०४५

श्रीबद्रीप्रियोवाच-
भगवन् करुणासिन्धो सिन्धुदेशे ततः परम् ।
किङ्किं चकार भगवान् वद मे सर्वमञ्जसा ॥१ ॥ श्रीनरनारायण उवाच-
प्रातरुत्थाय भगवान् नवम्यां स्नानमाचरत् ।
वेषं भूषाश्च शृङ्गारं योग्यं सर्वं दधार ह ॥२ ॥ तदा तूर्याण्यवाद्यन्त स्त्रीणां च गीतयोऽभवन् ।
स्तावकानां गिरश्चाप्यश्रूयन्त मङ्गलोदिताः ॥३ ॥ वैदिकानां मन्त्रघोषा अभवन् मण्डपान्तिके ।
यन्त्रशब्दा अभवँश्च कृष्णप्रबोधसूचकाः ॥४ ॥ ऋषयो मुनयः सन्तः पूजार्थं तत्र चाययुः ।
अपूजयन् परमेशं यथालब्धोपचारकैः ॥५ ॥ अथ नार्यो राजपत्न्यः पूजार्थं तत्र चाययुः ।
अपूजयन् हरिङ्कृष्णं मूर्तिं तां हृदये न्यधुः ॥६ ॥ अथ राजादयस्तत्र पूजनार्थं समाययुः ।
बहुमूल्योपचारैस्तं प्रापूजयन् महीश्वराः ॥७ ॥ प्रजा नार्यो नरास्तत्राऽऽययुर्विप्राश्च देवताः ।
पूजनार्थं भगवन्तमपूजयन् विधानतः ॥८ ॥ सर्वलोका हरिं पूजयित्वा कृतार्थिनोऽभवन् ।
ततः प्रावर्तत दुग्धपानं च भोजनादिकम् ॥९ ॥ ताम्बूलार्पणमेवाऽन्ते विदायं च ततोऽभवत् ।
कोटिरायो रायहरिः प्राघुर्णिकेभ्य आदरात् ॥4.45.१०॥ पारितोषिकमुत्कृष्टं पृथग् ददतुरुत्सुकौ ।
महीमाना ययुर्नैजान् देशान् विमानकैस्ततः ॥११ ॥ संहिताया वाचनार्थं कृष्ण आदिश्य सेवकम् ।
स्वप्रकाशं च सहसाऽऽरार्त्रिकं संविधाय च ॥१ २॥ लक्ष्मीनारायणसंहितायाः कृत्वा च पूजनम् ।
सज्जोऽभवन्निजं क्षेत्रं गन्तुं श्रीकुङ्कुमाक्षरम् ॥१ ३॥ तावत्तत्र समायातो राजा कच्छप्रदेशजः ।
नाम्ना माधवरायेति प्रार्थयत् परमेश्वरम् ॥१४॥ नारायणसरस्तीरं पावयितुं च कच्छकम् ।
भुजङ्गनगरं पावयितुं चार्थयदीश्वरम् ॥१५॥ तथा महर्षयो नारायणसरोनिवासिनः ।
धर्ममोक्षायनाद्याश्च प्रार्थयन् परमेश्वरम् ॥१६॥ हरिस्तथाऽस्त्विति प्राह प्रस्थितस्तैः समं तदा ।
सर्वैः प्रस्थापितः सिन्धुभूभृद्भिः स्वीयसज्जनैः ॥१७॥ स्वकीयेन विमानेन विदायमानमानितः ।
अम्बरेण यथा तूर्णमाययौ कच्छभूतलम् ॥१८॥ नारायणसरस्तीरेऽवातरत् स विमानतः ।
सस्नौ कृत्वा परं तीर्थं पावनं परमेश्वरः ॥१ ९॥ तीर्थतीरे निषसाद यावत्तावत्तु शङ्करः ।
आययौ पार्वतीयुक्तो भ्रमन् कच्छे तु पश्चिमात् ॥4.45.२०॥ श्वेतरूपं धरन् शिष्यैश्चतुर्भिः सह मानसैः ।
सनन्देन नन्दनेन विश्वनन्दनकेन च ॥२ १॥ उपनन्देन सहितः सद्योजाताऽभिधो हरः ।
अनादिश्रीकृष्णनारायणश्रीपुरुषोत्तमम् ॥२२।
पुपूज दण्डवत्तत्र प्रणनाम मुहुर्मुहुः ।
तुष्टाव परमात्मानं मोक्षदं लोकरक्षकम् ॥२३॥ नारायणहरे कृष्ण पावितं श्रीसरोवरम् ।
तव नाम्ना परां ख्यातिं यथा गच्छेत् तथा कुरु ॥२४॥ हरिर्जगाद विश्वेशं शम्भो नारायणं सरः ।
श्रीसरश्चेति यत् पूर्वं नारायणसरोऽधुना ॥२१॥ ख्यातिं यास्यति चैतद्वै पुरोर्वश्या तु पावितम् ।
ऊर्वशीतीर्थमेतच्च चटकातीर्थमित्यपि ॥२६॥ श्रीतीर्थं च तथा सद्योजाततीर्थं प्रमुक्तिदम् ।
नारायणमहातीर्थं भविष्यति न संशयः ॥२७॥ वासोऽत्र ते महादेवसद्योजात भवत्विति ।
सद्योजातमहातीर्थं तव नाम्ना भविष्यति ॥२८॥ कालान्तरे च ते नामान्यपराणि शुभानि वै ।
भविष्यन्तीति तीर्थं तत् कोटीश्वरं भविष्यति ॥२९॥ इत्युक्त्वा भगवान् शम्भुं निवासाय सरस्तटे ।
आज्ञां चकार तत्रैव शम्भुर्वासं सदाऽकरोत् ॥4.45.३०॥ तावत्तत्र समायाता दिव्या गौः श्वेतलोहिता ।
चतुःशृङ्गी चतुर्वक्त्रा चतुष्पादा चतुर्मुखी ॥३ १ ॥ चतुर्हस्ता चतुर्नेत्रा चतुर्दंष्ट्रा चतुःस्तनी ।
ननाम पादयोस्तूर्णं व्योम्ना चागत्य वै पुरः ॥३ २॥ कृष्णनारायणपादतले लिलेह जिह्वया ।
हरिर्वारि ददौ तस्यै जिह्वायां सा पपौ द्रुतम् ॥३३॥ कुमारी साऽभवत्तत्र विश्वरूपा सरस्वती ।
तुष्टाव परमात्मानं श्रीपतिवल्लभन्निजम् ॥३४॥ नमोऽनादिकृष्णकान्त रमाकान्त च ते नमः ।
नमः श्रीमाणिकीकान्त लक्ष्मीकान्त च ते नमः ॥३५॥ नमः सरस्वतीकान्त राधाकान्त च ते नमः ।
सुखदाश्रीकान्त पद्मावतीकान्त च ते नमः ॥३६ ॥ अहं शक्तिर्भवान् शक्तः कृष्णाऽहं कृष्ण ते नमः ।
अहं भगवती भार्या भगवाँस्त्वं पतिः प्रभुः ॥३७॥ तपस्तप्तं समायाता गोलोकात्तु तवाऽऽज्ञया ।
पावनीं मां समाज्ञाप्य स्थापयाऽत्र सरस्तटे ॥३८॥ तीर्थं त्वत्र हरे कृष्ण मन्नाम्नाऽपि विधेहि च ।
तथाऽस्त्विति हरिः प्राह बद्रिके तां सरस्वतीम् ॥३९॥ अस्थापयत् सरस्तीरे महाधेनुं सरस्वतीम् ।
नारायणसरस्तीरे तीर्थं सारस्वतं शुभम् ॥4.45.४० ॥ पावनं सर्वलोकानामभवत् स्नानमात्रतः ।
ज्ञानदं चात्मबोधादिप्रदं ब्रह्मावबोधदम् ॥४१ ॥ तस्या नामानि भगवाँश्चकार पावनान्यपि ।
गोपी माया च विद्या च कृष्णा हैमवती सती ॥४२॥ प्रधाना श्रीः प्रकृतिश्च विश्वमाता नरायणी ।
महेश्वरी श्वेतरक्ता द्वादशेति शुभानि वै ॥४३॥ एवं नामानि सम्प्राप्य तीरे साऽपि तिरोऽभवत् ।
तावत्तत्रापि पुरुषः स्वर्णवर्णः समाययौ ॥४४॥ सहस्रशीर्षा विश्वात्मा सहस्राक्षः सहस्रपात् ।
सहस्रबाहुः सर्वज्ञः सर्वदेवमयः प्रभुः॥४५॥ सकौस्तुभः शङ्खचक्रगदापद्मादिहेतिमान् ।
तुष्टाव दण्डवत् कृत्वाऽनादिकृष्णनरायणम् ॥४६॥ नमोऽनन्तस्वरूपाय सर्वकारणचारिणे ।
परेशाय परकृष्णस्वरूपाय च ते नमः ॥४७॥ परब्रह्मणे कृष्णाय परमेशाय ते नमः ।
वासुदेवेश कृष्णेश नारायणेश ते नमः ॥४८॥ ब्रह्मेशसर्वमुक्तेशाऽक्षरेश ते नमो नमः ।
सर्वधामाधिपतये नमस्ते परमात्मने ॥४९॥ मादृशा विष्णवोऽनन्ता उद्भवन्ति मदंशतः ।
तं वन्दे परमेशेशेश्वरेश्वरेश्वरेश्वरम् ॥4.45.५०॥ भगवन् सर्वदेवेश कालमायेश सर्वदा ।
तीर्थे नारायणसरोवरे त्वत्पादपाविते ॥५१ ॥ सद्योजातेन देवेन स्थातुमिच्छामि सर्वदा ।
मामत्र स्थापय कृष्ण लोककल्याणहेतवे ॥९२॥ तथाऽस्त्वेवं हरिः प्राह विष्णुर्वासं सदाऽकरोत् ।
कृष्णनारायणस्तस्मै स्थापयामास पिप्पले ॥५३॥ सहस्रशीर्षप्लक्षाख्यं तीर्थं तत्परमं ह्यभूत् ।
तीरोऽभवत् प्लक्षवृक्षे विष्णुः सनातनः प्रभुः ॥५४॥ अथाऽऽययौ व्योमदेशात् श्मश्रुलः पुष्टरूपवान् ।
हिरण्यगर्भः सर्वात्मा सर्वसृष्टिप्रबीजवान् ॥५५॥ भर्ता हर्ता जगत्कर्ता ब्रह्मा सर्वाण्डसर्जकः ।
नेमे नारायणकृष्णं पपात पादयोस्तथा ॥५६॥ तुष्टाव स्वागतं प्राप्तः श्रीपतिङ्कृष्णकेशवम् ।
हरिकृष्ण हरिविष्णो कृष्णनारायणप्रभो ॥५७॥ सर्वस्वामिन् सर्वधामिन् सर्वशक्तिप्रदायक ।
सर्वरक्षाविधातस्त्वं नारायणोऽत्र चागतः ॥५८॥ कल्याणार्थं तु लोकानां तीर्थानां पावनाय च ।
नारायणे सरस्यत्र शम्भुर्विष्णुः सरस्वती ॥५९॥ यथा वासं व्यधुस्तद्वद् वासं मे रोचतेऽपि च ।
आज्ञापय प्रतिष्ठां मे कुर्वत्र भगवन्निह ॥4.45.६०॥ तथाऽस्त्वेवं हरिः प्राह बद्रिके परमेष्ठिनम् ।
ब्रह्मा तत्र पलाशे तु द्रुमे वासं तदाऽकरोत् ॥६१ ॥ रक्तवस्त्रोऽभवद् वृक्षो रक्तपुष्पावशोभितः ।
पावनः सर्वलोकानां यज्ञानामुपकारकृत् ॥६२॥ एवं देवा अवसन् वै लोककल्याणकारिणः ।
बद्रिके च ततस्तत्राश्चर्यं परममद्भुतम् ॥६३॥ अभवद् तत् दिव्यरूपं समाकर्णय शोभनम् ।
शबलाश्वाश्चहर्यश्वाः पुत्रा वै वेधसः पुरा ॥६४॥ नारदस्योपदेशेन वैराग्यं समुपाश्रिताः ।
सप्तदशसहस्राणि तपोऽर्थं तत्र ये स्थिताः ॥६५॥ सर्वे नारायणङ्कृष्णं प्राप्य तत्र पुरोऽभवन् ।
तापसा जटिलाः शुष्काः करमालाविराजिनः ॥६६॥ कृष्णनारायणस्वामिनारायणजपान्विताः ।
प्रसन्नमानसा दिव्यतेजःपरिधिशोभनाः ॥६७॥ प्रत्याहृतेन्द्रियवेगा ब्रह्मचर्यपरायणाः ।
शान्ता निर्गुणराधेशस्मरणे धृतमानसाः ॥६८॥ बालस्वरूपिणश्चापि पुष्टा यौवनशालिनः ।
सङ्कीर्तनं प्रकुर्वन्तः कूर्दयन्तोऽतिहर्षिताः ॥६९॥ करतालैः कृष्णनारायणस्वामीतिवादिनः ।
अहो अहो हरे कृष्ण कृष्णनारायण प्रभो ॥4.45.७०॥ कल्याणकृन्महाकृष्णनारायण विभो प्रभो ।
एवं रटन्तः श्रीकृष्णनारायणं ह्युपस्थिताः ॥७१ ॥ प्रणेमुर्दण्डवद्भक्त्या धूलीं ते शिरसि न्यधुः ।
धूल्यामालोटयन्तस्ते कृष्णपादजलं पपुः ॥७२॥ तुष्टुवुः श्रीहरिं तत्र एवम् हृदयार्पणैः ।
नारायणहरे कृष्ण मोक्षार्थं वयमागताः ॥७३॥ भवान् मोक्षप्रदश्चास्ते देहि मोक्षं भवार्णवात् ।
वयं सर्वे ब्रह्मपुत्राः शिष्या नारदयोगिनः ॥७४॥ प्रतीक्षमाणाः श्रीकृष्णं वसामोऽत्र जपान्विताः ।
दैवाद् वा कृपया कृष्णनारायण भवानिह ॥७५॥ नो मोक्षार्थं समायातो देहि मोक्षपदं परम् ।
श्रुत्वा प्राह हरिस्ताँस्तु मोक्षं ददामि शाश्वतम् ॥७६॥ ब्रह्मतुल्याः समर्थाः स्थ नैकरूपधराः पराः ।
तापसा मन्नियोगेन मूलरूपैस्तु सर्वथा ॥७७॥ दिव्यतां मुक्ततां प्राप्य यान्तु धामाऽक्षरं मम ।
द्वितीयस्तु स्वरूपैवैं तिष्ठन्तु चांशतस्त्विह ॥७८॥ नारायणपरा नित्यं देवसेवापरायणाः ।
तीर्थस्य मुनयो भूत्वा तिष्ठन्त्वत्र सदा स्थिराः ॥७९॥ इत्युक्ता बद्रिके ते तु द्वेधारूपास्तदाऽभवन् ।
अंशतो मुनिरूपास्ते मूलतो मुक्तरूपिणः ॥4.45.८० ॥ मुनिरूपा न्-यवतैंस्ते नारायणसरस्तटे ।
मुक्तरूपा दिव्यरूपा चागते सुविमानके ॥८ १ ॥ पार्षदैर्दिव्यदेहैस्ते निषद्याऽक्षरधाम मे ।
प्रययुर्मुक्ततां प्राप्ताः शाश्वतानन्दभोजिनः ॥८२॥ कृपया मे समस्तास्ते जाता मत्समशक्तयः ।
एवं हि बद्रिके कृष्णनारायणो नरायणान् ॥८३॥ मादृशान् सर्वथा कृत्वा ततस्तीर्थस्थितान् जनान् ।
पावयित्वा प्रदायाऽपि दानवस्तु यथेष्टकम् ॥८४॥ तीर्थोत्तमं सरः कृत्वा निषद्य स्वविमानके ।
भुजङ्गनगरे सायं प्राययौ राजवाटिकाम् ॥८५॥ अवातरद् विमानं तु तदा वै राजवाटिका ।
शृङ्गारिताऽभवत् तूर्यनिनादैरभिगर्जिता ॥८६॥ सम्मानकरलोकैश्च तथा राजकुटुम्बिभिः ।
प्रजाभिः स्वागतार्थं सा वाटिका सङ्कुला ह्यभूत् ॥८७॥ हरिर्विमानतस्तत्र यदा वै बहिराययौ ।
लक्षशो वै जना नार्यो नराश्चन्दनपुष्पकैः ॥८८॥ कुङ्कुमाऽक्षतवर्षाभिर्वर्धयामासुरच्युतम् ।
जयशब्दैर्महाहर्षकृतैर्नारायणाभिधैः ॥८९ ॥ स्वागतं श्रीहरेश्चक्रुर्बद्रिके राष्ट्रमानवाः ।
घटिकामात्रमेवादौ स्थितो विमानकाग्रके ॥4.45.९ ०॥ दत्वा स्वदर्शनं कृष्णो विवेश नृपमन्दिरम् ।
राजा माधवरायश्च राज्ञी कल्याणिका सती ॥९ १ ॥ पुपूजतुः परेशं तं पपतुः पादवार्यपि ।
पूजयित्वोपचारैश्च मुकुटाद्यैश्च भूषणैः ॥९२॥ वेषैश्चातिप्रमूल्यैश्च स्वर्णरत्नादिहीरकैः ।
मणिभिः स्वर्णमुद्राभिः प्रपूज्याऽऽरार्त्रिकं ततः ॥९ ३॥ व्यधातां भावभिन्नौ तौ राज्यवर्गास्ततः परम् ।
पुपूजुः परमात्मानं यथार्हभूषणादिभिः ॥९४॥ आरार्त्रिकं प्रचक्रुस्ते तुष्टुवुः परमेश्वरम् ।
संसाराद् भगवन् कृष्ण जीवान्नस्तारयप्रभो ॥९५॥ साक्षात्तव प्रसङ्गेन यदि दिव्या वयं नहि ।
तदा केषां प्रसङ्गेन वयं दिव्या भवेमहि ॥९६॥ श्रुत्वा हरिस्तु तान्प्राह सतां सङ्गेन दिव्यता ।
भविष्यति न सन्देहो मोक्षो वश्च भविष्यति ॥९७॥ मया नारायणतीर्थे रक्षिताः शबलाश्वकाः ।
हर्यश्वका ब्रह्मपुत्राः साधवस्ते मदाश्रयाः ॥९८॥ मत्तो मन्त्रं च सम्प्राप्ता भजन्ते मां निरन्तरम् ।
‘ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा’ ॥९९॥ एवंविधं तु मे मन्त्रं दास्यन्ति वो विधानतः ।
तत्र यूथं प्राप्य तीर्थं प्रयास्यथ परं पदम् ॥4.45.१ ००॥ सज्जा भूत्वा तीर्थविधिं कृत्वा नत्वा च तान् सतः ।
सेवित्वा तान् भजनेन प्रयास्यथ परं पदम् ॥१०१ ॥ ये सज्जास्तैः प्रगन्तव्यं मोक्षार्थं चानिवर्तिनम् ।
इत्युक्त्वा बद्रिके कृष्ण उषित्वैकनिशां सुखम् ॥१ ०२॥ भोजनं पूजनं लब्ध्वा राज्ञे राज्ञ्यै मनुं निजम् ।
दत्वा सेवां परां प्राप्य प्रातरुत्थाय माधवः ॥१० ३॥ नैजं विमानमारुह्य ययौ कुङ्कुमवापिकाम् ।
विश्रान्तिं परमां प्राप्तो नारायणपरेश्वरः ॥१ ०४॥ सिन्धुवार्तां कच्छवार्तां चकार जनसंसदि ।
स्नानपूजाभोजनादि चक्रे शान्तिमवाप ह ॥१० ५॥ इत्येवं बद्रिके कृष्णनारायणः श्रियाः पतिः ।
दिव्यं चरित्रं सुभगं मोक्षदं प्रचकार ह ॥१ ०६॥ सर्वं ते कथितं रम्यं स्वर्गमोक्षप्रदं शुभम् ।
पठनाच्छ्रवणादस्य स्मरणान्मुक्तिभाग् भवेत् ॥१ ०७॥ अपि पापो विचित्तश्च धर्मवर्जित इत्यपि ।
श्रुत्वा लब्ध्वा गुणं यच्छेत् स्वर्गं दिव्ययुगायुतम् ॥१ ०८॥ का कथा तु तदाऽन्यस्य सेविनो भक्तियोगिनः ।
यथेष्टं श्रीकृष्णनारायणो दद्यात् कृपाकरः ॥१ ०९॥ इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने कच्छनृपतिर्माधवरायो हरिं कच्छमानियाय, हरिर्नारायणसरसि शिवविष्णुवेधःसरस्वतीनां तीर्थानि कृतवान्, शबलाश्वहर्यश्वानां द्वेधा रूपाणि कारयित्वा तीर्थे वासं मोक्षणं च दत्तवान्, भुजङ्गनगरे माधवरायनृपतिकुटुम्बं पावयित्वा कुङ्कुमवापीमाययौ चेति निरूपणनामा पञ्चचत्वारिंशोऽध्यायः ॥४५ ॥