०३७

श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि श्रुत्वा तत्कन्यकावचः ।
बद्रिकायनमुनिराट् कन्यका मोहवर्जिताः ॥१ ॥ निश्चिकाय तिरोभूय ययौ तासां गृहं प्रति ।
मम् तासां भ्रातरस्तु रथ्यामार्जनकर्मिणः ॥२ ॥ कुर्वन्ति मार्जनं तत्र गत्वा रुरोद वै ऋषिः ।
दृष्ट्वा तं संरुदन्तं ते पप्रच्छुः कारणं तदा ॥३ ॥ उवाचर्षिर्महादुःखभृतः श्वासं मनाग् धरन् ।
अहोहो बह्वनिष्टं व ममाश्रमस्य सन्निधौ ॥४ ॥ सञ्जातं त्वद्य वच्म्यत्र श्रोतव्यार्हं न विद्यते ।
राक्षसाः पञ्च चायाता मम कुट्याः समीपतः ॥५ ॥ कृत्रिमौज्ज्वल्यसम्पन्ना महामोहकराः खलाः ।
कारेलिकायाः पञ्चापि कन्यका वव्रिरे तु तान् ॥६ ॥ राक्षसास्ता द्रुतं नीत्वा ययुश्चाब्धितलालयम् ।
अहोऽनिष्टं परं जातं भक्तायाश्चातिदुःखकृत्॥७ ॥ शशाकाऽहं न तत्सोढुं ज्ञापनार्थमुपागतः ।
श्रुत्वैतत् पञ्च सबलाः सहोदराः सहायिनः ॥८ ॥ कारयन्तु कन्यकानां स्वसृणां मोक्षणं ततः ।
अहो मोहः कन्यकानां शवादानां स्त्रियोऽभवन् ॥९ ॥ इत्युक्त्वा बहुधा साधुः शुशोच भ्रातृसन्निधीौ ।
भ्रातरस्ते वीक्ष्य चैतद् ऋषिं प्राहुस्तदोत्तरम् ॥4.37.१ ०॥ ऋषे ते दर्शनादद्य जन्मसाफल्यमेव नः ।
स्वसॄणां जन्मसाफल्यं यद् भवदाश्रमान्तिके ॥११ ॥ भवतो दर्शनं कृत्वा पतिप्राप्तिं गतास्तु ताः ।
भवता वीक्षिताश्चापि शौचिता मुक्तयेऽपि च ॥१ २॥ राक्षसा अपि ऋषिराड् भवता तु निभालिताः ।
भवत्प्रतापतस्तेऽपि भविष्यन्ति महर्षयः । १२ ॥ कन्यकाः पञ्च एवापि वैष्णव्यः सन्ति धार्मिजाः ।
धर्मवत्यश्च पावन्यः पापिनां मोक्षदा अपि ॥१४॥ रक्षसामपि तासां सम्प्रसङ्गेन प्रमोक्षणम् ।
भविष्यति न सन्देहस्तत्र शोको न विद्यते ॥१५॥ कन्यारत्नं प्रदातव्यं यस्मै कस्मै तु कर्मिणे ।
कर्मबन्धेन जायन्ते पत्न्यश्च पतयस्त्विह ॥१६॥ तासां भाग्येषु पुरुषा राक्षसा लिखिता यदि ।
पतयस्ते प्रजाता वै तत्र का परिवेदना ॥१७॥ कन्याधनं परकीयं पुंसापेक्षं सदा मतम् ।
तज्जातं समये तासां तत्र का परिवेदना ॥१८।
शरीराणि समस्तानि समविकृतिवन्ति वै ।
भौतिकानि भवन्त्येव तत्र का परिवेदना ॥१९॥ पुमान् वा यदि वा नारी मूत्रमलादिविकृतिः ।
सर्वत्र सदृशी वेदी तत्र का परिवेदना ॥4.37.२०॥ यदि नारायणं कृष्णं भजत नहि मानवः ।
विप्रोऽपि राक्षसो बोध्यस्तत्र का परिवेदना ॥२ १ ॥ राक्षसोऽपि हरेर्योगं भक्तयोगं च विन्दति ।
विप्रः स एव भक्त्याढ्यस्तत्र का परिवेदना ॥२२॥ सर्वे भक्तिं विना देवा मानवाश्च महर्षयः ।
वर्ष्ममोहपरा वर्ष्मभोक्तारो राक्षसा मताः ॥२३॥ देहेन्द्रियाणां भोगाँस्तु त्यक्त्वाऽऽत्मवेदिनस्तु ये ।
अन्तरात्मपरासक्तास्त एव ऋषयो मताः ॥२४॥ येषां सर्वमिदं कृष्णमयं कृष्णशरीरकम् ।
कृष्णान्वितं समस्तं वै तेषां दैवित्वमुच्यते ॥२५॥ येषां रूपे रसे स्वादे कामे देहे च वासना ।
भेददृष्टिर्वर्ततेऽपि ते नरा राक्षसास्त्विह ॥२६॥ भक्तिमत्यः कन्यकास्ता आत्मनिवेदनान्विताः ।
सन्ति महाभागवत्यस्तासां सङ्गं गतास्तु ये ॥२७॥ तासु भावपरा ये च तासु रक्ताश्च ये नराः ।
तासु स्नेहपरा जाता दैवास्ते न तु राक्षसाः ॥२८॥ परकीयं धनं सर्वं परहस्ते गतं भवेत् ।
सहसा वाऽर्पितं वापि प्रसह्याऽपि गतं भवेत् ॥२९॥ गतं काले यथारेखं तत्र का परिवेदना ।
संसारस्य गतिश्चेयं कन्याऽन्यस्मै प्रदीयते ॥4.37.३०॥ तारतम्यं ततः स्नेहे दम्पत्योर्व्यज्यते ह्यनु ।
मिथः स्नेहे विवृद्धे तु सुखं तयोः प्रजायते ॥३१ ॥ स्वर्गं दैवाधिवासार्हं तद्गृहं प्रोच्यते तयोः ।
यदि स्नेहो मिथो नैव जायते नैव वर्धते ॥३२॥ वैमनस्यं कलहश्च नरकं तत् सदा त्विह ।
स्थितिश्चैतादृशी यत्र रक्षोधर्मास्तु तत्र वै ॥३३॥ प्रायशः खलु सृष्टौ वै रक्षोधर्मा भवन्ति हि ।
एकत्रोत्पद्यते सर्वं पोषणं चैति भौतिकैः ॥३४॥ भुज्यते त्वपरेणैतत् फलकन्याधनादिकम् ।
स्वसृमातृव्यवहाराः सापेक्षा निर्मितास्त्विह ॥३५॥ कन्या चेद् राक्षसं भक्त्या वृणुते तन्मनस्विनी ।
तां तु निवारयितुं न शक्तः कश्चिद् भवेदिह ॥३६॥ कन्या चेत् विमना देवे दत्तापि न सुरैषिणी ।
प्रेषयितुं न तां शक्तः कश्चिद् भवेत् स्वयंवराम् ॥३७॥ यत्र मनो गतं लग्नं यस्याः स एव तत्पतिः ।
अलग्नं तु मनो यत्र तत्र स्वामित्वमेव न ॥३८॥ एवं स्थितेऽत्र संसारे नः काऽत्र परिवेदना ।
महर्षे त्वं वृथा शोकं कुरुषे विषमे वृषे ॥३९॥ भोग्यं भोक्ता भुनक्त्येव भोग्यं भोक्तारमृच्छति ।
तत्र कः शोकः को मोहः का तत्र वेदनाऽपि च ॥4.37.४०॥ स्वागतं तेऽर्हणं ब्रह्मन् गृहाण भोजनादिकम् ।
मधुपर्कं गृहीत्वाऽपि पावयित्वा च नस्त्विह ॥४१॥ मध्वाशीर्भिर्नः प्रयुज्य याहि विद्वन् यथागतम् ।
मा मोहं च शुचं विद्वन् याहि निसर्गसर्जने ॥४२॥ करिष्यामो यथायोग्यं तत्र का परिवेदना ।
इत्युक्तो बद्रिके भ्रातृभिश्चर्षिर्विस्मयं गतः ॥४३॥ निर्मोहा भ्रातरः सर्वे निश्चिकाय शमं ययौ ।
अथर्षिर्मातरं गत्वा कन्यकानां जगाद ताम् ॥४४॥ अहो पुत्रा निर्दयास्ते निर्घृणा स्वसृशत्रवः ।
स्वसॄणां चापहरणे राक्षसैर्विहितेऽपि ते ॥४५॥ प्रबोधिता मया चापि साहाय्यार्थं न यान्ति वै ।
प्रत्युत ज्ञानवन्तस्ते निवारयन्ति मामपि ॥४६॥ स्वसृभावं मनाङ् नैव विज्ञापयन्ति लौकिकम् ।
शुष्कहृदयभावास्ते शृण्वन्ति नापदं तव ॥४७॥ शृणु मातर्महानिष्टं सम्भूतं मत्पदाश्रये ।
राक्षसैस्ते कन्यकानां प्रसह्य हरणं कृतम् ॥४८॥ अत्यनिष्टं हि तज्जातं मातर्मोचय पुत्रिकाः ।
शोचाम्यहं तदर्थं वै सन्निधौ ते समागतः ॥४९॥ विना तु रक्षणं तासां नाशो वा स्यात्तु राक्षसैः ।
भोगं वा प्रमदानां ते करिष्यन्ति स्वकीयवत् ॥4.37.५०॥ यद्वा मुग्धाः स्वपत्नीत्वं करिष्यन्ति न संशयः ।
याहि शीघ्रं रक्षणार्थं सह चायाम्यहं द्रुतम् ॥७ ॥ इत्युक्ता बद्रिके माता कारेलिका मुनीश्वरम् ।
शोचन्तं फुत्कारयुक्तं शिरोहस्तद्वयं तदा ॥५२॥ प्राह मुने कथं कन्याकृते शोकं करोषि वै ।
न ते कन्या न ते योगः सम्बन्धस्ते न विद्यते ॥५३॥ संसारोत्तीर्ण एवासि कथं संसरसि क्षये ।
अविनाशं निजात्मानं स्मर संसारवर्जितम् ॥५४॥ अस्मादृशीनां संसारः सोऽपि यावन्निजार्थकः ।
भवादृशानां संसारश्चाऽसारः सर्वदा मतः ॥५५॥ तत् कथं मुनिराट् चिन्तयसि स्त्रीजनचेष्टनम् ।
कन्यका यास्तु ताः कालान्तरे यास्यन्ति भोग्यताम् ॥५६॥ पत्नीत्वं परकीयात्वं परे तु मानवाः सुराः ।
यद्वा दैत्या राक्षसा वा नरा वै पतयो मताः ॥५७॥ यथा भाग्यं तथा जातं जायतेऽपि तथैव हि ।
पूर्वसञ्चितवेगेन जायन्ते गृहमेधिनः ॥५८॥ यदर्थं निर्मिता कन्या पतिः स एव तिष्ठति ।
अनिर्मितो न वै स्वामी कदाचिदपि जायते ॥५९॥ राक्षसाः पतयस्तासां निर्मिता यदि सन्ति चेत् ।
लब्धवन्तः रुन्यकास्तास्तत्र का परिवेदना ॥4.37.६०॥ याहि विद्वन् ब्रह्ममार्गं भ्रममार्गं तु मा वह ।
मोहं मा कुरु पारक्ये दैहिके वाऽप्यदैहिके ॥६१ ॥ प्ररक्षितं गृहे द्रव्यं परकीयं भवेद् यदि ।
पारक्यं परहस्ते तद् यथाभाग्यं गमिष्यति ॥६२॥ परित्यक्तं जने द्रव्यं स्वकीयं चेद् भवेद् यदि ।
स्वत्ववन्निजहस्ते तत् प्रसह्यैवागमिष्यति ॥६३॥ अब्ध्युद्भवा घनाश्चापि रत्नानि मौक्तिकान्यपि ।
भाग्यवतां गृहे राष्ट्रे प्रयान्त्यम्बरमार्गतः ॥६४॥ गृहोद्भवाः कुमारा वा कुमार्यो यतिधर्मगाः ।
भाग्यवशात् प्रयान्त्येव वनारण्यगुहादिकम् ॥६५॥ नारिकेलफले वारि प्रच्छन्नमपि रोहति ।
दीयमानमपि वारि कमले नाधिरोहति ॥६६॥ तस्मात् पूर्वकृता योगा भवन्ति नरयोषिताम् ।
तथा जाताः कन्यकानां तत्र का परिदेवना ॥६७॥ मया सृष्टाः कन्यकास्ता बद्रीफलार्थमुत्सुकाः ।
स्वयं यात्रा धृतास्तत्र परैः का परिवेदना ॥६८॥ कन्यकात्वं ध्रुवं नास्ति मातृगृहं ध्रुव न च ।
परगृहं सुतरां न ततः का परिवेदना ॥६९॥ ईक्षणं न ध्रुवं चास्ते परीक्षा न ध्रुवा तथा ।
परीक्षको ध्रुवो नास्ति ततः का परिवेदना ॥4.37.७०॥ याहि विद्वन् कुटीं नैजां मा मोहं याहि तत्कृते ।
करिष्ये कारयिष्ये वा योग्यं मत्कन्यकाकृते ॥७१॥ इत्येवं बोधितो विप्रो महाश्चर्यपरोऽभवत् ।
कन्यकावद् भ्रातरश्च माताऽपि मोहवर्जिता ॥७२॥ अथ यामि पितरं वै कथयामि नियोजितम् ।
विचार्येत्थं शुष्कमनाः शोकोद्गारपराहतः ॥७३॥ निस्तेजा इव सम्भूत्वा कन्यानां जनकं ययौ ।
पीटयामास हस्ताभ्यां कपोलौ भालगण्डकौ ॥७४॥ मुमोचाऽश्रूणि बहूनि परं शोकं त्वदर्शयत् ।
आश्वासितो दयायुक्तैवाक्यैर्धैर्यं प्रदापितः ॥७५॥ पित्रा शनैश्च सम्पृष्टः कारणं प्रति भूसुरः ।
उवाच हिक्कासहितः कम्पयन् मस्तकं निजम् ॥७६॥ अहो दुःखमहो कष्टमहो न्यायविवर्जितम् ।
मया दृष्टं निर्घृणाढ्यं कन्यकानां मदन्तिके ॥७७॥ ममाश्रमे पञ्चभिश्च रक्षोभिः प्रबलैर्द्रुतम् ।
कृतं त्वपहरणं वै निर्बलानां प्रसह्य तु ॥७८॥ रक्षणार्थं द्रुतं तासां समागच्छ विभञ्जन! ।
त्वं पिता रक्षकस्तासां शीघ्रं कुरु मया सह ॥७९॥ विभञ्जनाभिधो रथ्यामार्जकः प्राह तं मुनिम् ।
स्वागतं मुनिराट् तेऽस्तु धन्यवादं ददामि ते ॥4.37.८०॥ वैराग्यमार्गवासस्य रागचेष्टाविधायिनः ।
त्यक्तकुटुम्बयोगस्य परार्थयोगशोकिनः ॥८ १॥ वृथा मोहगतस्याऽत्र चात्मारामस्य रोगिणः ।
किं ते गतं कन्यकानां गमने राक्षसैः सह ॥८२॥ कन्याहस्तग्रहाः सर्वे राक्षसा मानवा भुवि ।
नरहस्तग्रहा नार्यो राक्षस्यस्तास्तथा भुवि ॥८३॥ त्यक्तलज्जाधर्मकर्माणो ये ते राक्षसा मताः ।
पत्न्यश्च पतयस्तद्वन्नग्ना वै राक्षसाः सदा ॥८४॥ कुणपे स्नेहवन्तो ये मूत्रगोलकलुब्धकाः ।
मिथो युज्यन्त उद्वृत्ताः प्रच्छन्ना राक्षसास्तु ते ॥८५॥ देहोऽयं राक्षसः प्रोक्तः परदेहस्य भक्षकः ।
मुने संसारवेलातो बहिश्चासि प्रयाहि वै ॥८६॥ स्वखेदं कुरु विप्रेन्द्र राक्षसत्वविमुक्तये ।
परखेदपरत्वे तु विशेषो राक्षसात्तु कः ॥८७॥ कर्मणा योगमासाद्य वियोगं यान्ति कर्मभिः ।
कर्मसम्बन्धिसंसारे का ते मे परिवेदना ॥८८॥ पूजां गृहाण विप्रेन्द्र भोजनं कुरु भावतः ।
वासं विधेहि विश्रान्तिं शान्तिं गृहाण मा शुचः ॥८९॥ सर्वं कालवशं लोके जायते चोपतिष्ठति ।
काले गते पुनस्तद्वै वियुज्यते न तिष्ठति ॥4.37.९०॥ यथायोग्यं तु सत्कारं लब्ध्वा याहि निजालयम् ।
त्यक्ताऽहम्ममताभावे कथं शोकस्त्वयि स्थितः ॥९१॥ देहोऽयं भोग्य एवाऽस्ति भोगस्थानं सदाऽऽत्मनः ।
आत्मा भुङ्क्ते निजं मत्वा देहं देहान्तरं च वा ॥९२॥ भोगो मोहः परः प्रोक्तो निर्भोगो मोहवर्जिता ।
सुखदुःखैकसाक्षात्कारस्तु भोगो हि मन्यते ॥९३॥ मुने मा तेऽस्तु मुक्तस्य मा मां योजय तत्र च ।
निरञ्जनोऽस्मि ना चास्मि मोहभञ्जनकोऽस्मि च ॥९४॥ कन्यकानां न मे मोहस्ते कथं वर्तते त्विह ।
अलक्ष्ये मोहनं ते मे विज्ञापयति कृत्रिमम् ॥९५॥ शोकं सन्दर्शयसेऽत्र याहि योगिन् यथागतम् ।
विधास्ये रक्षणं योग्यं स्वस्ति ते मेऽस्तु सर्वथा ॥९६॥ इत्युक्त्वा भञ्जनः शूद्रो भोजनादि समार्पयत् ।
तावत् ताः कन्यकास्तत्र पक्वबद्रीफलानि तु ॥९७॥ सङ्गृह्य त्वागतास्तूर्णं सर्वाः प्रसन्नमानसाः ।
पृष्टास्ता भ्रातृभिर्मात्रा पित्रा तथाऽन्यमानवैः ॥९८॥ राक्षसोपद्रवे तास्तु श्रुत्वा तं बद्रिकायनम् ।
असत्प्रलापिनं ज्ञात्वा मुनिधर्मच्युतं तथा ॥९९॥ अस्थानकृतजिज्ञासं शेपुर्मूको भवाऽधुना ।
इत्युक्ते मूकतां साधुरव्रजद् वाग्विदूषणैः ॥4.37.१ ००॥ प्रार्थयामास मनसा निर्मोहिकन्यकास्तथा ।
मातरं पितरं भ्रातॄनर्थयामास भाषणम् ॥१०१ ॥ दयापरा धर्मधर्त्र्यः कृष्णकान्तपरायणाः ।
कुटुम्बिनः समस्तास्ते चक्रुर्निर्मूकतां मुनेः ॥१०२॥ मुनिर्विवेद सर्वेषां निर्मोहित्वं महत्तमम् ।
जिज्ञासायाः स्वयं मोहं त्यक्त्वा नत्वा पुनः पुनः ॥१ ०३॥ मानं हित्वा ययौ पूजां प्राप्य दण्डभयाद् द्रुतम् ।
एवं बद्रौप्रिये देवि कन्यका भ्रातरः पिता ॥१ ०४॥ माता च मोहशून्यास्तेऽभवन् कृष्णपरायणाः ।
निरञ्जनश्च निर्वाणो निर्मोहोऽपि निरीहकः ॥१ ०५॥ निराशयश्च ते पञ्च भ्रातरो नामतः स्मृताः ।
निःस्वरूपा निरभिधा निरन्तरा निरागसा ॥१ ०६॥ निजानन्दा च पञ्चैताः पुत्रिका नामतस्तु ताः ।
सर्वेऽनादिकृष्णनारायणस्य परमात्मनः ॥१ ०७॥ जन्मजयन्त्युत्सवे चैकोनविंशे ययुस्ततः ।
प्रभुं कृष्णं प्रभुं लब्ध्वा पूर्णाशाः पूर्णकामनाः ॥१ ०८॥ बभूवुर्दिव्यरूपाश्च श्रीकृष्णस्य प्रसादतः ॥ हरिं प्रपूज्य भावेन चाऽवतार्य निजान्तरे ॥१०९॥ आगतेन विमानेन चाश्वपट्टसरस्तटे ।
बालकृष्णेच्छया तूर्णं ययुश्चाक्षरमुत्तमम् ॥4.37.११० ॥ एवं बद्रीप्रिये देवि कारेलिकाकुटुम्बिनः ।
बालकृष्णस्य वै भक्त्या बद्रिकायनयोगतः ॥१११ ॥ दिव्यभावं समवाप्य निर्मोहतां प्रगम्य च ।
परं मोक्षं ययुः सर्वे कृष्णकान्तस्य भक्तितः ॥१ १२॥ पठनाच्छ्रवणाच्चास्य मननाच्छ्रवणादपि ।
भुक्तिमुक्त्यौ भवेतां वै कृष्णकान्तकृपालवात् ॥१ १३॥ इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने कारेलिकाशूद्राण्या मार्जयित्र्या निर्मोहित्वपरीक्षायां बद्रिकायनर्षेर्मूकत्वं, शापनिवृत्तिः, पञ्चकन्यकानां पञ्चपुत्राणां पत्युश्च मोक्षणमित्यादिनिरूपणनामा सप्तत्रिंशोऽध्यायः ॥३७ ॥