०२८

श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि कथां श्रीपरमात्मनः ।
कैवर्तकस्य भक्तस्य प्रपन्नस्य विमोचिनीम् ॥१ ॥ अस्ति ज्वालालकं नाम नगरं भद्रिकातटे ।
तत्राऽऽस्ते निगडभ्रामो नाम्ना कैवर्तजातिजः ॥२ ॥ करोति वासं भद्राया नद्यास्तु सन्निधौ दिवा ।
मत्स्यग्राहक्रियासक्तः कुटुम्बभरणोद्यमः ॥३ ॥ जालमादाय भद्राया ह्रदे गत्वा तु मत्स्यकान् ।
पाशयित्वा गृहं याति सायं मत्स्यादनः सदा ॥४ ॥ विक्रीय चाधिकान्मत्स्यान् धनं प्राप्नोति यत्तु सः ।
तेनाऽन्नं शाकपत्रादि क्रीत्वा भरते बालकान् ॥५ ॥ पुत्रान् पुत्रीस्तथा पत्नीं भरते तेन कर्मणा ।
अथैकदा स्त्रिया साकं वस्त्रक्षालनहेतवे ॥६ ॥ भद्रां नदीं ययौ जालयुतो निगडभ्रामकः ।
स तु तीरे स्थितो जालं चिक्षेपाऽगाधवारिषु ॥७ ॥ पत्नी तस्याऽम्बरप्रक्षालनोद्यता जलैस्तदा ।
क्षालयत्येव वस्त्राणि तत्र निर्मलवारिधौ ॥८ ॥ वस्त्रध्यानपरा यावन्मज्जयत्यम्बरं जले ।
तावत् तत्पतिना जाले पाशितं तु तिमिं पतिम् ॥९ ॥ वीक्ष्य द्राक् च तिमेश्चक्रोशनं श्रुत्वा भयावहम् ।
तिमिनी पाशबद्धं स्वं पतिं कैवर्त्तरोधितम् ॥4.28.१ ०॥ आकृष्यमाणं जालेन बहुमत्स्यसमन्वितम् ।
शशाप दुःखमापन्ना रक्षणे शक्तिवर्जिता ॥११ ॥ कैवर्त्तं मानुषीवाण्या भूत्वाऽतिविह्वला तदा ।
कैवर्त्त त्वं भवावर्त्तान्मा मुक्ताः कर्हिचिद् भव ॥१२॥ मुहुस्तिमिङ्गिलो भूत्वा मर कैवर्तजालगः ।
यथाऽहं दुःखिनी त्वत्र भवामि पतिनाशतः ॥१ ३॥ तथा पत्नी तव चापि सदाऽस्तु दुःखिनीति च ।
एवं मत्स्यवधूश्चोक्त्वा रुरोदाऽपत्यवारिता ॥१४॥ तावत् कैवर्त्तिकाऽऽश्चर्यं श्रुत्वाऽपश्यज्जलान्तरे ।
मीनी रौतीति पत्यर्थं पतिर्जालान्तराऽर्दितः ॥१५॥ शापं ददौ तु सा मत्स्येत्येवं वेद निजान्तरे ।
सहसा चाऽम्बरं त्यक्त्वा पत्युः सन्निधिमेत्य च ॥१६॥ विचार्य मत्स्यमोक्षार्थं जालसूत्रं करेऽकरोत् ।
पतिहस्तान्मोचयित्वा लब्ध्वा जालं जले शनैः ॥१७॥ मुमोचाऽबन्धनायैव मत्स्यानां शापभीयुता ।
जालशैथिल्यभावेन मत्स्या जालाद्विनिर्ययुः ॥१८॥ सर्वेऽपि त्वक्षता जाले निर्गत्य विविशुर्जलम् ।
संवदन्तः प्रसन्नाश्च जीव त्वं लक्षवत्सरान् ॥१९॥ सदैव सधवा चापि पतिसेवापरायणा ।
दयावती च मत्स्यानां हिंसाकर्मादिवर्जिता ॥4.28.२०॥ हृष्टा भवतु कैवर्त्ति सदाऽस्मद्रक्षणादिह ।
एवं मत्स्यादयश्चोक्त्वा विविशुर्जलमध्यके ॥२१॥ अथ श्रुत्वा तु कैवर्त्तो महाश्चर्यपरोऽभवत् ।
क्षुधान्वितोऽपि पत्न्यास्तत् कर्म वीक्ष्य दयापरम् ॥२२॥ अनुमेने मुमोचापि जालं तीरे वियत्नकः ।
पत्नीं पप्रच्छ किमिदं सहसा जालकर्षणम् ॥२३॥ पत्नीं तं श्रावयामास शापं मत्स्योदितं तदा ।
कैवर्त्तश्च समाश्रुत्य भयं चावाप जन्मनाम् ॥२४॥ मत्स्ययोनिजदुःखानां पश्यन्नानन्त्यमन्वहम् ।
मत्स्यै तु शापदात्र्यै च मोचयित्र्यै तु योषिते ॥२५॥ धन्यवादान् ददौ तत्र यत् पापान्मोचितस्त्विति ।
जालं त्यक्त्वा क्षणे तत्र वह्नौ प्रज्वाल्य धीवरः ॥२६॥ फलकन्दाऽन्नशाकादस्तत आरभ्य सोऽभवत् ।
बद्रिके पुण्यसाधूनां सङ्गमः सद्गतिप्रदः ॥२७॥ मत्स्या इमेऽभवत् सर्वे ऋषयो मत्स्यरूपिणः ।
भद्रायां तज्जलेऽनादिकृष्णनारायणः प्रभुः ॥२८॥ बहुवारं गजे स्थित्वा यत्र स्नानाय गच्छति ।
तत्तीर्थलोभवशगा महर्षयोऽभवन् झषाः ॥२९॥ यस्तु धृतो महान् मत्स्यो मत्स्या चान्ये च येऽभवन् ।
मत्स्यरूपोऽभवत् सोऽत्र महर्षिः पिपठायनः ॥4.28.३०॥ सर्वज्ञकल्प ऊर्ध्वदृक् सर्वविद्यानिधिर्द्विजः ।
मत्स्या पत्नी च नाम्नाऽस्य पाठायनीति साऽभवत् ॥३१ ॥ अन्ये मत्स्यादयो विप्रा वेदज्ञाश्चाऽभवन् जले ।
बद्रिके स तु कैवर्त्तः पापो महर्षिदण्डवान् ॥२२॥ पत्न्या सदयया कान्तस्तारितः समयज्ञया ।
बन्धकृन्निरयं याति बन्धहा याति गौरवम् ॥३३॥ जीवाऽभवप्रदाता तु सर्वस्वर्गानि विन्दति ।
भयदस्तु पतत्येव स्वर्गादपि सुखालयात् ॥३४॥ अथ कैवर्त्तिकी नत्वा पप्रच्छ जलमत्स्यकान् ।
के भवन्तः कथं मत्स्याः कथं वागीदृशी शुभा ॥३५॥ कथं वा मत्स्यरूपत्वं कथयन्तु दयालयाः ।
इत्यभिनोदिता विप्राः प्रत्यूचुर्निगडभ्रमम् ॥३६॥ अत्राऽनादिकृष्णनारायणः श्रीभगवान् स्वयम् ।
कुङ्कुमवापिकाक्षेत्राद् विहर्तुं गजमास्थितः ॥३७॥ रसालारण्यमायाति विश्राम्यत्यत्र शाद्वले ।
स्नाति क्रीडति भद्रायास्तटे सत्सलिले हरिः ॥३८॥ बहुधा श्रीरमालक्ष्मीराधाप्रियादिभिः सह ।
माधवीललितामुक्ताजयाभिः सह पार्षदैः ॥३९॥ रमते वार्षु तैस्ताभिर्भुङ्क्ते फलानि पाति वाः ।
प्रसादं प्रददात्येवोपस्थितेभ्यः कृपापरः ॥4.28.४० ॥ ऋषिभ्यः पार्षदेभ्यश्च यादोभ्यः पशुपक्षिषु ।
क्षिपत्येते प्रसादं तं प्राप्य यान्ति कृतादराः ॥४१ ॥ मिष्टान्नानि विचित्राणि भोजयत्यत्र माधवः ।
उत्सवान् प्रकरोत्यत्र दानान्यर्पयति प्रभुः ॥४२॥ तदर्थं बहुधा चात्र विप्रा दीनाश्च सेवकाः ।
वसन्त्यत्र प्रसादानां दानानामिच्छया मुधा ॥४३॥ वयं चापि वसामोऽत्र विप्रा हर्यर्थमेव ह ।
पिपठायनमूर्धन्याः शतं कुटुम्बिनः शुभाः ॥४४॥ आश्रमाः श्रीरसालानामधः सन्ति विलोकय ।
अथाप्यत्र समायान्ति जलार्थं वनराक्षसाः ॥४५॥ क्वचिद् रात्रौ दिवा वापि बहुक्रूरप्रकर्मिणः ।
पीडयन्ति विप्रजनान् प्रहरन्ति क्वचित् खलाः ॥४६॥ अपहरन्ति च योषिद्वर्गं हरन्ति वस्तुकम् ।
प्रतिकर्तुं वयं शक्ता अपि त्वहिंसया स्थिताः ॥४७॥ भगवल्लाभयोगेन चाऽक्लेशेन च वारिषु ।
क्वचित् क्वचिद् वसामोऽत्र मत्स्या भूत्वा जलान्तरे ॥४८॥ क्वचित्तु मानवाश्चापि मृगा वा सिद्धसाधवः ।
भूत्वा भूत्वा विचरामो चूतारण्ये सुराष्ट्रके ॥४९॥ वद त्वं वै कथमत्र कोऽसि कस्माच्च हिंससि ।
कथं वै क्रूरतां हिंसां वहस्यत्रापि मानवे ॥4.28.५० ॥ दुर्लभो मानवो देहो मोक्षदः स्वर्गदः शुभः ।
कथं हिंसया निरयान् व्रजितुं कर्मकृद् भवान् ॥५१ ॥ हिंसा स्तैन्यं पारदार्यं कपटं छलताऽनृतम् ।
निन्दा दोषारोपणं च निरयाणां प्रदास्त्विमे ॥५२॥ मांसाशनं सुरापानं द्रोहो मालिन्यमार्त्तदा ।
परापहरणं क्रोधो निरयाणां प्रदास्त्विमे ॥५३॥ सेवा सतां हरौ भक्तिः पराऽभयप्रदानकम् ।
अहिंसनं प्रसादानामशनं चाप्यनिन्दनम् ॥५४॥ परोपकरणं दानं स्वर्गस्यैते प्रदा मताः ।
शुद्धिः पूजा दर्शनं च सत्सङ्गोऽन्नफलाशनम् ॥५५॥ स्वत्वमात्रेण निर्वाहः स्वर्गाणां तु प्रदास्त्विमे ।
हिंसया जायते दुःखं पापं तन्निरयप्रदम् ॥९६॥ उदरार्थं परप्राणविनाशः कर्म निर्घृणम् ।
सत्सु फलेषु कन्देषु विविधान्नेषु सत्स्वपि ॥५७॥ मांसाशनो भवेद् यस्तु स याति रौरवं परम् ।
जीवा नैव तु हन्तव्याः फलं भक्ष्यं पवित्रकृत् ॥५८॥ दुग्धं पेयं गवां सम्यक् हन्तव्या गौर्न वै क्वचित् ।
फलं पुष्पं च पत्रं च भक्षणीयं द्रुमादिजम् ॥५९॥ द्रुमा नैव विहन्तव्या वृथा फलादिनिर्वहे ।
दुग्धं पेयं तथा मातुर्मारणीया न जीवतः ॥4.28.६०॥ मधु ग्राह्यं कुसुमेभ्यो नाशनीयानि नैव ह ।
करा ग्राह्या प्रजाभ्यस्तु भक्षणीया न सर्वथा ॥६१ ॥ कस्तूरिका हरिणेभ्यो ग्राह्या घात्या न ते मताः ।
एवं भोगमयं सर्वं यदंशे भोगयोगि तत् ॥६२॥ भोक्तव्यं न तु हन्तव्यं हननं नरकप्रदम् ।
तस्मात्त्वं हिंसको भूत्वा मा याहि नरकान् प्रति ॥६३॥ स्वर्गं साधय कैवर्त्त त्यज हिंसा सुखी भव ।
इत्युपदिष्टः कैवर्त्तो नत्वा मत्स्यात्मकानृषीन् ॥६४॥ अपराधक्षमां तेभ्यो ययाचे शापमोचनीम् ।
शापोऽयं मत्स्यिकादेव्या विसर्जितः शरो यथा ॥६५॥ लग्नो मे हृदये तूर्णमुद्वेजयति चाधिकम् ।
शापमुक्तिर्यथा स्यान्मे तथा ऋषे विधेहि वै ॥६६॥ इत्येवं त्वं त्वर्थयामास ययाचे तत्पुनः पुनः ।
कृपां कृत्वा ततो बद्रि पिपठायनभूसुरः ॥६७॥ उवाच मे वचनात्ते शापो निःसत्त्वतां गतः ।
किन्तु मे वचनं लब्ध्वा याहि कुङ्कुमवापिकाम् ॥६८॥ अनादिश्रीकृष्णनारायणो यत्र विराजते ।
अश्वपट्टसरोवारिमध्ये स्नानं विधेहि च ॥६९॥ दर्शनं श्रीकृष्णनारायणस्याऽपि विधेहि च ।
पूजनं पत्रपुष्पाद्यैर्विधेहि कुरुसेवनम् ॥4.28.७०॥ मन्त्रं गृहाण मत्तोऽत्र पावनं पौरुषोत्तमम् ।
‘ओं नमः श्रीकृष्णनारायणायस्वामिने स्वाहा’ ॥७१ ॥ बद्रिके स समाकर्ण्य मन्त्रं प्राप्य ऋषेर्गुरोः ।
सपत्नीकः स कैवर्त्तो जग्राह नियमान् यमान् ॥७२॥ अहिंसनं साधुसेवामचौर्यं वन्यवृत्तिताम् ।
कन्दमूलफलान्नाद्याहारं तीर्थनिषेवणम् ॥७३॥ भजनं ‘श्रीकृष्णनारायणेति मालया सदा ।
पूजनं च सदा नारायणस्य माधवीपतेः ॥७४॥ सत्सङ्गं लोमशादीनां पिपठायनदर्शितम् ।
भूतानामभयं चेति व्रतं जग्राह सर्वथा ॥७५॥ पूजयित्वा गुरुं चापि गुर्वीं च पिपठायनीम् ।
तथाऽन्यान् सर्वब्रह्मर्षीन् जालं त्यक्त्वा नदीतटे ॥७६॥ जलं पीत्वा तु भद्रायाः पिपठायनपादजम् ।
नत्वा चाशीर्वचो लब्ध्वा सपत्नीको गृहं ययौ ॥७७॥ पुत्रादीन् सह नीत्वैव त्यक्त्वा ज्वालालकं पुरम् ।
ययावश्वपट्टसरो हर्षितो निगडभ्रमः ॥७८॥ तीर्थं चकार देवानां दर्शनं स्नानमर्चनम् ।
उपवासं चकारापि लोमशस्यापि दर्शनम् ॥७९॥ अनादिश्रीकृष्णनारायणस्याऽर्चनमुत्तमम् ।
भावदर्शनयुक्तं स चकार वन्दनं ततः ॥4.28.८०॥ कृतकृत्योऽस्मि भगवन् भवच्चरणदर्शनात् ।
नारायणेन भवता दत्तो मानवविग्रहः ॥८ १ ॥ धर्मार्थः स मया नीतोऽधर्मार्थः क्षपितोऽधुना ।
पिपठायनसङ्गेन बोधमाप्तोऽस्मि मुक्तये ॥८२॥ अप्यहं मत्स्यशापाच्च मुक्त्यर्थमत्र सङ्गतः ।
समुद्धर कृपासिन्धो प्रज्वालयाऽघपर्वतम् ॥८३॥ मत्स्यादोऽहं मत्स्यमार एष ते शरणं गतः ।
इत्युक्त्वा बद्रिके कृष्णपादयोर्निपपात ह ॥८४॥ तद्भार्याऽपि हरेः पादौ धृत्वाङ्गुष्ठं चुचुम्ब ह ।
पादजलं पपौ पादौ दधारोरसि शीतलौ ॥८५॥ मस्तके च रजश्चापि दधार भावसम्भृता ।
अनादिश्रीकृष्णनारायणस्तां नैगडीं स्त्रियम् ॥८६॥ निगडभ्रामकं चापि दिव्यमूर्तिमदर्शयत् ।
कृपयैव च पापानि ज्वालयामास तत्क्षणात् ॥८७॥ दिव्यदृष्ट्या निगडोऽपि नैगडी तं परेश्वरम् ।
चतुर्भुजं कमलया सहितं सन्ददर्श ह ॥८८॥ भद्रानद्यां हरिं तीरे रमन्तमृषिमण्डले ।
अपश्यद् विहरन्तं च बालकृष्णं श्रियः पतिम् ॥८९॥ अथैनं कुङ्कुमवापीक्षेत्रे तेजसि भूम्नि वै ।
अपश्यत् सन्निधौ चापि मानवं संस्थितं प्रभुम् ॥4.28.९०॥ एवं प्रदर्श्य रूपं स्वं तमाह निगडभ्रमम् ।
पिपठायनयोगेन याम्यक्लेशो गतस्तव ॥९१ ॥ मम योगेन निगडभ्रम याहि मदक्षरम् ।
इत्युक्त्वा विररामाऽसौ श्रीहरिकृष्णधर्मजः ॥९२॥ निगडभ्रामकश्चाह नम ओम् परमात्मने ।
तावत्तत्र समायातं विमानं पारमेश्वरम् ॥९३॥ दिव्यं पार्षदसञ्जुष्टं सर्वसौवर्णभूषणम् ।
निगडो नैगडी चोभौ तत्यजतुर्हि भौतिकौ ॥९४॥ देहौ प्राप्याऽपरौ दिव्यौ ययतुश्चाऽधिरुह्म तत् ।
वैकुण्ठं श्रीहरेर्धाम कल्पपर्यन्तमेव ह ॥९५॥ ततोऽक्षरपदं तौ वै प्राप्स्यतः परमात्मनः ।
तत्पुत्राद्यास्ततश्चक्रुः पित्रोस्तत्रौर्ध्वदैहिकम् ॥९६॥ वैष्णवाः परमा जाता बालकृष्णसमाश्रिताः ।
कैङ्कर्यं ते प्रकुर्वन्ति पञ्च पुत्रा हरेः सदा ॥९६॥ पुत्रीत्रयं हरेर्दास्यं चक्रुश्चाजीवनं ततः ।
साध्व्यश्च साधवस्ते वै जाता भागवतोत्तमाः ॥९८॥ नाम्ना साध्व्यः पुण्डरिकासती निर्वाणिकासती ।
आनन्दघनिकासाध्वी तिस्रो नारायणाश्रिताः ॥९९॥ पुत्राः पञ्च ज्ञानदर्भिः प्रभादर्भिर्विदर्भिकः ।
विष्णुदर्भिः कृष्णदर्भिस्त्वेते भागवतोत्तमाः ॥4.28.१ ००॥ अभवन् साधवो दिव्यास्तापसाः सिद्धयोगिनः ।
अश्वपट्टसरोभूमौ स्वामिसेवापरायणाः ॥१०१ ॥ बद्रिके तेऽपि कालेन परां मुक्तिं ततो गताः ।
अनादिश्रीकृष्णनारायणप्रतापपावनाः ॥१ ०२॥ इतिश्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने भद्रानद्यां पिपठायनर्षियोगेन निगडभ्रमादिकैवर्त्तानां श्रीकृष्णनारायणाश्रयो मोक्षणं चेत्यादिनिरूपणनामाऽष्टाविंशोऽध्यायः ॥२८ ॥