तदा सर्वत्र भूतले ।
राजा राज्ञी गतौ मोक्षं संहितायाः कथाबलात् ॥१ ०६॥ कथां श्रोतुं समायान्ति समन्ततोऽयुताऽयुतम् ।
मनुष्याः कृष्णचित्तास्ते लभन्ते स्वेष्टमुत्तमम् ॥१ ०७॥ पठनाच्छ्रवणादस्य स्मरणादपि बद्रिके ।
भुक्तिर्मुक्तिश्चेष्टसिद्धिः स्वर्गं दीर्घं च लभ्यते ॥१ ०८॥ वासनानां क्षयश्चापि शुद्धिर्निजात्मनस्तथा ।
धाम्न्यक्षरे गतिः स्थानं शाश्वतं सुखमाप्यते ॥१ ०९॥ इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने शालमित्रनृपतेर्देवजीविकाऽपहरणेन तद्राज्ञ्याश्च महातिसाररुग्णताऽऽयुर्नाशश्चेति वेदनोत्तरं संहिताकथाश्रवणार्थं गतयोस्तत्र मुक्तिरित्यादिनिरूपणनामा त्रिपञ्चाशत्तमोऽध्यायः ॥५३ ॥