०३५

श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि शवहर्त्र्याः कथां शुभाम् ।
सौराष्ट्रे मालवग्रामे शवदाहकरी सदा ॥१ ॥ आसीदेका श्वपची वै श्मशानाऽऽवासकारिणी ।
पतिपुत्रसुतायुक्ता सम्बन्धिबान्धवान्विता ॥२ ॥ करोति नित्यमेवेयं श्मशाने शवदाहनम् ।
करं लब्ध्वा करोत्येव निजकर्म स्वभावजम् ॥३ ॥ नित्यं शवानां दाहेन वैराग्यं जायते शुभम् ।
क्षणं वापि चिरं वापि मृतस्य दर्शनात् खलु ॥४ ॥ श्वपच्या मालवान्यास्तु वैराग्यं वर्तते तथा ।
नित्यं शोचति फेरूणां विषये मरणं स्वकम् ॥५ ॥ अहो नित्यं व्यसव्यो वै बाला युवति वृद्धिगा ।
जायन्ते च नरश्चापि बाला युवान ऊद्धर्वगाः॥६ ॥ तथाऽहं मरणं लप्स्येऽकस्मादेव न संशयः ।
पितरौ मे मृतौ चापि श्वशुरौ मे मृतौ तथा ॥७ ॥ राजा वृद्धो मृतश्चापि म्रियन्ते देहिनोऽनिशम् ।
विजेतारो मृताश्चापि वैमानिका मरन्ति च ॥८ ॥ सर्वे नाशं समायान्ति नाशमेष्याम्यहं तथा ।
मृत्युकाले न कान्तोऽपि साहाय्यार्थं बली तदा ॥९ ॥ अन्येषां का कथा तत्र ततः साध्यः सहायदः ।
धर्मः सहायकृल्लोके परलोकेऽपि पार्श्वदः ॥4.35.१ ०॥ सुखं धर्मात् प्रभवति यत्र प्राणी प्रजायते ।
तत्र धर्मः समं याति पुण्याख्यः परमो गुरुः ॥११ ॥ पुण्यं त्वात्मसहायं स्याद् दानजं सेवनादिकम् ।
गोदानं पृथिवीदानं वस्त्रान्नजलदानकम् ॥१ २॥ छत्रोपानच्चामरादिप्रदानं प्रसहायदम् ।
पुष्पपत्रफलदानं भक्ष्यभोज्यप्रदानकम् ॥१ ३॥ गृहदानं वस्तुदानं चोपकरणदानकम् ।
देहदानं पुत्रदानं पुत्रीदानं सुखार्पणम् ॥१४॥ व्रतदानं चात्मदानं कटिदानं प्रमोददम् ।
धनदानं भूषणाद्यर्पणं क्षेत्रप्रदानकम् ॥१५॥ एवंविधानि दानानि सर्वाण्येव महापथे ।
परलोके चाग्रगाणि चोपतिष्ठन्ति सर्वथा ॥१६ ॥ दत्तं तत् प्राप्यते स्वग्रे नाऽदत्तं प्राप्यते क्वचित् ।
तस्मान्मया श्वपच्या वै दातव्यं दानमुत्तमम् ॥१७॥ सत्पात्रं लभ्यते तस्मै दातव्यं श्रेयसे मम ।
विचार्येत्थं श्वपची सा फलान्याहृत्य वै वनात् ॥१८॥ बदराणि चामृतानि कदलानि यथर्तु च ।
कर्मदानि जम्बूफलान्याहृत्य सा ददाति वै ॥१ ९॥ कन्दान् पत्राणि पुष्पाणि मधु मिष्टेक्षुदण्डकान् ।
तथाऽन्यानि पवित्राणि योग्यानि प्रददाति सा ॥4.35.२० ॥ दानं मार्गागतेभ्यो वै यतिभ्यः सद्भ्य इत्यपि ।
उपयुञ्जन्ति सन्तश्च प्रक्षाल्य तत्फलादिकम् ॥२ १ ॥ काष्ठानि मूत्तिकाश्चापि समाहृत्य ददाति सा ।
एवं करोति दानानि वृक्षत्वचां तथा तु सा ॥२२॥ कटानामासनानां च पाषाणानां प्रमर्दिनाम् ।
ओषधीनां च वल्लीनां करोति दानमित्यपि ॥२३॥ अथैवं दानधर्मेण विख्याता मालवानिका ।
अभवन्मालवे ग्रामे दात्रीतिमालवानिका ॥२४॥ दानपुण्यप्रतापेन त्वेकदा धर्मदेवता ।
नारी साध्वी स्वयं भूत्वाऽऽययौ श्वपचीमन्दिम् ॥२५॥ अस्नाताऽभून्मालवानी रजस्वला श्मशानगा ।
शवार्धदाहसम्पन्ना प्रातरेव मलान्विता ॥२६॥ मलिनाया गृहे साध्वी यात्रामार्गेण वै प्रगे ।
समायातैकला काचित् त्यागधर्मवती सती ॥२७॥ वीक्ष्य तां त्यागिनीं साध्वीं त्वेकलां श्रमयोजिताम् ।
सहसोत्थाय चण्डाली ननाम पादयोर्द्रुतम् ॥२८॥ उवाच स्वागतं देवि मातर्नमामि चादरात् ।
यथार्हे समये सेवां करिष्ये रोचते यथा ॥२६॥ अस्म्यहं श्वपची जात्या तत्राप्यस्मि रजस्वला ।
अस्नाता च मलस्यापि विसर्गोत्तरसंस्थिता ॥4.35.३ ० ॥ शवार्धदाहसम्पन्ना श्मशानस्था भवामि च ।
किं करोमि पवित्रायाः सत्या अर्थे वदाऽत्र मे ॥३१
अत्रागतायास्ते सेवा साध्वि यथा भवेन्मया ।
स्वागतार्थं कृपया ते यदहं तन्निवेदय॥३२
प्रसन्ना भव मे साध्वि योग्यं करोमि सन्दिश
भक्ताऽस्मि भावयुक्ताऽस्मि सेविकाऽस्मि करोमि ते ॥३३ ॥ सेवनं योग्यमेवाऽत्र मतं तव करोमि तत्॥ धन्यं भाग्यं मम मातर्दिनं मे सफलं त्विह ॥३५८॥ दर्शनादपि सञ्जात सेवनात्तु विशेषतः ।
भवेदेव तथा मातर्ब्रूहि शीघ्रं करो्मि ते ॥३५॥ इत्येवं प्रार्थितवती भावशुद्धा तु सा तदा ।
धर्मा धर्ममतिं वीक्ष्य प्रसन्नोऽभूत्तदा द्रुतम् ॥३६॥ उवाच तां तदा धर्मदेवता साध्विका सती ।
देहि मे त्वासनं तूर्णं पवित्रं तत्सदा मतम् ॥३७॥ देहि मे चापि पत्राणि तुलस्याः सन्ति ते यदि ।
देहि मे फलपुष्पाणि गृहे ते सन्ति वै यदि ॥३८॥ देहि मे काष्ठपत्राणि सन्ति ते यदि मन्दिरे ।
नैत त्यशुद्धभावानि कदाचित् सन्ति भूतले ॥३९॥ पावनानि सदा सन्ति देहि मे यदि सन्ति ते ।
तिलान् वै सन्ति चेद् देहि तण्डुलकान् प्रदेहि च ॥4.35.४०॥ सम्प्रोक्ष्याऽहं ग्रहीष्यामि पावनान् वै सदा भुवि ।
इत्युक्ता ता भावभिन्ना गत्वा निजं तु मन्दिरम् ॥४१ ॥ आनाय्य प्रददौ साध्व्यै साध्वी सम्प्रोक्ष्य जगृहे ।
वृक्षलये ययौ तत्राऽऽसनं निक्षिप्य चुल्लिकाम् ॥४२॥ कृत्वा सम्पच्य देवेभ्यो वैश्वदेवं बलिं ददौ ।
गवे बलिं ददौ भूतवलिं ददौ ततः परम् ॥४३॥ पितृबलिं ददौ चापि नारायणबलिं ददौ ।
ततो यावत् प्रभोक्तुं वै पत्रावलीप्रपूरणम् ॥४४॥ करोति तावदेवाऽत्र कश्चिदभ्यागतः शुभः ।
आययौ श्वपचो भूत्वाऽर्थयामास तु भोजनम् ॥४५॥ साध्वी तस्मै ददौ तृप्तिप्रदं भुक्त्वा ययौ स हि ।
ततश्चान्या जरठा चाभ्यागता तत्र चागता ॥४६॥ तस्यै साध्वी ददौ ऽ तृप्तिप्रदं सा बुभुजे सती ।
भुक्तवती निषसाद तरोश्छायाश्रये तले ॥४७॥ जपं विदधती कृष्णनारायणेति मालया ।
‘ओ नमः श्रीकृष्णनारायणाय पतये स्वाहा’ ॥४८॥ उच्चारणं करोत्येष मालाकरा तु साध्यिका ।
श्रुत्वा तु पाचिका साध्वी तामपृच्छत् तदा द्रुतम् ॥४९॥ का त्वं किं जपसि श्रीमन्नारायणं हि मालया ।
किं तेन जायते पुण्यं फलं वाऽन्यद् वदाऽत्र मे ॥4.35.५०
अभ्यागता तदोवाच शृणु त्वं पाचिके सति’ ।
मन्त्रेणाऽनेन भगवान् कृष्णनारायणो मिलेत् ॥५१ ॥ श्वपच्यपि च चाण्डाली द्विजतुल्या प्रजायते ।
पावनी सर्ववर्णानां मन्त्रेणाऽनेन चक्रिणः ॥५२॥ मांसादाश्चापि मद्यादाः क्रव्यादाः कुणपाशनाः ।
पूयन्ते मनुना कृष्णदैवतेन न संशयः ।५३॥ यः साक्षात् परमात्माऽस्ति धामेशः पुरुषोत्तमः ।
मलमासोऽपि यद्योगान्निर्मलः पावनोऽभवत् ॥५४॥ मलिना सर्वदा माया निर्मला राधिका तु सा ।
अजायत हि तद्योगात् तन्मन्त्रं प्रजपाम्यहम् ॥५५॥ प्रभोकृष्ण वालकृष्णाऽनादिकृष्णनरायण ।
माणिकीमाधवीलक्ष्मीराधारमापते प्रभो ॥५६॥ शुनि क्रोडे खले काके शवे चाण्डालके यमे ।
राक्षसे ध्वजिनि द्रोहिण्यपि यो वर्तते प्रभुः ॥५७॥ गवि मृगे सति हंसे जीवे द्विजे गुरौ सुरे ।
नृपे देवालये मित्रे वर्तते यो नरायणः ॥५८॥ पवित्रः पावकः कृष्णस्तमहं प्रजपामि वै ।
भक्ताऽस्मि पावनी जाता प्रसादभक्षणादिना ॥५९॥ नाम्नाऽस्मि शबलायोनिश्चाण्डाली वैष्णवी सदा ।
इत्युक्त्वा सा दिव्यरूपा दिव्यविमानगाऽभवत् ॥4.35.६०॥ पाचिका द्रुतमेवाऽस्याः सकाशान्मनुमार्थयत् ।
सापि विमानगा मन्त्रं श्रावयामास भावतः ॥६१ ॥ पाचिका तत्परं मन्त्रं जग्राह सत्वरं तदा ।
तावत् तत्राऽभवत् साक्षात् पूर्वभोक्ता नरस्तु यः ॥६२॥ सोऽप्ययाचत मन्त्रं तं विमानस्था ददौ मनुम् ।
तस्मै कृष्णस्य नामाऽपि दत्वा स्वर्गं गताऽभवत् ॥६३॥ अहो भाग्यं शबलाया धर्मद्रव्यर्पिताऽदनात् ।
स्वर्गं लेभे ततो धर्मदेवताऽपि ततो मनुम् ॥६४ ।
लेभे लब्ध्वा ददौ तत्र चाण्डाल्यै श्रेयसे द्रुतम् ।
चाण्डाली तन्मनुं प्राप्य दिव्यतेजोमयी ह्यभूत्॥६५ ।
धर्मदेवीकराद् यस्तु जग्राह मानवः फलम् ।
भोज्यं स तु मनुश्चासीत् वैष्णवो मूर्तिमाँरतदा ॥६६ ॥ धर्मदेव्याः पावनीत्वं प्रादर्शयन्मनुः स्वयम् ।
षोडशार्णः कृष्णनारायणस्वामिस्वदैवतः ॥६७॥ एवं वै कृपया तत्र पावनी धर्मदेवता ।
मन्त्रोऽपि पावनश्चापि चाण्डाली पावनी तधा ॥६८॥ कृष्णाऽर्पिताऽपि शबदायोनिर्वै पावनी तथा ।
कृष्णनारायणयोगान्निकृष्टयोनिजाऽपि यत् ॥६९॥ पावनी जायते यत्र कृष्णोऽस्ति पावनं तु तत्॥ यद्रिके धर्मदेष्याः सा संश्रुत्वा दासिका ततः ॥4.35.७० ॥ आत्मनिवेदिनी जाता धर्मदेवी तिरोऽभवत् ।
एवंविधां धर्मदेवीं वीक्ष्य चण्डालनी द्रुतम् ॥७ १ ॥ स्तुतिं चक्रे दर्शनार्थं पुनस्तत्राऽतिमोहिनी ।
‘नमो धर्मदेवतायै नारायण्यै नमो नमः ॥७२॥ नमश्चाण्डालिकाभक्त्या प्रसन्नायै च ते नमः ।
नमः शबलिकायोनिस्वरूपायै च ते नमः ॥७३॥ नमो मन्त्रस्वरूपायै महाधात्र्यै च ते नमः ।
नमोऽनादिकृष्णनारायणवाण्यै च ते नमः ॥७४॥ नमः शक्त्यै महाशक्त्यै पावयित्र्यै च ते नमः ।
नमः कल्याणकर्त्र्यै ते दिव्यमात्रे च ते नमः ॥७५॥ मालवान्या मेलदात्र्यै धर्मदायै च ते नमः ।
पुनर्मे दर्शनं देहि मातर्निःसंशयाय मे ॥७६॥ याऽहं पृष्ट्वा भवपारं यास्याम्येव न संशयः ।
इत्यर्थिता धर्मदेवी प्रादृश्यते तदा पुनः ।७७॥ मालवानी नमश्चक्रे पप्रच्छ मोक्षणं प्रे ।
कथं मोक्षं प्रपद्येऽहं कथं पारं प्रयामि च ॥७८॥ का त्वं मे वद कान्तेऽत्र किं कृत्वा त्वं प्रयास्यपि ।
किमर्थं त्वं समायाता का मे भक्तिरनुत्तमा ॥७९॥ कथं वा भावि मे .भाग्यं वद मे गुरुयोगिनि ।
इत्येवं बद्रिके शिष्या पप्रच्छ धर्मदेवताम् ॥4.35.८ ०॥ धर्मदेवी समुवाच सर्वं तस्यै यथातथम् ।
आयाताऽहं परीक्षार्थं स्वीगतार्थेऽतिभावुकीम् ॥८ १ ॥ कीदृशी त्वां तु तां ज्ञातुं त्वया भावोऽति दशितः ।
धर्मदेवोऽस्म्यहं देवीस्वरूपोऽत्र समागतः ॥८२॥ भावं हार्दं च ते भावं धर्मं ज्ञात्वाऽतिहर्षितः ।
स्वागतं भजन ज्ञात्वा दास्यं ज्ञात्वाऽतिहर्षितः ॥८३॥ सम्प्राप्तं पाचितं त्वन्नं मया ते श्रेयसे त्विह ।
प्रसादस्य प्रदानाय तुष्टये ते तथा त्विह ॥८४॥ अथाऽहं ते मनुं दातुमिच्छां चकार शोभनाम् ।
तावान्मन्त्राः स्वयं कृष्णनारायणस्य पावनः ॥८५॥ षोडशार्णो नरो भूत्वा त्वत्कृपार्थं समागतः ।
पावनोऽपि मनुर्धर्मात् पावनतर इष्यते ॥८६॥ इत्येवं स मनुर्भिक्षां भुक्त्वा त्वत्राऽभ्यदर्शयत् ।
चाण्डाली शबलायोनिर्या सा माया प्रमादिनी ॥८७॥ सर्वजन्तुखनिरूपा चायाता कारणात्मिका ।
सर्वयोनिमयी माया सर्वथा मलिना ह्यति ॥८८॥ सापि धर्माच्छुद्धरूपा कृणायोगात्तु सर्वथा ।
शुद्धैव जायते नारायणार्पिता हि मुक्तिदा ॥८९॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्रास्तथाऽन्त्यजा अपि ।
चाण्डालाश्चेति सर्वा या भूताना योनयो भुवि ॥4.35.९ ०॥ ताः सर्वाः श्रीकृष्णनारायणयोगेन दिव्यताम् ।
यान्ति सर्वार्पणभक्त्या चाण्डाली शुद्धिमेति च ॥९ १ ॥ त्वं भक्ता संवीक्ष्य सर्वं जग्रहिथ मनूत्तमम् ।
मत्तोऽत्र तेन सहसा जातासि पावनी शुभा ॥९२॥ तव योगेन चान्यासां चाण्डालीनां प्रमोक्षणम् ।
भविष्यति न सन्देहस्त्वं जाताऽद्य नरायणी ॥९३॥ भक्त्या पूतासि चाण्डालि कृपया पाविता मया ।
मनुना पाविता सम्यग् विप्राण्यसि त्वितः परम् ॥९४॥ महामुक्तानिका चासि ब्रह्मधामनिवासिनी ।
तव सर्वं कुटुम्बं वै पावनं ब्रह्मगोत्रकम् ॥९५॥ अद्यतः खलु सञ्जातं भज श्रीवल्लभम्प्रभुम् ।
त्यज वै तामसं कर्म प्रसेवय तु सात्त्विकम् ॥९६॥ प्रभुन्नारायणं कान्तं लब्ध्वा याह्यक्षरं पदम् ।
कुङ्कुमवापिकाक्षेत्रं प्रयाहि सकुटुम्बिनी ॥९७॥ साक्षात्कृष्णं बालकृष्णं लब्ध्वा याहि परं पदम् ।
इत्युक्त्वा बद्रिके धर्मदेवश्चादृश्यतां गतः ॥९८॥ मालवानी प्रसादं तु भुक्त्वा त्यक्त्वा निजक्रियाम् ।
कुटुम्बसहिता प्राप्ता क्षेत्रं कुङ्कुमवापिकाम् ॥९९॥ अश्वपट्टसरस्तीरे जले स्नात्वा पपौ जलम् ।
अनादिश्रीकृष्णनारायणं तत्र व्यलोकयत् ॥4.35.१० ०॥ कान्तं सुसुन्दरं विष्णुं चतुर्भुजं सुभूषणम् ।
सुतेजसं हरिं वीक्ष्य कुटुम्बेन समं द्रुतम् ॥१०१ ॥ मूर्छामवाप तत्रैव चाण्डाली मालवानिका ।
दिव्यं विमानं सुभगं त्वायातं तत्र शोभनम् ॥१ ०२॥ बालकृष्णं प्रभुं दृष्ट्वा विमानं चाऽप्यरूरुहत् ।
कुटुम्बसहिता दिव्या दिव्यदेहातिसुन्दरी ॥१ ०३॥ अनादिश्रीहरिं ध्यात्वा ययौ धामाऽक्षरं परम् ।
एवं बद्रीप्रिये! भक्ता मालवानि हरिप्रिया ॥१ ०४॥ कुटुम्बेन सहिता साऽभूत् धर्मकृपया तदा ।
महाभागवतं धर्मं लब्धवती प्रभुम्पतिम् ॥१ ०५॥ काम्यधर्मेणापि साध्यधर्मः सम्प्राप्यते क्वचित् ।
पठनाच्छ्रवणादस्याऽवाप्यते धर्मजो वृषः ॥१ ०६॥ इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने मालवान्याश्चाण्डाल्या धर्मबलेन सेवाबलेन धर्मदेवतादर्शनं मूर्तिमत्षोडशोक्षरमनुदर्शनं शबलिकायोनिपावनतादर्शनं ततः कुङ्कुमवापिकागमनोत्तरं सकुटुम्बाया मोक्षणं चेत्यादिनिरूपणनामा पञ्चत्रिंशोऽध्यायः ॥३५ ॥