०३४

श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि विष्टिनार्याः कथां शुभाम् ।
सौराष्ट्रे धनधृङ्नाम्नि नगरे चातिशोभने ॥१ ॥ राज्ञो देवर्द्धिसिंहस्य शासने सम्प्रवर्धिते ।
विषयो बहवश्चासन् मनुष्यवाहकोत्तमाः ॥२ ॥ यत्स्कन्धेषु स्थिताः शिब्यो न कम्पं यान्ति वै मनाक् ।
शिविकास्था न मन्यन्ते भेदं शिबीविमानयोः ॥३ ॥ विष्टयस्ते कृताभ्यासा वहन्ति नृपतिं गुरुम् ।
मातॄँश्च राजमातॄँश्च वधूजनान् सतीजनान् ॥४ ॥ निर्वहन्ते श्रमवाहा वहनोद्भवसद्धनैः ।
राज्ञः कुटुम्बिनश्चापि परिचरन्ति दासवत् ॥५ ॥ यात्रालुमानवान्नारीवर्गान् वरान् विवाहितान् ।
श्रेष्ठिनश्च तथा राज्याधिकारिणो वहन्त्यपि ॥६ ॥ क्वचित् साधून् सतीः साध्वीर्वहन्ति त्वातपादिषु ।
तीर्थात् तीर्थान्तरं चापि प्रसेवन्ते तु वैष्णवान् ॥७ ॥ देवानामुत्सवेष्वेते वहन्ति देवतास्तथा ।
परिभ्रमन्ति नगरे देवमूर्तीः समूह्य वै ॥८ ॥ एवं सेवापराः सर्वे विष्टयो भोयिसञ्ज्ञिनः ।
दासवर्गा नरा नार्यः प्रसेवन्ते महज्जनान् ॥९ ॥ सतां तन्नगरे त्वासीन्मण्डलं कृतमन्दिरम् ।
सदुत्तमोऽभवत्तत्र स्वामी श्रीराधिकायनः ॥4.34.१०॥ राधातुल्यो हरेर्भक्तो विरागवान् हरौ रतः ।
तत्राऽन्ये साधवश्चासन् पञ्चाशत् शिष्यशाखिनः ॥१ १॥ साध्व्यश्चासन् विंशतिश्च श्रीकृष्णप्रतिमाऽपि च ।
बालकृष्णप्रतिमा श्रीयुता तन्मन्दिरेऽभवत् ॥१२॥ कीर्तनानि भवन्त्येव विष्टीनां सद्भिरादरात् ।
सहितानां च साध्वीनां गीतिकाश्च भवन्ति वै ॥१३॥ पूजनं प्रोत्सवाश्चापि भवन्ति विष्टिभिः कृताः ।
विष्टयोऽपि सहस्रं ते राधिकायनसेविनः ॥१४॥ राधिकायनशिष्यास्ते ह्यासन् परमवैष्णवाः ।
प्रातः स्नानपरा ध्यानपरा नैवेद्यभोजनाः ॥१५॥ तीर्थार्चनपराः साधुसेवापराश्च तेऽभवन् ।
नरा नार्यः समस्तास्ते बालाश्च बालिकास्तथा ॥१६॥ बालकृष्णातिभक्ताश्चाऽभवन् निःसंशयाऽनुगाः ।
देहेन मनसा द्रव्यैः साधुसेवापरायणाः ॥१७॥ येषां वै संशयो नाऽभूत् सतां क्रियासु सर्वथा ।
भोजने शयने स्नाने मर्दने चाङ्गवाहने ॥१८॥ विहारे हसने दिव्ये चमत्कारे च लौकिके ।
विवस्त्रे वा सवस्त्रे वा विकारे निर्विकारिणि ॥१९॥ रमणे रामणे वापि भुवि दोलाधिरोहणे ।
गमने धावने वापि गायने कलहेऽपि च ॥4.34.२०॥ सर्वथा साधुचर्यासु संशयो नैव यद्धृदि ।
तादृशा विष्टयश्चासन् कृपापात्राणि ते सताम् ॥२१॥ राधायनसतः प्राप्तमन्त्राः श्रीपरमात्मनः ।
आत्मनिवेदिनः सर्वे सर्वस्वार्पणतत्पराः ॥२२॥ साधुं साध्वीं प्रमन्यन्ते नारायणं नरायणीम् ।
नारायणयोर्योगेन नारायणत्वमाप्यते ॥२३॥ एवंविधानां विष्टीनां विश्वासवशगो हरिः ।
अनादिश्रीकृष्णनारायणोऽपि वशगोऽभवत् ॥२४॥ तत्र विष्टिकृतां पूजां गृह्णाति नित्यमन्दिरे ।
गृहे गृहे हरिर्गत्वा गृह्णात्यर्हणमुत्तमम् ॥२५॥ प्रत्यक्षस्य श्रीहरेस्ते कुर्वन्ति पूजनं महत् ।
चन्दनैरक्षतैस्तैलैः सुगन्धिभिश्च कुङ्कुमैः ॥२६॥ हार्दैर्भावैस्तथा प्रेम्णा स्नेहेन हृदयार्पणैः ।
देहार्पणैस्तथा सर्वार्पणैर्नार्योऽर्चयन्त्यपि ॥२७॥ शृङ्गारयन्ति विष्टीनां कन्यका मुग्धमानसाः ।
बालकृष्णं प्रभुं कान्तं वीक्ष्य सर्वाङ्गसुन्दरम् ॥२८॥ काचित् कृत्वा स्तनयोश्च चरणौ परमात्मनः ।
कण्ठे कृत्वा करौ तस्य सुखं भुङ्क्ते हि शाश्वतम् ॥२९॥ काचित् स्वस्या मुखे कृष्णमुखं चाकृष्य सर्वथा ।
स्वमुखं तन्मुखे युक्त्या स्वादं भुङ्क्ते परात्मनः ॥4.34.३०॥ काचित् कृष्णं निजं कान्तं मत्वा शय्यागता सती ।
आसज्ज्य सर्वथा देहे कामसुखं समश्नुते ॥३ १॥ काचित् कृष्णं निजदेहासने धृत्वा स्वपित्यति ।
काचित् स्पर्शं गण्डयोश्च सक्थ्नोश्च जङ्घयोस्तथा ॥३२॥ जघनस्योदरस्यापि करोति मोदते मुहुः ।
काचिद् धृत्वा कृष्णपादौ संवाहनं करोति च ॥३३।
काचित् स्वोरसि कृत्वैव तादात्म्यं योगमेति च ।
काचित् प्रचुम्बते कृष्णं काचिदाश्लिष्य तिष्ठति ॥३४॥ नखान्नारायणं त्वन्या शिखापर्यन्तमेव तम् ।
सर्वाङ्गं तृष्णया दिव्यं विलोकयति सुन्दरी ॥३५॥ अपरा श्रीहरये तु नैवेद्यं मिष्टमुत्तमम् ।
दुग्धसारादिकं कृत्वा सम्भोजयतिकन्यका ॥३६॥ इतरा शाकपत्रं पाचयित्वा स्वादगर्भितम् ।
पोलिकाभिः समं कान्तं प्रभोजयति कन्यका ॥३७॥ परा तु श्रीहरिं कण्ठे पादयोः करयोस्तथा ।
स्वर्णभूषा धारयति मुकुटादीनि सुन्दरी ॥३८॥ तथाऽन्या कज्जलं कृष्णनेत्रयोः प्रददात्यपि ।
चन्दनं भालफलके तलयोश्चाप्यलक्तकम् ॥३९॥ ओष्ठयो रञ्जनं देहे तैलं ददाति भावुकी ।
नखरञ्जनकार्यं च करोत्यन्याऽतिमोहिता ॥4.34.४०॥ कृष्णमेकान्तमालम्ब्य महानन्दं समश्नुते ।
दधि भक्तं सह भुङ्क्ते स्थाल्यां मुखे ददात्यपि ॥४१॥ जलं शीतं च पिबति ताम्बूलं प्रददात्यपि ।
अतिस्नेहभरा कान्ता भुङ्क्ते ताम्बूलजं रसम् ॥४२॥ अन्या वृद्धा बालकृष्णं वीक्ष्य वीक्ष्य तु सुन्दरम् ।
अन्तःसुखं भुञ्जते वै ध्यायन्त्येकाग्रमानसाः ॥४३॥ सिंहासने सुखट्वायां शुभासने नरायणम् ।
उपावेश्य स्वयं चाग्रे ह्यासीना मोदते क्षणम् ॥४४॥ व्यजनेनाऽनिलं शीतं ददाति परमात्मने ।
पुष्पहारान् ग्रथित्वा तं शृङ्गारयति सर्वथा ॥४५॥ देहस्य मर्दनं चान्या द्रवैः कुर्वन्ति तत्क्षणे ।
स्नपयन्ति जलैर्गन्धैः स्नेहैद्रवार्पणैस्तथा ॥४६॥ शृङ्गारितस्य नाथस्याऽऽरार्त्रिकं ह्याचरन्ति च ।
अवस्थाप्योच्चपर्यङ्के पुरः स्थित्वा स्त्रियोऽपराः ॥४७॥ नृत्यन्ति चापि गायन्ति गीतिका मण्डलात्मिकाः ।
रासं कुर्वन्ति देहानामुत्क्षेपणाऽभिकर्षणैः ॥४८॥ कृष्णस्तासां मानसानि पूरयत्येव सादरः ।
नीत्वा भावभरां भावं पूर्णं करोति वै रहः ॥४९॥ उद्यानादौ वाटिकासु क्षेत्रेषु मन्दिरेष्वपि ।
वृक्षस्तम्बान्तरे नद्यां पुलीनेषु वनेष्वपि ॥4.34.५०॥ गृहेषु गोष्ठभागेषु गर्तेषु गह्वरेऽपि च ।
गृहकक्षास्वपि यथा यथेच्छावती तत्र ह ॥५१ ॥ नारायणो भाववशो याति तस्यां सुक्रीडति ।
भक्तमानसपूरोऽयं भक्ताऽऽनन्दप्रदायकः ॥५२॥ अनादिश्रीकृष्णनारायणः सुखं ददाति हि ।
बद्रिके त्वाबालवृद्धा विष्टिसुन्दर्यं उत्सुकाः ॥५३॥ कृष्णं बुभुजिरेऽत्यर्थं देहेन्द्रियात्ममानसैः ।
एवं विष्टिजनाः कृष्णं सत्कारयन्ति तत्क्षणे ॥५४॥ राजाधिराजवद् वृद्धाः पूजयन्ति स्म माधवम् ।
युवानो युवभावाढ्यं रञ्जयन्ति सुसेवया ॥५५॥ कुमारास्तु सखायं तं प्रसादयन्ति खेलनैः ।
यथेष्टं स हरिर्विष्टिजनतोषणमावहत् ॥५६॥ सर्वविष्टिकुटुम्बानि पावितानि हि चक्रिणा ।
एवं भक्तिवशो नाथो बद्रिकेऽपावयत्तदा ॥५७॥ सङ्क्षेपात् कथितं तेऽत्र प्रत्यहं पावयत्यपि ।
एतादृशानां भक्तानां कृष्णस्त्वेकान्ततां गतः ॥५८॥ न यमा न नियमा नाऽऽम्नायो नापि च शासनम् ।
न पद्धतिर्न चाचारः सर्वनाथे प्रवर्तते ॥५९॥ सर्वनाथेन ये भक्तिमन्तो जनास्तु नाथिताः ।
तादात्म्यस्वीकृतास्तेषु प्रवर्तन्ते न ते तथा ॥4.34.६०॥ कृष्णाचारस्तदा धर्मः कृष्णस्नेहश्च सत्कृतिः ।
कृष्णाप्तिः सत्फलं दिव्यं कृपा कृष्णस्य साधनम् ॥६१॥ कृष्णक्रिया महायज्ञः कृष्णार्थं पुरुषार्थकः ।
कृष्णभावो महायोगो विज्ञानं कृष्णदर्शनम् ॥६२॥ कृष्णस्य शयनं धाम मुक्तिस्तु कृष्णभोगिता ।
सिद्धयः श्रीकृष्णनारायणे साफल्यमुत्तमम् ॥६३॥ जीवनं श्रीकृष्णपार्श्वे वर्तनं हरिसन्निधौ ।
विहारोऽपि रहः कृष्णे निवृत्तिः कृष्णशान्तता ॥६४॥ प्रवृत्तिः श्रीकृष्णनारायणचेष्टानुवर्तनम् ।
कर्तव्यं च विधिश्चापि कृष्णप्रसादनार्थकम् ॥६५॥ रतिः प्रीतिश्च सङ्कल्पः काम आनन्द उत्सवः ।
सर्वं तृप्ते हरौ चात्मनिवेदिनां तु बद्रिके ॥६६॥ नात्मनस्तत्र पार्थक्यं जानाति भक्तिदासिका ।
नापि कृष्णेतरं भुङ्क्ते लावण्यवर्जितं तु तत् ॥६७॥ सर्वे रसाः सर्वगन्धाः सर्वस्पर्शा नरायणे ।
सर्वाः श्रुतयः श्रीकृष्णे सर्वार्थदर्शनं हरौ ॥६८॥ आहाराश्च विहाराश्च येषां सर्वे हि माधवे ।
आनन्दाश्च प्रमोदाश्च नारायणे श्रियः पतौ ॥६९॥ भावा हासा विलासाश्च युगलत्वं हरौ तथा ।
वरत्वं स्वामिता कृष्णे नाथता च विवाहनम् ॥4.34.७०॥ लग्नग्रन्थिर्हरौ येषां तेषां मोक्षे न संशयः ।
जीवतां भुक्तिमोक्षाख्या महानन्दा हरेर्गृहे ॥७१ ॥ देहान्ते नित्यभोगा सा परानन्दाऽक्षरे पदे ।
सर्वथा मन्दिरे तस्य वासो भक्तिमतां शुभः ॥७२॥ निर्मितः कृष्णकान्तेन श्रीकृष्णात्मनिवेदिनाम् ।
बद्रिके विष्टयो भोयिभक्तास्त्वात्मनिवेदिनः ॥७३॥ धनधृग्वासिनः सर्वे वैष्णवाश्चाऽभवँस्तथा ।
यद्गृहेषु स्वयं कृष्णः साक्षात्तिष्ठन् प्रमोदते ॥७४॥ विष्टिकुलेऽभवन्नारी नाम्ना विद्रुमिणी सती ।
सा तु भक्त्या तुर्यभावे वर्तते कृष्णमोहिता ॥७५॥ शृणु त्वं बद्रिके लज्जां त्यक्त्वा त्यक्त्वा पतिं गृहम् ।
हित्वा च मानवीं रीतिमुद्वृत्तान्ता ततोऽभवत् ॥७६॥ कृष्णे त्वात्मा मनो बुद्धिरहं चित्तं जनार्दने ।
देहेन्द्रियाणि वै कृष्णे कृष्णरङ्गमयानि च ॥७७॥ यथा कृष्णस्तथा सापि दिव्यचेष्टा बभूव ह ।
आश्चर्यजनिका तत्र विष्टीनां सर्वतोऽभवत् ॥७८॥ यथा विचित्ता युवती यथोन्मत्ता च मादिनी ।
यथा मस्तानिका वापि प्रमदा प्रमदान्विता ॥७९॥ वर्तते कृष्णकृष्णेति गायत्यपि हसत्यपि ।
कृष्णनारायणं कान्तं रटत्यपि मिलत्यपि ॥4.34.८०॥ जनास्तां तादृशीं वीक्ष्य रुरुधुर्बद्धमन्दिरे ।
पिहितेऽपि कपाटे सा निर्ययौ दिव्यविग्रहा ॥८१॥ गृहे क्षिप्ता जले क्षिप्ता पेटायां पूरिताऽपि सा ।
निरावरणभावा तन्निर्यान्ति दिव्यविग्रहा ॥८२॥ गृहाद् गृहान्तरं निर्गच्छति भित्तिं विभिद्य सा ।
एवमदृश्यतां याति पश्यतां सर्वदेहिनाम् ॥८३॥ क्वचित् कन्या युवती वा वृद्धा वा सुन्दरी शुभा ।
सौम्यहास्यवती कान्ता क्वचिद् रुद्री भवत्यपि ॥८४॥ प्रभाकृष्णेति कृष्णेति स्वामिकृष्णेति गायति ।
एकान्ते तं स्वामिकृष्णं नीत्वा रहसि मोदते ॥८५॥ सा वै पश्यति कान्तेशं कान्ता कृष्णमनस्विनी ।
कृष्णध्यानपरा कृष्णचेष्टा कृष्णस्वरूपिणी ॥८६॥ कृष्णरूपा क्वचिद् राधारूपा क्वचिच्च माणिकी ।
क्वचित् प्रिया तु ललिता पार्वती च जया क्वचित् ॥८७॥ एवंविधां तां जनता ज्ञानवत्येव सर्वथा ।
दिव्येयं खलु सम्पन्ना महामुक्तानिका त्विति ॥८८॥ मत्वा तां सिद्धदेहां च महासाध्वीं तु राधिकाम् ।
लोका नार्यो नरास्तस्याः पूजां चक्रुस्ततोऽर्हणाम् ॥८९॥ पादजलं पपुश्चापि भोजयामसुरुत्सुकाः ।
प्रसादं फलपुष्पादि मिष्टान्नं जगृहुस्तथा ॥4.34.९०॥ साऽपि मायामयं स्पृष्ट्वा दिव्यं करोति तत्क्षणम् ।
पापिजनान् पापिनारीः करोति पुण्यशालिनीः ॥९ १॥ दर्शयित्वा हरिकृष्णं सम्प्रेषयति चाऽक्षरम् ।
विमोचयति तृष्णां च प्रज्वालयति वासनाम् ॥९२॥ कृष्णप्राप्तिं कारयति प्रसङ्गमयत्यच्युतम् ।
मोक्षमार्गं दिशत्येव प्रापयत्यूर्ध्वगं पदम् ॥९३॥ विद्रुमिण्याः प्रसङ्गेन नरा नार्यः सहस्रशः ।
पशवः पक्षिणश्चापि परां मुक्तिमगुस्तदा ॥९४॥ सन्तः साध्व्यश्च तच्छिष्या बभूवुर्वै सहस्रशः ।
जनाश्च लक्षशस्तस्या मुखान्मन्त्रौ प्रजगृहुः ॥९५॥ ‘ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा’ ।
‘अनादिश्रीकृष्णनारायणः स्वामी पतिश्च मे’ ॥९६॥ बालकृष्णो हरिकृष्णः श्रीपतिः पुरुषोत्तमः ।
सदाऽवतु प्रभुश्चास्मान् स्तुतिं त्वेवं प्रचक्रिरे ॥९७॥ एवं श्रीबद्रिके विष्टिनारी विद्रुमिणी सती ।
तेनैव वर्ष्मणा दिव्या राधासमा व्यजायत ॥९८॥ आययौ सा तीर्थवासं कर्तुं लक्षजनैः सह ।
कुङ्कुमवापिकाक्षेत्रं चाश्वपट्टसरोवरम् ॥९९॥ तादात्म्ययोगमापन्ना बालकृष्णे तिरोऽभवत् ।
ब्रह्मप्रियासु दिव्यासु वर्तमानाऽवसत् ततः ॥१०० ॥ नरा नार्यश्च बहुधा न्यूषुर्निरन्तरं ततः ।
त्यागाश्रमं परिगृह्य सन्तः साध्व्यश्च तापसाः ॥१० १॥ योगिन्यस्तापसिन्यश्च भूत्वा च यतयस्तथा ।
आक्षरे दिव्यसंवासे न्युषुश्चाऽश्वसरस्तटे ॥१ ०२॥ अनादिश्रीकृष्णनारायणस्य चरणाश्रये ।
भजित्वा सम्प्रसेवित्वा प्रसाद्य परमेश्वरम् ॥१ ०३॥ ययुर्धामाऽक्षरं दिव्यं लक्षशो विषयोऽपि च ।
विद्रुमिणी विमानेन ययौ धामाऽक्षरं प्रभोः ॥१ ०४॥ एवं बद्रीप्रिये देवि साऽभवद् राधिकासमा ।
महामुक्तानिका यस्याः स्मरणान्मुच्यते ह्यघी ॥१ ०५॥ इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने धनधृक्पत्तनस्थाया विष्टिनार्या विद्रुमिण्याः प्रसत्सङ्गेन लक्षाधिमानवानां दिव्यता मोक्षणं तस्याश्च मोक्षणमित्यादिनिरूपणनामा चतुस्त्रिंशोऽध्यायः ॥३४ ॥